________________
१५
तत्त्वार्थवार्तिके
[६ माणक्रियापदापेक्षया कर्मनिर्देश': । निर्वर्तना निष्पादना, निक्षेपः स्थापना, संयोगो 'मिश्रीभावः, निसर्गः प्रवर्तनम् ।
द्विचतुर्द्धित्रिभेदा इति द्वन्द्वप्रर्वोऽन्यपदार्थनिर्देशः ।३। द्वौ च चत्वारश्च द्वौ च त्रयश्च द्विचतुर्द्वित्रयः, ते भेदाः एषां ते द्विचतुर्द्वि त्रिभेदाः इति द्वन्द्वगर्भाऽन्यपदार्थ निर्देशः प्रत्येतव्यः । ५ परवचनमनर्थकं पूर्वत्राद्यवचनात् ।४। परवचनमनर्थकम् । कुतः ? पूर्वत्राद्यवचनान् ।
अस्मिन् सति पर्वत्राद्यवचनमनर्थकम् अर्थापत्तिसिद्धेः ।५। अस्मिन परवचने सति पूर्वस्मिन सूत्रे आद्यवचनमनर्थकम् । कुतः ? अर्थापत्तिसिद्धः ।
अर्थापत्तिरनकान्तिकीति चेत् ; न: प्रयासमात्रत्वात् ।६। स्यादेतत्-अर्थापत्तिरनैकान्तिकी दृष्टा, यथा हि असति मेघे वृष्टिर्नास्तीत्युक्ते अर्थादापन्नं सति मेघे वृष्टिरस्तीति, सत्यपि मेघे १० कदाचिद्वष्टिास्तीत्यर्थापत्तिरनैकान्तिकीति; तन्न; किं कारणम् ? प्रयासमात्रत्वात् । प्रयासमात्रमेतत्
अर्थापत्तिरनैकान्तिकीति । 'अहिंसा धर्मः' इत्युक्ते अर्थापत्त्या 'हिंसा अधर्मः' इति न न सिद्ध्यति ? सिद्ध्यत्येव । असति मेघे न वृष्टिरित्युक्ते सति मेघे वृष्टिरित्यत्रापि सत्येवं मेघे इति नास्ति दोषः ।
असंवन्धार्थत्वादिति चेत् ; न; निवाभावात् ।। म्यादेतत्-असति परशब्दे असंबन्धार्थमिदं स्यात् , ततः संबन्धार्थ परशब्दोपादानमिति; तन्नः किं कारणम् ? निवाभावात् । किमन्यन्निवय॑मस्ति येनेदमसंबन्धः स्यात् ? ननु संरम्भादिकं जीवाधिकरणं निवर्त्यमस्ति; न; तस्य संबन्धत्वादाद्यं जीवाधिकरणं संरम्भादिविशिष्टमिति । ततः परिशेपात् अजीवाधिकरणभेवेदमिति व्यर्थ परवचनम् ।
एतेन प्रकृष्टवाचिन्वं प्रत्युक्तम् ।८। केन ? निवाभावात् इत्यनेन । न हि निकृष्टं जीवाधिकरणं यत्प्रकृष्टनाऽजीवाधिकरणेन निवर्येत इति ।
इटवाचित्वमिति चेत् ;न; अत एव ।।। स्यादेतत्-इष्टवाची परशब्द इति, यथा परं धाम गत इति इष्टं धाम गत इति; तन्नः किं कारणम ? अत एव । कुत एव ? निवाभावात् इति, एवं किमनिष्टं यस्मिन् सति निव] इष्टवाची परशब्दोऽर्थवान् स्यात् ?
"न वा अन्यार्थत्वात् ।१०। न वाऽनर्थकः । कुतः ? अन्यार्थत्वात् । परशब्दोऽयमन्यार्थः, संरम्भादिभ्योऽन्यत् निर्वर्तनादीत्यर्थः । इतरथाहि निर्वर्तनादीनामप्यात्मपरिणामसद्भावाज्जीवा२५ धिकरणविकल्प एवेति विज्ञायेत । अथवा, उक्तमेतत्-विस्पष्टार्थत्वादिति ।
इष्टार्थसंप्रत्ययाद्वा ।११। अथवा "इष्टार्थोऽनेन परशब्देन” संप्रत्याय्यते । कः पुनरिष्टार्थ इति चेत् ? उच्यते
निर्वर्तनाधिकरणं द्विविधं मूलोत्तरभेदात् ॥१२॥ अजीवाधिकरणं निर्वर्तनालक्षणं द्वधा व्यवतिष्ठते । कुतः ? मूलोत्तरभेदात् । मूलगुणनिर्वर्तनाधिकरणम् उत्तरगुणनिर्वर्तनाधिकरणं चेति । ३० तत्र मूलं पञ्चविधानि शरीराणि वाङ्मनःप्राणापानाश्च । "उत्तरं काष्ठपुस्तचित्रकर्मादि ।
निक्षेपश्चतुर्धा अप्रत्यवेक्षादुष्पमार्जनसहसाऽनाभोगभेदात् ।१३। निक्षेपश्चतुर्धा भिद्यते । कुतः ? अप्रत्यवेक्षा दुष्पमार्जनसहसाऽनाभोगभेदात-अप्रत्यवेक्षितनिक्षेपाधिकरणं टुष्प्रमृष्टनिक्षेपाधिकरणं सहसानिक्षेपाधिकरणम् अनाभोगनिक्षेपाधिकरणं चेति ।।
१ परमिति । २ मिश्रभावः मु०, द०, ब०1३-र्थः प्र-मु०, द०, ब० । ४ सामर्थ्य । ५ सृष्टिकाले सत्येव मेघे वृष्टिर्भवति । ६ सूत्रम् । ७ सम्बन्धत्वं कथमित्यत आह । ८ तत् । । सूत्रकारस्योभावपि जीवपुद्गलौ प्रकृष्टाविति भावः । १० इत्येव कि-मु०, ब०११ अत्राह आचार्यः । १२-र्थः तेन मु० । १३ व्यर्थेनापि । १४ अनर्थकानि वचनानि किञ्चिदिष्टं सूचयनत्याचार्यस्येति न्यायात् । १५ पृथग्विक्रियारूपम् । १६ आभोगः परिपूर्णता, तदभावः असम्पूर्णन्यासाधिकरणमित्यर्थः ।