________________
५
१०
१५
२५
तत्त्वार्थवार्तिके
[ ६४
"शुभपगदीण विसोधिए तिब्वमसुहाण संकिलेसेण ।
विपरीदे दु जहण्णो अणुभागो सन्वपगदीणं ॥ [ पंचसं० ४।४४५ ] इति । आह् - किमयमास्रवः सर्वसंसारिसमानफलारम्भहेतुराहोस्वित् कश्चिदस्ति विशेष इति ? अत्रोच्यते
३०
५०८
सकषायाsकषाययोः साम्परायिकेर्यापथयोः ॥४॥
अस्त्रवस्योभयस्वामिकत्वाद् द्वयीप्रसिद्धिः | १ | उभौ आस्रवस्य स्वामि नौ- सकपायोऽकपायश्चेति । तस्यास्रवस्यानन्त्येऽपि स्वामिनो द्वैविध्यकल्पनया द्वयी प्रसिद्धिरवसेया । कोऽत्र कषायः ? कपत्यात्मानमिति कपायः |२| क्रोधादिपरिणामः कंपति हिनस्त्यात्मानं कुगतिप्रापणादिति कषायः ।
कपाraat श्लेतुत्वात् |३| अथवा, यथा कपायो नैयग्रोधादिः श्लेपहेतुस्तथा क्रोधादिप्यात्मनः कर्मश्लेपहेतुत्वात् कपाय इव कपाय इत्युच्यते । सह कपायेण वर्तते इति सकपायः । न विद्यते कपयोऽस्येत्यकपायः । सकपायश्चाकपायश्च सकपायाकपायौ तयोः सकपायाकपाययोः । समन्तात्पराभव आत्मनः सम्परायः || कर्मभिः समन्तादात्मनः पराभवोऽभिभवः सम्पराय इत्युच्यते । /
तत्प्रयोजनं साम्परायिकम् ॥ ५॥ तत्प्रयोजनं कर्म साम्परायिकमित्युच्यते ऐन्द्रमहिकमिति ।
ईरणमीय योगगतिः | ६ | ईरेर्गत्यर्थाद्भावे ण्यः ईरणमीर्या योगगतिरिति यावत ।
तद्द्वार कमीर्यापथम् ॥ ७॥ सा ईर्या द्वारं पन्था यस्य तदीयपथं कर्म । साम्परायिकं च ईर्यापथं च साम्परायिकेर्यापथे तयोः साम्परायिकेर्यापथयोः यथासंख्यमभिसंवन्धो भवति । २० सकपायस्यात्मनः साम्परायिकस्य कर्मण आम्रवो भवति, अकपायस्य ईपिथस्येति । तद्यथासम्परायः कपाय इत्यर्थः । मिथ्यादृयादीनां सूक्ष्मसाम्परायान्तानां पायोदयमन्त्रिपरिगामानां योगवशादानीतं कर्म भावेनोपश्लिष्यमाणं आईचर्माश्रितरेणुवन स्थितिमापद्यमानं साम्पराकिमित्युच्यते । उपशान्तक्षीणकपाययोः योगिनश्च योगवशादुपात्तं कर्म कपायाभावादु बन्धाभावे शुष्ककुड पनितलोप्रवद् अनन्तरसमये निवर्तमानमीयपिथमित्युच्यते ।
यथा
"अजायत" इत्युभयत्र पूर्वनिपातप्रसङ्ग इति चेत् : नः अतिबहुवक्तव्यतया तयोरभ्यर्हितत्यात् |७| स्यादेतत्-अकषायशब्दस्येर्यापथशब्दस्य च "अजाद्यत्" [जैनेन्द्र० १।३।६६ ] इति पूर्वनिपातः प्राप्नोति; तन्नः किं कारणम् ? अतिबहुवक्तव्यतया तयोरभ्यर्हितत्वात् सकषायशब्दस्य साम्परायिकशब्दस्य चाभ्यर्हितत्वमिति पूर्वनिपातो भवति ।
यदि साम्परायिकास्रवो बहुवक्तव्यः, तस्य के भेदाः इति ? अत्रोच्यते
इन्द्रियकषायाऽवतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः ॥ ५ ॥
इन्द्रियादय उक्तलक्षणा द्वन्द्वविषयाः | १| इन्द्रियादीनामुक्तलक्षणानां द्वन्द्वो वेदितव्यः । इन्द्रियाणि च कपायाश्च अत्रतानि च क्रियाश्च इन्द्रियकपायात्रतक्रिया इति । रा चायं द्वन्द्व इतरेतरयोगलक्षण इति बहुवचनं भवति ।
१- द्वाऽऽश्ले - श्र० । २ इन्द्रमहः प्रयोजनम् । ३ कषायोदयेपि तच्छीलप-मु०, द० ।