________________
२३६] पञ्चमोऽध्यायः
५०१ गुणाभावादयुक्तिरिति चेत्, न; अर्हत्प्रवचनहदयादिषु गुणोपदेशात ।२। गुण इति संज्ञा तन्त्रान्तराणाम् , आर्हतानां तु द्रव्यं पर्यायश्चेति द्वितयमेव तत्त्वम । अतश्च द्वितयमेव नयद्वयोपदेशात् , द्रव्यार्थिकः पर्यायार्थिक इति द्वावेव मूलनयौ । यदि गुणोऽपि कश्चित्स्यात् , तद्विषयेण मूलनयेन तृतीयेन भवितव्यम् । न चास्त्यसाविति, अतो गुणाभावात् गुणपर्ययवदिति निर्देशो न युज्यते; तन्न; किं कारणम् ? अर्हत्यवचनहृदयादिषु गुणोपदेशात् । उकं हि अर्हत्प्रवचने- ५ "द्रव्याश्रया निर्गुणा गुणाः" [त० सू० ५/४०] इति । अन्यत्र चोक्तम्
"गुण इति दम्वविधाणं दम्ववियोरो य पज्जयो भणिदो।
तेहि अणूणं दन्वं 'अजुदवसिद्धं हवदि णिच्चं ॥१॥"[ ] इति । यदि गुणोऽपि विद्यते, ननु चोक्तम्-तद्विषयस्तृतीयो मूलनयः प्राप्नोतीति; नैष दोपः; द्रव्यस्य द्वावात्मानौ सामान्यं विशेषश्चेति । तत्र सामान्यमुत्सर्गोऽन्वयः गुण इत्यनर्थान्तरम् । १० विशेषो भेदः पर्याय इति पर्यायशब्दः । तत्र सामान्यविषयो नयो द्रव्यार्थिकः । विशेषविपयः पर्यायार्थिकः । तदुभयं समुदितमयुतसिद्धरूपं द्रव्यमित्युच्यते, न तद्विपयस्तृतीयो नयो भवितुमर्हति, विकलादेशत्वान्नयानाम् । तत्समुदयोऽपि प्रमाणगोचरः सकलादेशत्वात् प्रमाणस्य ।
गुणा एव पर्याया इति वा निर्देशः ॥३॥ अथवा, उत्पादव्ययध्रौव्याणि पर्यायाः, न तेभ्योऽन्ये गुणाः सन्ति, ततो गुणा एव पर्याया इति सति सामानाधिकरण्ये मतौ सति गुणपर्या- १५ यवदिति निर्देशो युज्यते।
विशेषणानुपपत्तिराभेदादिति चेत्, न; मतान्तरनिवृत्त्यर्थत्वात् ।४। स्यादेतत्यदि गुणा एव पर्यायाः; विशेषणमपार्थकम् ; कुतः ? अर्थाभेदात् । ततो गुणवदिति वा पर्यायबदिति बा वक्तव्यमिति; तन्न; किं कारणम् ? मतान्तरनिवृत्त्यर्थत्वात् । मतान्तरे हि द्रव्यादन्ये गुणाः परिकल्पिताः, न ते सन्ति ? अर्थान्तरभावे सत्यनुपलब्धिप्रसङ्गात् । अती द्रव्यस्य “परि- २० णमनं परिवर्तनं पर्यायः । तद्भदा एव गुणाः न भिन्नजातीया इति मतान्तरनिवृत्त्यर्थत्वात् विशेषणमर्थवत् ।
उक्तानां द्रव्याणां लक्षणनिर्देशात्तद्विपय एव द्रव्यव्यवसायप्रसक्त अनुक्तद्रव्यसंसूचनार्थमिदमाह
कालश्च ॥ ३९ ॥
२५
यथोक्तद्रव्यलक्षणोपेतत्वाद द्रव्यम् ।। यथोक्तं द्रव्यलक्षणम्-"उत्पादव्ययध्रौव्ययुक्तं सत् , गुणपर्वयवद् द्रव्यम्" [त. सू०, ५।३०,३७ ] इति च; तेन लक्षणेनोपेतत्वात् कालश्च द्रव्यमित्यवगम्यते । कथं लक्षणोपेतत्वमिति चेत् ? उच्यते
___ आकाशादिवत्तत्सिद्धिः । यथा आकाशादीनां द्रव्यलक्षणं तथा कालस्यापि सिद्ध्यति । धौन्यं तावत् कालस्य स्वप्रत्ययं स्वभावव्यवस्थानात् , व्ययोदयौ परप्रत्ययौ, अगुरुलघुगुणवृद्धिहान्य- ३० पेक्षया स्वप्रत्ययौ च । तथा गुणा अपि कालस्य साधारणासाधारणरूपाः सन्ति । तत्रासाधारणः वर्तनाहेतुत्वम् , साधारणाश्च अचेतनत्वामूर्तत्वसूक्ष्मत्वागुरुलघुत्वादयः। पर्यायाश्च व्ययोत्पादलक्षणा योज्याः। तस्यास्तित्वलिङ्गं सन्निवेशक्रमश्च व्याख्यातः ।
असाभरणबषणम्। २ विकार । ३ अयुतप्रसिबम् । “ उद्धतेवम्-स. सि. ५।३८ । स्किमो.। यतो भ०।- परिगमनं मू०।
५