________________
५
तत्त्वार्थवार्तिके
[ ६६
ज्ञातमात्रं ज्ञात्वा वा प्रवृत्तं शतम् |३| हिनस्मि इत्यसति परिणामे प्राणव्यपरोपणे ज्ञातमात्रं मया व्यापादित इति ज्ञातम् । अथवा 'अयं प्राणी हन्तव्यः' इति ज्ञात्वा प्रवृत्तेः ज्ञातमित्युच्यते । मदात्प्रमादाद्वाऽनवबुध्य प्रवृत्तिरज्ञातम् |४| सुरादिपरिणामकृतात् करणव्यामोहकरात् मदाद्वा मनःप्रणिधानविरहलक्षणात् प्रमादाद्वा व्रज्यादिष्वनवबुध्य प्रवृत्तिरज्ञातमिति व्यवसीयते । अधिक्रियतेऽस्मिन्नर्था इत्यधिकरणम् |५| अर्थाः प्रयोजनानि पुरुषाणां यत्राधिक्रियन्ते प्रस्तूयन्ते तदधिकरणम्, द्रव्यमित्यर्थः ।
५१२
द्रव्यस्यात्मसामर्थ्य वीर्यम् | ६| द्रव्यस्य शक्तिविशेषः सामर्थ्यं वीर्यमिति निश्चीयते । भावशब्दस्य प्रत्येकं परिसमाप्तिर्भुजिवत् |9| यथा देवदत्त जिनदत्तगुरुदत्ता भोज्यन्तामिति भुजि: प्रत्येकं परिसमाप्यते तथा अयं भावशब्दः प्रत्येकं तीव्रादिभिरभिसंबध्यते - तीव्रभावः मन्द१० भावः ज्ञातभावः अज्ञातभाव इति ।
युगपद संभवात् भावशब्दस्यायुक्तं विशेषणमिति चेत्; न; बुद्धिविशेषव्यापारात् || स्यान्मतम् - भावो नाम द्रव्यस्य अहेयः परिणामः, तस्यैकत्वात् सदात्मख्यापनं युगपत्तीत्रादिविशेपणं चानुपपन्नम्, यथा गोत्वमेकं न खण्डमुण्डादीनां गोद्रव्याणां विशेषकं गोप्रत्ययाभिधानहेतुत्वात् तथा भावः सत्प्रत्ययाभिधानहेतुत्वात् न तीव्रादीनां विशेषक इति; तन्न; किं कारणम् ? १५ बुद्धिविशेषव्यापारात् । बौद्धोऽयं व्यापारः तीव्रादिपरिणामानां विशेषकः । कथम् ? भावद्वैविध्यात् । द्विविधो हि नो' द्रव्याणां भावः परिस्पन्दरूपः इतरश्च । तत्रापरिस्पन्दो द्रव्याणाम् अस्तित्वभावोऽनादिः । परिस्पन्दरूपस्तु व्ययोत्पादात्मक आदिमान् । तंत्र योऽपरिस्पन्दः स सामान्यमात्रगतो भावः नासौ तीव्रादीनां विशेषकः । यस्तु कायादिक्रियालक्षणो भावः स कायादि सत्त्वस्य युगपतत्रादीनां च विशेषकः कायवाङ्मनस्कर्मयोगाधिकारात् । "सोऽयं विशेष: बौद्धाद् व्यापारा' द् २० विभाव्यते । अथवा, भाववत् आत्मनोऽव्यतिरेकात् तीव्रादीनामपि भावसिद्धिः ।
1
किञ्च भावभूयस्त्वात् । असंख्येयलोकपरिमाणा हि भावाः एकैकस्मिन्नपि कषायादिपरिमे, ततो भावबहुत्वोपपत्तेः युगपदसंभवात् एकस्य भावस्य अयुक्तः संबन्धः इत्यवबोध्यम् । "योऽपि त्वन्मत्याऽयं भावः एकः तथापि बौद्धाद् व्यापारात्संबन्धः सिद्धः ।
वीर्यस्यात्मपरिणामत्वात् पृथगग्रहणमिति चेत्; न; तद्विशेषवतो "व्यपरोपणादिष्वात्र२५ वफलभेदज्ञापनार्थत्वात् । स्यान्मतम् - पृथग् वीर्यग्रहणमनर्थकम् । कुतः ? आत्मपरिणामत्वात् । जीवाधिकरणस्य हि परिणामो वीर्यमधिकरणग्रहणेनैव गृह्यत इति; तन्नः किं कारणम् ? तद्विशेषवतो व्यपरोपणादिष्वास्रवादिज्ञापनार्थत्वात् । वीर्यवतो हि आत्मनः तीव्रतीत्रतरादिपरिणामविशेषो जायते ।
तथा च तीव्रादिग्रहणसिद्धिः | १० | तेन प्रकारेण तथा आस्रवफलभेदज्ञा पनेनेत्यर्थः, ३० तोत्रादीनां पृथग्ग्रहणं सिद्धं भवति । इतरथा हि जीवाधिकरणस्वरूपत्वात् तीत्रादीनां पृथग्ग्रहणमनर्थकं स्यात् ।
तन्निमित्तत्वाच्छरीराद्यानन्त्यसिद्धिः |११| कार्यभेदेनावश्य कारणभेदपूर्वकेण भवितव्यम्। उक्ताश्चानन्ता आस्रवभेदा अनुभागविकल्पात्, ततस्तत्कार्यमात्मनः शरीराद्यानन्त्यं सिध्यति । कार्यानन्त्यं च कारणानन्त्यस्यानुमानम् ।
सूत्रकाराभिप्रायमिति ज्ञापयति । ५ भावपरिहरति । ६ अङ्गीकृत्याप्याह । ७ भाव१० तथापि त्व- ता०, श्र०, मू० द० ।
१ अस्माकम् । २ द्वयोर्मध्ये | ३ मत्वस्य मु । ४ शब्दस्य द्वैविध्येऽपि परिस्पन्दरूप एवेति कुतोऽवसीयते इत्याशङ्क्य वचनात् मु० । ८-रिणामा हि सु० द० । ६-ध्यते मु० । ११ हिंसादिषु । १२ ज्ञापकम् ।