________________
तत्त्वार्थवार्तिके
[५४०-४१ माह-द्रव्यत्वे सति किमसौ कालः आकाशवदेक उत संख्येयोऽसंग्ग्येयोऽनन्तो वेति ? अत्रोच्यते
सोऽनन्तसमयः ॥ ४०॥
व्यवहारकालप्रमागावधारणार्थ वचनम् ।। मुख्याः परमार्थकालाणवः धर्मास्तिकाय५ प्रदेशनुल्या असंख्येया व्याख्याताः । इदं तु वचनं व्यवहारकालप्रमाणावधारणार्थ क्रियते । 'साम्प्रतिकस्यैकसमयिकत्वेऽप्यतीतानागताश्च समया अन्तातीता इति कृत्वा अनन्ता इति व्यपदिश्यन्त ।
मुख्यस्यैव वानन्तपर्यायवर्तनाहतुत्वात् ।। अथवा, मुख्यस्यैव कालस्य प्रमाणावधार णार्थमुच्यते । अनन्तपर्यायवर्तनाहेतुत्वादेकोऽपि कालाणुरनन्त इत्युपचर्यते । समयः पुनः परम१० निरुद्धः कालांशः । तत्प्रचयविशेष आवलिकादिऱ्याख्यातः ।
आह-"गुणपर्ययवद्न्य म्" इत्युक्तम , तत्र के गुणाः इति ? अत्रोच्यते
द्रव्याश्रया निगुणा गुणाः ॥ ४१ ॥ आश्रयशब्दोऽधिकरणसाधनः कर्मसाधनो वा ।। अयमाश्रयशब्दः अधिकरणसाधनः गुणा यत्राश्रयन्ते स आश्रय इति पुल्लिङ्गे घः । अथवा कर्मसाधनः गुणैराश्रियत इत्याश्रयः । द्रव्य१५ शब्द उक्तार्थः, द्रव्यमाश्रयो येषां ते द्रव्याश्रयाः ।
निर्गुणा इति विशेषणं द्वघणुकादिनिवृत्त्यर्थम् ।२। द्रव्याश्रया गुणा इत्युच्यमाने द्व-यणुकादिप्वपि गुणसंप्रत्ययः स्यात्- कारणद्रव्याश्रयाणि कार्यद्रव्याणीति, ततस्तन्निवृत्त्यर्थं निर्गुणा इति विशेषणमुपादीयते । द्वथणुकादीनां हि रूपादयो गुणाः सन्तीति तन्निवृत्तिः कृता भवति ।
पर्यायाणां गुणत्वप्रसङ्ग इति चेत् नः द्रव्याश्रया इति विशेषणात्तनिवृत्तेः।३। स्यान्म२० तम-यदि गुणा द्रव्याश्रया इत्येतत्तावल्लक्षणं गुणानाम् , पर्यायाणामपि घटसंस्थानादीनां तदुभय
मस्तीति गुणत्वं प्राप्नोतीति; तन्न; किं कारणम् ? द्रव्याश्रया इति विशेषणात्तन्निवृत्तेः। ननु द्रव्याश्रया इति विशेषणं तदाश्रयत्वप्रतिपत्त्यर्थ तदन्तरेणापि सिद्ध्यति । कुतः ? सामर्थ्यातनिराश्रयगुणाभावात् आश्रयान्तराभावाच्च, ततस्तदनथकं पर्यायनिवृत्त्यर्थ भवति । किं शब्दाधिक्यादर्थाधिक्यमिति पर्यायनिवृत्तिर्गृह्यते ? न; इत्याह- .
मत्वर्थे वा वृत्तिविधानात् इति ।४। मत्वर्थेऽन्यपदार्थे वृत्तिः, मत्वर्थश्च नित्ययोगे विद्यत इति नित्ययोगोऽत्र वेदितव्यः । नित्यं द्रव्यमाश्रित्य ये वर्तन्ते ते गुणा इति । पर्यायाः पुनः कादाचित्का इति न तेषां ग्रहणम् । तेनान्वयिनो धर्मा गुणा इत्युक्तं भवति । तद्यथा जीवस्यास्तित्वादयः ज्ञानदर्शनादयश्च । पुद्गलस्याचेतनत्वादयः रूपादयश्चेति । पर्यायाः पुनः घटज्ञानादयः कपालादिविकाराश्च ।
अत्राह-उक्तः. परिणामशब्दः असकृन्न तु तस्यार्थो वर्णितः, तस्मादुच्यतां कः परि
णामः इति ?
१ वर्तमानकालस्य । २ पुनाम्नि घः प्रायः । ३ परमाणवः कारणद्रग्याणि द्वयणकादीनि कार्यद्रव्याणि ।