________________
६६ ] षष्ठोऽध्यायः
५१५ ___ योगादीनामानुपूर्व्यवचनं पूर्वापरविशेषणत्वात् ।१६। योगादीनामानुपूर्व्यवचनं क्रियते । कुतः ? पूर्वापरविशेषणत्वात् । तस्मात् क्रोधादिचतुष्टयकृतकारितानुमतभेदात् कायादियोगानां. संरम्भसमारम्भारम्भाः विशेष्याः प्रत्येक पत्रिंशद्विकल्पाः । तत्र संरम्भस्तावत्-क्रोधकृतकायसंरम्भः मानकृतकायसरम्भः मायाकृतकायसंरम्भः लोभकृतकायसंरम्भः, क्रोधकारितकायसंरम्भः मानकारितकायसंरम्भः मायाकारितकायसंरम्भः लोभकारितकायसंरम्भः, क्रोधानुमतकायसंरम्भः ५ मानानुमतकायसंरम्भः मायानुमतकायसंरम्भः लोभानुमतकायसंरम्भश्चेति द्वादशधा संरम्भः । क्रोधकृतकायसमारम्भः मानकृतकायसमारम्भः- मायाकृतकायसमारम्भः लोभकृतकायसमारम्भः, क्रोधकारितकायसमारम्भः मानकारितकायसमारम्भः मायाकारितकायसमारम्भः लोभकारितकायसमारम्भः, क्रोधानुमतकायसमारम्भः मानानुमतकायसमारम्भः मायानुमतकायसमारम्भः लोभानुमतकायसमारम्भश्चेत्येवं समारम्भोऽपि द्वादशधा। क्रोधकृतकायारम्भः मानकृत- १० कायारम्भः मायाकृतकायारम्भः लोभकृतकायारम्भः, क्रोधकारितकायारम्भः मानकारितकायारम्भः मायाकारितकायारम्भः लोभकारितकायारम्भः, क्रोधानुमतकायारम्भः मानानुमतकायारम्भः मायानुमतकायारम्भः लोभानुमतकायारम्भश्चेत्येवमारम्भोऽपि द्वादशधा । एते संपिण्डिताः कायविकल्पाः षट्त्रिंशत् । उक्तं च
"संरम्भो द्वादशधा क्रोधादिकृतादिकायसंयोगात् ।
आरम्भसमारम्भौ तथैव भेदास्तु षट्त्रिंशत् ॥१॥" [ . ] इति । तथा वाङ्मनसयोरपि प्रत्येकं षट्त्रिंशत् । त एते संपिण्डिताः जीवाधिकरणास्रवभेदाः अष्टोत्तरशतसंख्या भवन्ति । ।
चशब्दः क्रोधादिविशेषोपसंग्रहार्थः ।२०। चशब्दः क्रियते क्रोधादीनां विशेषाणाम् उपसंग्रहार्थम् । तेन अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसज्वलनषोडशकषायभेदात् द्वात्रिंशदुत्तर- २० चतुःशतगणनाविकल्पा वेदितव्याः। कथमेषामास्रवत्वमिति चेत् ? उच्यते
संरम्भादीनां क्रोधाद्याविष्टपुरुषकर्तृकाणां तदनुरञ्जनादधिकरणभावो नीलीपटवत् ।२१॥ यथा नील्यां प्रक्षिप्तः पटः नील्यनुरञ्जनान्नीली भवति तथा संरम्भादिक्रियाणामनन्तानुबन्ध्यादिकषायाविष्टानामनुरञ्जनाज्जीवाधिकरणत्वं सिद्धम् ।
निरूपितविकल्पादाद्यादधिकरणाद्विलक्षणस्य साम्परायिकनिमित्तविरूढदोषस्य भेदप्रति- २५ पत्त्यर्थमिदमुच्यते
निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ॥९॥
निर्वर्तनादीनां कर्मसाधनं भावो वा ।। एते निर्वर्तनादयः शब्दाः कर्मसाधना वेदितव्याःनिर्वय॑ते इति निर्वतना, निक्षिप्यत इति निक्षेपः, संयुज्यतेऽसौ संयोगः, निसृज्यतेऽसौ निसर्ग इति । अथवा भावसाधनाः-निर्वर्तनं निर्वर्तना, निक्षिप्तिर्निक्षेपः, संयुक्तिः संयोगः, निसृष्टिर्नि- ३० सर्ग इति । ___ सामानाधिकरण्येन वैयधिकरण्येन वाऽधिकरणसंबन्धः ।२। अधिकरणशब्दोऽनुवर्तते, तस्येह सामानाधिकरण्येन वैयधिकरण्येन वाभिसंबन्धो द्रष्टव्यः । यदा कर्मसाधना एते शब्दास्तदा सामानाधिकरण्येन संबन्धः कर्त्तव्यः-निर्वतेनैव अधिकरणमित्यादि । यदा तु भावसाधंनास्तदा वैयधिकरण्येन, निर्वर्तनानिक्षेपसंयोगनिसर्गलक्षणा भावाः परमधिकरणं विशिषन्तीति अध्याहिय- ३५
१ वाल्मानस-मु० । २ पुद्गलाधिकरणस्य । १२