________________
तत्वार्थवार्तिके
[ ६२
अत्राह - अभ्युपेम: आहितत्रेविध्या क्रिया योग इति । प्रकृत इदानीं निर्दिश्यताम किंलक्षण आस्रव इति ? अत्रोच्यते-योऽयं योगशब्दाभिधेयः संसारिणः पुरुषस्य प्रयोगम्त्रिविध:
स आस्रवः ॥ २ ॥
'कायवाङ्मनस्कर्मास्रवः' इत्यस्तु लघुत्वादिति चेत्; नः योगीप्रख्यानान् |१| म्यान्म५ तम्– कायवाङ्मनस्कर्मास्रव इत्यस्तु सूत्रम् कुतः ? लघुत्वादिति; तन्न; किं कारणम ? योगीप्रख्यानात् । योगशब्दो हि आगमे प्रसिद्धः, तस्यार्थोऽप्रख्यातः स्यात् ।
२०
५०६
कायवाङ्मनस्कर्म योग आस्रव इति चेत् ; नः सर्वयोगास्रवप्रसङ्गात् |२| अथ मतमेतत'कायवाङ्मनस्कर्म योग आस्रवः' इत्येकयोगः कर्तव्यस्तथा सति तच्छब्दस्यावचनान्, योगविभागस्य चाऽकरणात्, निर्देशश्च लघुर्भवति, योगशब्दार्थश्व प्रख्यातो भवति इति; तन्न; किं कारणम् ? १० सर्वयोगास्त्रवप्रसङ्गात् । केवलिसमुद्भातकाले हि दण्डकपाटप्रतरलोकपूर्ण योगम्याप्यास्त्रवत्वं प्रसज्येत । अस्त्वास्रवत्वं को दोपः ? सूक्ष्मयोगत्वं तत्रेप्यते, तन्निमित्तश्च बन्धोऽल्पः तद्विपरीतता प्राप्नोति । अपि च, वर्गणालम्बननिमित्तो योग आस्रव इष्यते, न च दण्डादियोगस्तदालम्बनहेतुकः, तस्मादस्यास्रवत्वं नेप्यते । यद्येवं दण्डादिव्यापारकालेऽनास्रवत्वादवन्धकत्वं प्राप्नोति, इष्यते च बन्धः ? नैप दोपः न दण्डादियोगनिमित्तो बन्धः । किं तर्हि ? कायवर्गणानिमित्तः आत्मप्रदेशपरिस्पन्दो१५ ऽस्ति तन्निमित्तस्तत्र बन्धः ।
२५
एकयोगेऽपि तत्प्रयोजनाकरणात्तदप्रसङ्ग इति चेत्; न; योगविभागकरण सामर्थ्यात्तत्प्रतीतेः | ३| यथा केवलिनः सत्स्वपीन्द्रियेषु तद्व्यापारात् इन्द्रियजकर्मबन्धाभावः तथा दण्डादियोगे सत्यपि तत्पूर्व कबन्धाभावात् आस्रवत्वमस्य योगविभागवदेकयोगेऽपि व्यावर्तते इति; तन्न; किं कारणम् ? योगविभागकरणसामर्थ्यात्तत्प्रतीतेः । सति हि योगविभागे य उद्दिष्टो योगः स आस्रवो भवति नान्य इत्ययमर्थोऽवगन्तुं शक्यते तेनान्योऽपि योगोऽस्तीति सूच्यते । एकयोगे पुनः सति तस्यार्थस्याप्रतोतेः सर्वस्य योगस्यास्रवत्वं प्रसज्यत एव । अथास्रवाभिधानं कुतो भवति ?
तत्प्रणालिकया कर्मास्त्रवणादास्रवाभिधानं सलिलवाहिद्वारवत् |४| यथा सरःसलिलवाहि द्वारं तदास्रवणकारणत्वात् आस्रव इत्याख्यायते, तथा योगप्रणालिकया आत्मनः कर्म आस्रवतीति योगः आस्रव इति व्यपदेशमर्हति ।
पायक्लिन्नस्य तदुपश्लेप आर्द्रवस्त्ररेणुवत् । ५ यथा आर्द्रवासः समन्ताद्वातानीतं रेणुमुपादत्ते, तथा कँपायतोयाई आत्मा योगानीतं कर्म सर्वप्रदेशैर्गृह्णाति । यथा वा, निष्टप्ताय:पिण्डोऽम्भसि प्रक्षिप्तोऽम्भः समन्तादात्मसात्करोति, तथा कषायोष्णो जीवो योगानीतं कर्म समन्तादादत्ते ।
आह- कर्म द्विविधं पुण्यं पापं चेति, तस्य किमविशेषेण योगः आस्रवणहेतुरा होस्विदस्ति ३० कश्चित्प्रतिविशेष इति ? अत्रोच्यते
शुभः पुण्यस्याऽशुभः पापस्य || ३ ||
प्राणातिपातानृतभाषणवध चिन्तनादिर शुभः |१| प्राणातिपातादत्तादानमैथुनप्रयोगादिरशुभः काययोगः । अनृतभाषणपरुषासत्यवचनादिर शुभो वाग्योगः । वधचिन्तनेर्ष्यासूयादिरशुभो मनोयोगः ।
१- गाप्रत्याख्या - मु०, द०, ब० । २ अकथितः । ३ - श्वाप्रत्याख्यातो मु० । मु०, द० । ५ सकषायो जीवः सु० । कषायोम्भो जीवः द० ।
४ कषाय ताई