________________
६१ ]
षष्ठोऽध्यायः कर्मत्यपि भवति । साध्यसाधनभावानभिधित्सायां स्वरूपावस्थिततत्त्वकथनात् कृतिः कर्मेत्यपि भवति । एवं शेपकारकोपपत्तिश्च योज्या।।
योगशब्दस्यापि तथैव ।। तेनैव प्रकारेण योगशब्दस्यापि कादिसाधनसंभवो योज्यः ।
वैविध्यानुपपत्तिरात्मपरिणामाघिशेषादिति चेत् ; न पर्यायविवक्षाव्यापाराद्र.पादिवत् ।। म्यान्मतम-योगस्य वैविध्यं नोपपद्यते । कुतः ? आत्मपरिणाम विशेषात् । आत्मा हि निरवय- ५ वद्रव्यम , तत्परिणामो योगः, सोऽविशिष्ट इति; तन्न; किं कारणम् ? पर्यायविवक्षाव्यापाराद्र.पादिवत् । यथा घटस्यैकत्वमजहतश्चक्षुरादिकरणसंबन्धवशाद्रूपादिपरिणामभेदा, तथा आत्मनः एकत्वेऽपि पर्यायभेदात योगस्य भेदो ज्ञयः ।
ऋतुरादिग्रहणनिमित्तत्वाद् रूपाध्यवसायस्येति चेत् ; न; आत्माभेदेऽपि कायादीनां पूर्वकाकापादितसामोपलम्भात् ।। स्यादेतत्-युज्यते घटस्य रूपादिभेदाध्यवसायः। १० कुतः ? चनुरादिग्रहणनिमित्तत्वात् । 'ग्रहणभेदाद्धि लोके ग्राह्यभेदो दृष्टः, न तथा आत्मन इति; तन्नः किं कारण ? आत्माऽभेदेऽपि कायादीनां पूर्वकृतकर्मापादितसामोपलम्भात् । तद्यथा पुदलविपाकिनः शरीरनामकर्मण उदयापादिते कायवाङ्मनोवर्गणान्यतमालम्बने सति वीर्यान्तगयमत्यक्षराधा वरणक्षयोपशमापादिताभ्यन्तरवाग्लब्धिसान्निध्ये वाक्परिणामाभिमुख्यरयात्मनः प्रदेशपरिस्पन्दो वाग्योगः। अभ्यन्तरवीर्यान्तरायनोइन्द्रियावरणक्षयोपशमात्मकमनोलब्धि- १५ सन्निधाने पूर्वोक्तबाह्यनिमित्तालम्बने च सति मनःपरिणामाभिमुख्यस्यात्मनः प्रदेशपरिस्पन्दो मनोयोगः । वीर्यान्तरायक्षयोपशमसद्भावे औदारिकादिसप्तविधकायवर्गणान्यतमालम्बनापेक्षास्मप्रदेशपरिस्पन्दः काययोगः । यदि क्षयोपशमलब्धिरभ्यन्तरहेतुः क्षये कथम् ? क्षयेऽपि हि सयोगकेवलिनः त्रिविधो योग इष्यते । अथ क्षयनिमित्तोऽपि योगः कलायते, अयोगकेवलिनां सिद्धानां च योगः प्राप्नोतिः नेप दोपः; क्रियापरिणामिन आत्मनस्त्रिविधवर्गणालम्बनापेक्षा प्रदेश- २० परिस्पन्दः सयोगकेवलिनो योगविधिविधीयते, तदालम्बनाभावात् उत्तरेषां योगविधिर्नास्ति ।
___ अनेकान्ताच्च लावकादिवत् ॥११॥ यथा देवदत्तस्य जातिकुलरूपसंज्ञालक्षणसम्बन्धाद्यविशेपादेकत्वमजहतः वाह्योपकरणसंबन्धोपनीतभेदलावकपावकादिपर्यायानास्कन्दतः स्यादेकत्वं स्यादनेकत्वमित्यनेकान्तः तथा प्रतिनियतक्षायोपशमिकशरीरादिपर्यायार्थादेशात् स्यात्रैविध्यं योगस्य, अनादिपारिणामिकात्मद्रव्यार्थादेशात् स्यादैकविध्यमित्यनेकान्तः । ततो नायमुपालम्भः। २५
ध्यान योग इति चेत् ; न; तस्य वक्ष्यमाणत्वात् ।१२। स्यादेतत्-ध्यानं योगशब्दार्थः न कायवाङ्मनस्कर्मेति; तन्न; किं कारणम् ? तस्य वक्ष्यमाणत्वात् । 'युजेः समाधिवचनस्य योगः समाधिः ध्यानमित्यनर्थान्तरम् , स तु वक्ष्यते । इहास्रवप्रतिपादनार्थत्वात् त्रिविधक्रिया योग इत्युच्यते ।
समुदाये योगव्यपदेशप्रसङ्ग इति चेत् ; न: प्रत्येकं वाक्यपरिसमाप्तेः ।१३। स्यान्मतम्- ३८ यथा गर्गाः शतं दण्ड्यन्तामिति अर्थिनश्च राजानो हिरण्येन भवन्ति न च प्रत्येक दण्डयन्ति । कुतः? समुदाये वाक्यपरिसमाप्तः, तथा कायवाङ्मनस्कर्मसमुदाये योगव्यपदेशः प्रसक्त इति चेत् ; न; किं कारणम् ? प्रत्येकं वाक्यपरिसमाप्तः। यथा देवदत्तजिनदत्तगुरुदत्ता भोज्यन्तामिति भुजिः प्रत्येक परिसमाप्यते, तथा योगव्यपदेशोऽपि प्रत्येकं त्रिषु कर्मसु वेदितव्यः ।
१ यदा दूरे वृक्षसामान्यावलोकनात् समीपं गत्वा आम्रोऽयं पनसोऽयमित्यादि ग्राह्यभेदो दृष्टः । २ बाह्य । ३ पदवाक्यादि । ४ योगो विधी-ता०, श्र०, मू०, ज०। योगोविधिर्विद्यते-मु०। ५ लुनाति पुनातीति । ६ युजि समाधी इति धातोः। ७ एकैकगर्गम् ।