________________
२४२ ] पञ्चमोऽध्यायः
५०३ तद्भावः परिणामः ॥ ४२ ॥ अथवा, गुणा द्रव्यादर्थान्तरभूता इति केषाञ्चिद्दर्शनम् , तत्किं भवतः सम्मतम् ? नेत्याहयद्यपि कथञ्चिद् व्यपदेशादिभेदहत्वपेक्षया द्रव्यादन्ये तथापि तदव्यतिरेकात्तत्परिणामाच्चानन्ये । यद्येवं स उच्यता का परिणाम इति ? तनिश्चयार्थमिदमुच्यते-तद्भावः परिणामः ।।
धर्मादीनां येनात्मना भवनं सः तद्भावः परिणामः ।।धर्मादीनि द्रव्याणि येनात्मना ५ भवन्ति स तद्भावः तत्त्वं परिणाम इत्याख्यायते ।
तत्स्वरूपं व्याख्यातम् ।। तस्य परिणामस्य स्वरूपं व्याख्यातम् । क ? “वर्तनापरिणामकियाः" [त. सू० ५।२२] इत्यत्र ।
स द्विविधोऽनादिरादिमांश्च ।३। स एष परिणामो द्विधा भिद्यते । अनादिरादिमांश्चेति । तत्रीनादिर्धर्मादीनां गत्युपग्रहादिः। न ह्येतदस्ति धर्मादीनि द्रव्याणि प्राक , पश्चादत्यपग्र प्राग्वा गत्युपग्रहादिः पश्चाद्धर्मादीनि इति । किं तर्हि ? अनादिरेषां संबन्धः। आदिमांश्च बाह्यप्रत्ययापादितोत्पादः। ___ अत्रान्ये धर्माधर्मकालाकाशेषु अनादिः परिणामः, आदिमान् जीवपुद्गलेषु इति पदन्ति; तदयुक्तम् । कुतः ? सर्वद्रव्याणां द्वथात्मकत्वे सत्त्वम् , अन्यथा नित्याभावप्रसङ्गात् । कथं तर्हि ग्राह्यम् ?
• नयद्वयवशात् सर्वत्र तदुभयसिद्धिः ।४। द्रव्याथिकपर्यायार्थिकनयद्वयविवक्षावशात् सर्वेषु धर्मादिद्रव्येषु स उभयः परिणामोऽवसेयः । अयं तु विशेषः धर्मादिषु चतुर्पु द्रव्येष्वत्यन्तपरोक्षेवनादिरादिमांश्च परिणामः आगमगम्यः, जीवपुद्गलेषु कश्चित्प्रत्यक्षगम्योऽपि इति ।
इति तत्त्वार्थवार्तिके व्याख्यानालङ्कारे पञ्चमोध्यायः। .
१ वैशेषिकाणाम्-स० । २ गतिसामान्येन । ३ "तत्रानादिररूपिषु धर्माधर्माकाशीवेष्विति । रूपादिष्वादिमान् [५-४३] रूपिषु तु द्रव्येषु आदिमान् परिणामोऽनेकविधः स्पर्शपरिणामादिः। योगोपयोगी जीवेषु [५।४५] जीवेष्यरूपिष्वपि सत्सु योगोपयोगी परिणामी आदिमन्ती भवतः।"-तत्वार्थाधि० मा० । ४ सत्त्वाभावे । ५ अपिशब्दादागमगम्यश्च ।