________________
५१४ तत्त्वार्यवार्तिके
[६८ प्रक्रमः आरम्भः ।। प्रशब्दस्यादिकर्मणि प्रवृत्तः आदौ क्रमः प्रक्रमः आरम्भ इति विज्ञायते। 'आङः आदिकर्मणो द्योतनत्वात् ।
तत्त्वकथनात सर्वे भावसाधनाः । संरम्भणं संरम्भः, समारम्भणं समारम्भः, आरम्भणमारम्भ इति ।
व्याख्यातार्थो योगशब्दः !६। योगशब्दस्यार्थो व्याख्यातः “कायावाङ्मनस्कर्म योगः" [११] इति ।
कृतवचनं स्वातन्त्र्यप्रतिपत्त्यर्थम् ।७। स्वातन्त्र्यविशिष्टेनात्मना यत्प्रादुर्भावितं तत्कृतमित्युच्यते।
कारिताभिधानं परप्रयोगापेक्षम् ।८। परस्य प्रयोगमपेक्ष्य सिद्धिमापद्यमानं कारितमिति १० कथ्यते ।
अनुमतशब्दः प्रयोजकस्य मानसपरिणामप्रदर्शनार्थः ।९। यथा मौनव्रतिकश्चक्षुष्मान् पश्यन् क्रियमाणस्य कार्यस्याप्रतिषेधात् अभ्युपगमात् अनुमन्ता, तथा कारयिता प्रयोक्तृत्वात् , तत्समर्थाचरणावहितमनःपरिणामः अनुमन्तेत्यवगम्यते ।
अभिहितलक्षणाः कषायाः ।१०। कषायाणां लक्षणमभिहितम्-कषन्त्यात्मानम् अतः १५ कषाया इति ।
विशिष्यते विशिष्टिा विशेषः ।११। विशिष्यतेऽर्थोऽर्थान्तरादिति विशेषः । अथवा, विशिष्टिर्वा विशेषः।
तस्य प्रत्येकमभिसंबन्धः ॥१२॥ स विशेषशब्दः प्रत्येकमभिसंबध्यते-संरम्भविशेषः समारम्भविशेष इत्यादि।
विशेषैरिति निर्देशानुपपत्तिः क्रियापदाभावात् ॥१३॥ यथा देवदत्तेन भुक्तं पाणिना कृतमिति क्रियापदप्रयोगे सति कर्तृकरणनिर्देश उपपद्यते न तथेह क्रियापदमस्तीति विशेषैरिति निर्देशो नोपपद्यते ?
न वा, वाक्यशेषापेक्षत्वात् ।१४। नवैष दोषः। किं कारणम् ? वाक्यशेषापेक्षत्वात् क्रियापदमत्रोपस्क्रियते-संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषैः भिद्यते' इति । अप्र२५ युक्तक्रियापेक्षा हि कारकविवक्षा दृश्यते-शङ्कुलया' खण्डः, प्रविशपिण्डीमिति यथा ।
! अधिकृतामिसंबन्धाठा १५॥ अथवा, अधिकृतो भेदशब्दः 'पूर्वस्य भेदाः' इति, अतः स इहाभिसंबध्यत इति तदपेक्षः कारकनिर्देशो वेदितव्यः। .
त्रिस्त्रिस्त्रिश्चतुरिति सुजन्तानां यथाक्रममभिसंबन्धः।१६। एते त्रयस्त्रिशब्दाश्चतुशब्दश्च संरम्भादिभिः यथाक्रममभिसंबध्यन्ते सुजन्ताः, संरम्भसमारम्भारम्भात्रयः योगास्त्रयः कृतका३० रितानुमतास्त्रयः कषायाश्चत्वार इत्येतेषां गणनाभ्यावृत्तिः सुचा द्योत्यते ।
एकश इति चीप्सार्थनिर्देशः ।१७। एकशब्दः वीप्सार्थद्योतनः “संख्यकाीप्सायाम्" [जैनेन्द्र ४॥२॥५८] इति शस् । एकमेकं त्र्यादीन् भेदान्नयेदित्यर्थः।।
संरम्भादित्रयस्यादौ वचनं वस्तुत्वात् ।१८। संरम्भादित्रयमिदं वस्तु तद्भदहेतुत्वात् इतरेषान , अतोऽस्यादौ वचनं क्रियते ।
१ अपमानतापत्रस्य । २ कृत इति । ३ शक कुलया कृतः खण्डः, तृतीया तस्कृतैरिति समासः ।