________________
६७--]
षष्ठोऽध्यायः अत्राह-अधिकरणमुक्तं तत्स्वरूपमनितिम् , अतस्तदुच्यतामिति ? तत्र भेदप्रतिपादनद्वारेण अधिकरणस्वरूपनिर्ज्ञानार्थमिदमुच्यते
अधिकरणं जीवाजीवाः ॥७॥ उक्तलक्षणा जीवाऽजीवाः ।१। जीवानामजीवानां च लक्षणं व्याख्यातम् । पुनर्वचनमिदानी किमर्थम् ?
पुनर्वचनमधिकरणविशेषज्ञापनार्थम् ।२। पुनर्वचनं क्रियते अधिकरणविशेषज्ञापनार्थम् । जीवाऽजीवानामधिकरणं इत्ययं विशेषो ज्ञापयितव्य इति । कः पुनरसौ ? हिंसाद्युपकरणभावः ।
द्विघचनप्रसङ्ग इति चेत् ; न; पर्यायाणामधिकरणत्वात् ।३। स्यादेतत्-मूलपदार्थयोईिस्वात् जीवश्चाजीवश्च जीवाजीवाविति द्विवचनं प्राप्नोतीति; तन्न; किं कारणम् ? पर्यायाणामधि- . करणत्वात् । न जीवाजीवसामान्यमधिकरणत्वं विभर्ति । किं तर्हि ? पर्यायाः । येन केनचित् १० पर्यायेण विशिष्टं द्रव्यम् अधिकरणमित्याख्यायते । ततो बहुवचनं न्यायप्राप्तम् ।
जीवाजीवाधिकरणमित्यस्तु लघुत्वादिति चेत् ; नः वृत्तिद्वयेऽप्यभिप्रेतार्थगत्यभावात् ।४। स्यादेतत्-'जीवाजीवाधिकरणम्' इत्येतत्सूत्रमस्तु, कुतः ? लघुत्वादिति; तन्न; किं कारणम् ? वृत्तिद्वयेऽप्यभिप्रेतार्थगत्यभावात् । अत्र द्वितयी वृत्तिः स्यात्-जीवाजीवावेवाधिकरणम् , जीवाजीवर्योवाऽधिकरणं जीवाजीवाधिकरणमिति ? न तावत् सामानाधिकरण्यलक्षणा वृत्तिरुपपद्यते; जीवा- १५ जोवत्वविशेषणविशिष्टाधिकरणमात्रप्रतिपत्तेः आस्रवविशेषज्ञापनाभावात् अभिप्रेतार्थगत्यभावः। नापि भिन्नाधिकरणा वृत्तिः युज्यते; तयोराधारमात्रप्रतिपत्तेः अभिप्रेतास्रवविशेषार्थगत्यभाव इति । न च तयोरधिकरणं व्यतिरिक्तमुपलभ्यते, तस्मादस्तु तयोराद्य एव पाठः। अथ जीवाजीवाधिकरणं कस्य ? आस्रवः प्रकृतः, तस्येत्यभिसंबध्यते । स तर्हि तथा निर्देशः कर्तव्यः ? न कर्तव्यः ।
अर्थवशाद्विभक्तिपरिणामोपपत्तेरामावस्येत्यभिसंबन्धः ॥५॥ यथा 'उच्चानि देवदत्तस्य गृहाणि २० आमन्त्रयस्वैनम्' 'देवदत्तम' इति अर्थवशाद्विभक्तिपरिणामो भवति, एवमिहाप्यधिकरणं जीवाजीवौ कग्य ? आत्र वस्येत्यभिसंबन्धोऽर्थवशाद्वेदितव्यः। तदुभयमधिकरणं दशप्रकारम्विषलवणक्षारकटुकाम्लस्नेहाग्नि-दुष्प्रयुक्तकायवाङमनोयोगभेदात् ।
किमेतावानेव भेदः, आहोस्वित् कश्चिदन्योऽप्यस्ति ? अस्तीति । 3 तावद्भेदः कथ्यतामिति ? अत्रोच्यतेआद्य संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषैस्त्रि
स्त्रिस्त्रिश्चतुश्चैकशः ॥८॥ आधाऽग्रहणं सामर्थ्यात् सिद्धेरिति चेत् ; न; विस्पष्टार्थत्वात् ।। स्यान्मतम्-आद्यग्रहणमनर्थकम् । कुतः ? सामर्थ्यात् सिद्धेः। किं पुनः सामर्थ्यम् ? वक्ष्यमाणानन्तरसूत्रे 'पर'वचनम् , तेनाद्यमिदं विज्ञायत इति; तन्न; किं कारणम् ? विस्पष्टार्थत्वात् । आनुमानिके हि सति ३० संप्रत्येयप्रतिपत्तेौरवं स्यात् ।
प्रयत्नावशः संरम्भः । प्राणव्यपरोपणादिषु प्रमादवतः प्रयत्नावेशः संरम्भ इत्युच्यते ।
साधनसमभ्यासीकरणं समारम्भः।३। साध्यायाः क्रियायाः साधनानां समभ्यासीकरणं समाहारः समारम्भ इत्याख्यायते ।
पानाव
प्रथमाविभक्तिरूपेण ।