________________
६३] षष्ठोऽध्यायः
५०७ ततोऽनन्तविकल्पादन्यः शुभः ।। तस्मादनन्तविकल्पादशुभयोगादन्यः शुभयोग इत्युच्यते । तद्यथा अहिंसाऽस्तेयब्रह्मचर्यादिः शुभः काययोगः। सत्यहितमितभाषणादिः शुभो. वाग्योगः । अहंदादिभक्तितपोरुचिश्रुतविनयादिः शुभो मनोयोगः । आह-असंख्येयलोकत्वादध्यवसायावस्थानानां कथमनन्तविकल्पत्वमिति ? उच्यते-अनन्तानन्तपुद्रलप्रदेशप्रचितज्ञानावरणवीर्यान्तरायदेशसर्वघातिद्विविधस्पर्धकक्षयोपशमादेशात् योगत्रयस्यानन्त्यम्। अनन्तानन्तप्रदेशकर्मादानकारणत्वाद्वा अनन्तः, अनन्तानन्तनानाजीवविषयभेदाद्वाऽनन्तः । कथं योगस्य शुभाशुभत्वम् ?
शुभाशभपरिणामनिर्वत्तत्वाच्छभाशभव्यपदेशः ।। शुभपरिणामनिर्वत्तो योगः शुभः अशुभपरिणामनिवृत्तश्चाशुभ इति कथ्यते, न शुभाशुभकर्मकारणत्वेन । यद्येवमुच्येत; शुभयोग एव न स्यात् , शुभयोगस्यापि ज्ञानावरणादिबन्धहेतुत्वाभ्युपगमात् ।
.. पुनात्यात्मानं पूयतेऽनेनेति वा पुण्यम् ।४। कर्मणः स्वातन्त्र्यविवक्षायां पुनात्यात्मानं प्रीणयतो ति पुण्यम् । पारतन्त्र्यविवक्षायां करणत्वोपपत्तेः पूयतेऽनेनेति वा पुण्यम् , तत्सद्वद्याद्युत्तरत्र वक्ष्यते।
तत्प्रतिद्वन्द्विरूपं पापम् ।। तस्य पुण्यस्य प्रतिद्वन्द्विरूपं पापमिति विज्ञायते । पाति रक्षत्यात्मानम् अस्माच्छुभपरिणामादिति पापाभिधानम् । तदसवद्याद्युत्तरत्र वक्ष्यते।।
१५ उभयमपि पारतन्त्र्यहेतुत्वादविशिष्टमिति चेत् । न इष्टानिष्टनिमित्तभेदात्तद्भेदसिद्धेः।६। स्यान्मतम्-यथा निगलस्य कनकमयस्यायसस्य चाऽस्वतन्त्रीकरणं फलं तुल्यमित्यविशेषः, तथा पुण्यं पापं चात्मनः पारतन्त्र्यनिमित्तमविशिष्टमिति नात्र संकल्पभेदो युक्त इति; तन्नः किं कारणम? इष्टानिष्टनिमित्तभेदात्तद्भेदसिद्धः। यदिष्टगतिजातिशरीरेन्द्रियविषयादिनिर्वतकं तत्पुण्यम् । अनिष्टगतिजातिशरीरेन्द्रियविपयादिनिर्वर्तकं यत्तत्पापमित्यनयोरयं भेदः। तत्र शुभो योगः पुण्यस्यास्रवः, २० अशुभः पापस्य । __ शुभपरिणामस्य घातिकमे निमित्तत्वात्तदनिर्देश इति चेत्न; इतरपुण्यपापापेक्षत्वात् ।। स्यादेतत्-शुभः पुण्यस्येत्यनिर्देशः, अंगमको निर्देशः अनिर्देशः । कुतः ? घातिकर्मबन्धस्य शुभपरिणामहेतुत्वादिति; तन्नः किं कारणम् ? इतरपुण्यपापापेक्षत्वात् , अपातिकर्मसु पुण्यं पापं चापेक्ष्येदमुच्यते । कुतः ? घातिकर्मबन्धस्य स्वविषये निमित्तत्वात् । अथवा, नैवमवंधारणं क्रियते-शुभः २५ पुण्यस्यैवेति । कथं तहिं ? शुभ एव पुण्यस्येति । तेन शुभः पापस्यापि हेतुरित्य विरोधः। यद्येवं शुभः पापस्यापि हेतुः भवति; अशुभः पुण्यस्यापि भवतीत्यभ्युपगमः कर्तव्यः, सर्वोत्कृष्टस्थितीनाम् उत्कृष्ट संक्लेशहेतुकत्वात् । उक्तं च
“सम्वष्ट्रिदीणमुक्कस्सगो दु उक्कस्ससंकिलेसेण ।
विवरीदेण जघण्णो आउगतिगवजसेसाणं ॥" [पंचसं० ४।४ ] इति, ३० ततः सूत्रद्वयमनर्थकमिति; नानर्थकम् ; अनुभागबन्धं प्रत्येतदुक्तम् । अनुभागबन्धो हि प्रधानभूतः तन्निमित्तत्वात् सुखदुःखविपाकस्य । तत्रोत्कृष्टविशुद्धपरिणामनिमित्तः सर्वशुभप्रकृतीनामुस्कृष्टानुभागवन्धः। उत्कृष्टसंक्लशपरिणामनिमित्तः सर्वाशुभप्रकृतीनामुत्कृष्टानुभागबन्धः । उत्कृष्टः शुभपरिणामः अशुभजघन्यानुभागबन्धहेतुत्वेऽपि भूयसः शुभस्य हेतुरिति शुभः पुण्यस्येत्युच्यते, यथा अल्पापकारहेतुरपि बहूपकारसद्भावादुपकार इत्युच्यते । एवमशुभः पापस्येत्यपि । ३५ उक्तं च
१-नं यस्मा-मु०, ब० । २-त्तत्सि-मु०, ता०, श्र०, द०, ब०, ज०, मू०। ३अघाति । ४ अज्ञापको।