________________
५११
६।६ ]
षष्ठोऽध्यायः
इमाः पुनस्तत्प्रभवाः पञ्चविंशतिक्रियाः सत्स्वेतेषु त्रिषु प्राच्येषु परिणामेषु भवन्ति यथा मूर्च्छा कारणं परिग्रहः कार्यं तस्मिन्सति पारिग्राहिकी' 'क्रिया न्यासरक्षणाविनाश संस्कारादिलक्षणा | तथा, क्रोधः कारणं प्रदोषश्च कार्यं तस्मिन् सति प्रादोषिकी क्रिया । मानः कारणं कार्यमप्रणतिः तस्यां सत्यामपूर्वाधिकरणोत्पादनत्वात् प्रात्यायिकी क्रिया । माया कारणं कार्यं कुटिलक्रिया तस्यां सत्यां ज्ञानदर्शनचारित्रेषु मायाप्रवृत्तिक्रिया । प्राणातिपातः कारणं कार्यं प्राणातिपातिकी क्रिया । मृपावादाऽदत्तादानाऽब्रह्मचर्याणि कारणं कार्यमसंयमोदयादाज्ञाव्यापादिका क्रिया । एवमितरत्रापि योज्यम् ।
१०
इन्द्रियग्रहणमेवास्त्विति चेत्; न; तदभावेऽप्यास्त्र व सद्भावात् ॥ १६॥ स्यादेतत्-इन्द्रियग्रहणमेवास्तु, कुतः ? लघुत्वात् - इन्द्रियैहिं उपलभ्य विचार्य च कपायात्रतक्रियासु प्रवर्तन्ते प्रजाः । अतः इन्द्रियवचनेनैव गतत्वात् कषायात्रतक्रियाणामग्रहणम स्थिति; तन्न; किं कारणम् ? तदभावेऽप्यास्रवसद्भावात् । यदि हीन्द्रियग्रहणमेव स्यात् प्रमत्तस्यैव आस्रव उक्तः स्यात् नाप्रमत्तस्य । प्रमत्तो हि चक्षुरादिभिः रूपादिविषयासेवनं प्रत्याहतः रूपादीन सेवमानोऽसेवमानो वा अनन्तानुबन्ध्यप्रत्याख्यानक्रोधमानमायालोभहिंसादिकारणकपायाष्टकपरिणतः हिंसादीन कुर्वन्नकुर्वन् वासातत्येनाविरतः प्रमत्तत्वात् कर्मादत्ते । अप्रमत्तस्तु पञ्चदशप्रमादातीतोऽपि योगकषायनिमितमात्रवमश्नुते । एकद्वित्रिचतुरिन्द्रियाऽसंज्ञिपवेन्द्रियेषु च यथासंभवं चक्षुरादीन्द्रियमनोविचाराभावेऽपि क्रोधादिहिंसापूर्व ककर्मादानं दृश्यते । तस्मात् सर्वसंग्रहार्थं कषायादिग्रहणं क्रियते ।
कषायाणां साम्परायिकभावेऽपि पर्याप्तत्वात् अग्रहणमिति चेत्; न; सन्मात्रेऽपि तत्प्रसङ्गात् | १७| स्यान्मतम् - नाडरक्तंद्विष्टो रूपादीनर्थान् चक्षुरादिभिरुपलभते, नचाऽरक्तद्विष्टो जीवान् हिनस्ति मृपावादादिषु वा प्रवर्तते, अतः कषायग्रहणेनैव साम्परायिकास्रवस्य पर्याप्तत्वात् इन्द्रियात्रतक्रियाणामग्रहणमस्तु इति; तन्न; किं कारणम् ? सन्मात्रेऽपि तत्प्रसङ्गात् । उपशान्तकषा- २० यस्य कपायसन्मात्रावस्थाने चक्षुरादिभी रूपादिग्रहणात् रागद्वेषहिंसाद्यात्मलाभप्रसङ्गः । किञ्च, चक्षुरादिभी रूपादिग्रहणे वीतरागत्वात्, अन्यथा यस्य चक्षुरादिभी रूपादिग्रहणमात्रत्वात् रक्तद्वित्वम्, तस्य वीतरागत्वाभावः । तस्मात् कषायग्रहणमात्रमयुक्तम् ।
अव्रतवचनमेवेति चेत्; न; तत्प्रवृत्तिनिमित्त निर्देशार्थत्वात् | १८| स्यादेतत्-अत्रतवचनमेव युक्तं तत्र वेन्द्रियकषायक्रिया परिणामान्तर्भावादिति; तन्न; किं कारणम् ? तत्प्रवृत्तिनिमित्त- २५ निर्देशार्थत्वात् । तस्य हि अत्रतस्येन्द्रियादिपरिणामाः प्रवृत्तिनिमित्तानि भवन्ति ततस्तद्ग्रहणं न्याय्यम् ।
आह-योगत्रयस्य एकान्नचत्वारिंशत्प्रभेदाः सर्वात्मकार्यत्वात् संसारिणां सर्वेषां साधारणाः, ततः फलानुभवं प्रत्यविशेष इति ? अत्रोच्यते - नैतदेवम्, यस्मात् सत्यपि प्रत्यात्मसंभवे तेषां परिणामेभ्यः अनन्तविकल्पेभ्यः विशेषोऽभ्यनुज्ञायते । कथमिति चेत् ? उच्यते
तीव्रमन्दज्ञातांऽज्ञातभावाधिकरणवीर्यविशेषेभ्यस्तद्विशेषः || ६ ||
अतिप्रवृद्धक्रोधादिवशात् तीवनात्तीत्रः | १ | बाह्याभ्यन्तरहेतूदीरणवशादुद्रिक्तः परिणामः तीबनात् स्थूलभावात् तीव्र इत्युच्यते ।
तद्विरीतो मन्दः |२| अनुदीरणप्रत्ययसन्निधानात् उत्पद्यमानोऽनुद्रिक्तः परिणामो मंन्दनात् गमनात् मन्द "इत्युच्यते ।
१५
१ निविंशतितमी क्रिया । २ क्रियाऽन्यासंर-ता०, श्र० मू० । ३-दिकी क्रि-मु०, ६०, ब० । ४ प्रत्यावृतः मु०, द० । ५ रागद्वेषरहितः । ६ संसारकारणस्य । ७ इन्द्रियादयः पूर्वब्रोदिताः । ८ योगानाम् । ३ मन्दनान्मन्द मु०, ६०, ब० । १० इति कथ्यते मू० ।
३०
३५