________________
षष्ठोऽध्यायः आह-अजीवपदार्थो व्याख्यातः । इदानीं तदनन्तरोदेशभाग आम्रवपदार्थो व्याख्येय इति ततस्तत्प्रसिद्धयर्थमिदमुच्यते
कायवाङ मनःकर्म योगः ॥ १ ॥ कायादीनामितरतेरयोगलक्षणो द्वन्द्वः ।।। कायश्च वाक् च मनश्च कायवाङ्मनासि इतीतरेतरयोगे द्वन्द्वः ।।
वाङ्मनस[मितिप्रसङ्ग इति चेत् ; नः बहुषु तदभावात् ।२। स्यादेतत्-वाङानसमिति प्राप्नोतीति; तन्न; किं कारणम् ? बहषु तदभावात । द्वयोः हि सविधिः, तेन बहप न भवति
कायवाङानसां कर्म कायवाङ्मनस्कर्मेति । "कृकमिकं सः" [जैनेन्द्र० ५।४।३४] इति सत्वम् । काया१० दयः शब्दा व्याख्यातार्थाः।
कर्मशब्दस्यानेकार्थत्वे क्रियावाचिनो ग्रहणम् , इहान्यस्यासंभवात् ।। कर्मशब्दोऽनेकार्थः । 'कचित्कर्तुरीप्सिततमे वर्तते-यथा घटं करोतीति । कचित्पुण्यापुण्यवचन:-यथा "कुशलाsकुशलं कर्म" [आप्तमी० श्लो. ८] इति । कचिच्च क्रियावचन:-यथा "उत्क्षेपणमवक्षेपणमाकुञ्चनं
प्रसारणं गमनमिति कर्माणि" [वैशे० १.१७] इति । तत्रेह कियावाचिनो ग्रहणम । कुतः? अन्यस्या१५ संभवात् । तत्कथमिति चेत् ? उच्यते
न कर्तुरीप्सिततमम् , अन्यतरस्योभयस्य च विवक्षाऽसंभवात् ।। कर्तुः क्रियया आप्तुमिष्टतमं कर्म । तत्त्रिविधं निर्वत्य विकार्य प्राप्यं चेति । तत् त्रितयमपि कर्तुरन्यत् । तत्र यदि कायादीनां कर्तृत्वम् । कर्मान्यद्वाच्यम् । न चातोऽन्यत् सूत्रे गृहीतमस्ति । अथ कर्मत्वं कायादीनाम् ।
कर्ताऽन्यो वाच्यः । न चासौ संगृहीतोऽस्ति । अथ युगपत्कर्तृत्वं कर्मत्वळचेष्टम् । तच्चासंभवात् २० असत् । तस्मात् कर्तुरीप्सिततमं नेह परिगृहीतम् ।।
नापि पुण्यापुण्यलक्षणम् ; उत्तरसूत्रस्य सामर्थ्यात् ।। नापीह पुण्यापुण्यलक्षणं कम गृह्यते । कुतः ? उत्तरसूत्रसामर्थ्यात् । यदि पुण्यापुण्यलक्षणमिह गृह्येत, “स आसवः शुभः पुण्यस्व" [ त० सू० ६।२,३ ] इत्युत्तरसूत्रारम्भोऽनर्थकः स्यात् ।
कर्तुरीप्सिततम वा आत्मनः कर्तृत्वात् ।६। अथवा सामर्थ्यसन्निहित इहात्मा कर्ता, तस्य २५ कर्तुरीप्सिततमत्वात् पारिभाषिकं कर्म गृह्यते ।
कादिसाधनेष्विच्छातो विशेषाध्यवसायः १७। कर्मशब्दस्य कादिपु साधनेषु संभवत्सु इच्छातो विशेषोऽध्यवसेयः । वीर्यान्तरायज्ञानावरणक्षयक्षयोपशमापेक्षेण आत्मनात्मपरिणामः पुद्गलेन च स्वपरिणामः व्यत्ययेन च निश्चयव्यवहारनयापेक्षया क्रियत इति कर्म । करणप्रशंसा
विवक्षायां कर्तृधर्माध्यारोपे सति स परिणामः कुशलमकुशलं वा द्रव्यभावरूपं करोतीति कर्म । ३० आत्मनः प्राधान्यविवक्षायां कर्तृत्वे सति परिणामस्य करणत्वोपपत्तेः बहुलापेक्षया क्रियतेऽनेन
आविर्भूतावयवभेदः । २ स इति स्वमते समाससंज्ञा, समासविधिरित्यर्थः । ३ व्याकरणशास्त्रेस० । “कर्तुरीप्सिततमं कर्म"-पाणिनि० १।४ । ४ पात. महा० । ५ जीवः। ६-पोऽध्यबसेयः मु०। ७ प्रधानकर्म।