________________
६४]
पष्ठोऽध्यायः पश्चादीनां संख्याशब्दानां संख्यया वृत्तिः।२। पञ्चादीनां संख्याशब्दानां संख्याशब्देन सह वृत्तिर्द्रष्टव्या पञ्चाधिका विंशतिः पञ्चविंशतिः । पञ्च च चत्वारश्च पञ्च च पञ्चविंशतिश्च पञ्चचतुःपञ्चपञ्चविंशतिः, सा संख्या येषां ते पश्चचतुःपञ्चपञ्चविंशतिसंख्याः।
पूर्वशब्दो व्यवस्थावचनः ।। अयं पूर्वशब्दो व्यवस्थावचन:-अतीतसूत्रे यः प्राङ् निर्दिष्टस्तस्येति।
भिद्यन्ते इति भेदाः।४। परस्परतो भिद्यन्त विशिष्यन्ते इति भेदाः प्रकारा इत्यर्थः।
यथासंख्यमभिसंबन्धो व्याख्यानतः ।। यथासंख्यमभिसंबन्धोऽत्र द्रष्टव्यः । कुतः ? व्याख्यानतः । पञ्चेन्द्रियाणि, चत्वारः कषायाः, पश्चाऽव्रतानि, पश्चविंशतिः क्रिया इति ।
इन्द्रियादीनामात्मनोऽनन्यत्वान्यत्वं प्रत्यनेकान्तः ।६। इन्द्रियादीनामात्मनः अनन्यत्वान्यत्वं प्रत्यनेकान्तो वेदितव्यः। तद्यथा, अनादिपारिणामिकचैतन्यद्रव्यार्थादेशादिन्द्रियादीनां १० भेदाभावादनन्यत्वम् । कर्मोदयक्षयोपशमनिमित्तपर्यायार्थादेशाद्भदोपपत्तेः स्यादन्यत्वम् । इन्द्रियादिनिवृत्तौ द्रव्यावस्थानाच्च स्यादन्यत्वम् । तत एव पर्यायभेदात् पश्चादिसंख्यानिर्देश उपपन्नो भवति । तत्र पञ्चेन्द्रियाणि स्पर्शा(र्शना)दीन्युक्तानि । क्रोधादयः कषाया अनन्तानुबन्ध्यादिविकल्पा वक्ष्यन्ते। हिंसादीन्यव्रतानि "प्रमत्सयोगात्प्राणव्यपरोपणं हिंसा" [त. सू० ७.१३] इत्येवमादिलक्षणानि वक्ष्यन्ते । पञ्चविंशतिः क्रिया उच्यन्ते
१५ सम्यक्त्वमिथ्यात्वप्रयोगसमादानेर्यापथक्रियाः पञ्च ।। तत्र चैत्यगुरुप्रवचनपूजादिलक्षणा सम्यक्त्ववर्धिनी क्रिया सम्यक्त्वक्रिया। अन्यदेवतास्तवनादिरूपा मिथ्यात्वहेतुका प्रवृत्तिर्मिथ्यात्वक्रिया। गमनागमनप्रवर्तनं कायादिभिः प्रयोगक्रिया, वीर्यान्तरायज्ञानावरणक्षयोपशमे सति अङ्गोपाङ्गोपष्टम्भादात्मनः कायवाङमनोयोगनिर्वृत्तिसमर्थपगलग्रहणं वा। सतः अविरतिं प्रत्याभिमुखं(ख्यं)समादानक्रिया । ईर्यापथकर्मनिमित्ता ईर्यापथक्रिया। एताः २० पश्च क्रियाः।
.. प्रदोषकायाधिकरणपरितापप्राणातिपातक्रियाः पञ्च ।८। क्रोधावेशात् प्रादोषिकी क्रिया । सा क्रोधस्वभाविकेति क्रोधग्रहणेनैव गृहीतेः पौनरुक्त्यमिति चेत् ; न; क्रोधनिमित्तत्वात् । क्रोधो हि प्रदोषहेतुः, अतः कार्यकारणभेदादपौनरुक्त्यम् । नैमित्तिक(काड)निमित्त भेदाच्च-इष्टदारवित्तहरणादेनिमित्ताद्विनापि पिशुनः स्वभावत एव ऋध्यति, तथा दृष्टिविषादयश्च । उक्तं च
"अणिमित्तमेव कोई कम्सस्स वसंगदो कसायाणं ।
उदयं उवेदि जीवो चंद इव महग्गह पब्वे ॥" [ ] तथा
"मृगलोहितताम्रलोलजिह्व हरिशादलवृकैनिसर्गहिंस्रः ।
भुजगैश्च सवैरजातरोषैः समरूपाण्यसता विचेष्टितानि ॥ इत्यनिमित्तः क्रोधः, निमित्तवान् प्रदोषः । प्रदुष्टस्य सतोऽभ्युद्यमः कायिकी क्रिया । हिंसोपकरणादानादाधिकरणिकी क्रिया। दुःखोत्पत्तितन्त्रत्वात् पारितापिकी क्रिया। आयुरिन्द्रियबलप्राणानां वियोगकरणात् प्राणातिपातिकी । एताः पञ्च क्रियाः ।
दर्शनस्पर्शनप्रत्ययसमन्तानुपाताऽनाभोगक्रियाः पञ्च ।। रागार्दीकृतत्वात् प्रमादिनः रमणीयरूपालोकनाभिप्रायो दर्शनक्रिया। प्रमादवशात् स्पृष्टव्यसळचेतनानुवन्धः स्पशेनक्रिया। "
२५
मसः। बहुव्रीहिसमास इत्यर्थः । २ निमित्तनैमित्तिकभे-मु० । ३ चन्द्रे । ४-तीव्रलो-मु० । ५ दुर्जनोनाम् । ६-की क्रिया ए-मु०, ब० ।