________________
५
तस्वार्थवार्तिके
बन्धेऽधिको पारिणामिकों ॥३७॥
प्रकृतत्वाद् गुणसंप्रत्ययः ॥ १ । प्रकृतं गुणग्रहणम्, तदभिसंबन्धाद् गुणसंप्रत्ययो भवतीत्यधिकगुणाविति ।
भावान्तरापादनं परिणामकत्वं क्लिन्नगुडवत् |२| यथा क्लिन्नगु'डोऽधिकमधुररसः पतितानां रेण्वादीनां स्वगुणापादनात् परिणामकः, तथा अन्योऽपि अधिकगुणः अल्पीयसः परिणामक इति कृत्वा द्विगुणादिस्निग्धरूक्षस्य चतुर्गुणादिस्निग्धरूक्षः परिणामको भवतीति ततः पूर्वास्थाप्रच्यवपूर्वकं तातीर्य कमवस्थान्तरं प्रादुर्भवतीत्येकस्कन्धत्वमुपपद्यते, इतरथा हि शुक्लकुष्णतन्तुवत्संयोगे सत्यप्यपरिणामकत्वात् सर्वं विविक्तरूपेणैवावतिष्ठेत । दृश्यते हि श्लेषे सति वर्णगन्धरसस्पर्शानामवस्थान्तरभावः शुक्लपीतादिसंयोगे शुक्लपत्रवर्णादिप्रादुर्भाववत् ।
२५
५००
१०
समाधिकावित्यपरेषां पाठः | ३| " बन्धे समाधिकौ पारिणामिकौ” [ तत्वार्थाधि० ५/३६ ] इत्यपरे सूत्रं पठन्ति, द्विगुणस्निग्धस्य द्विगुणरूक्षोऽपि परिणामक इति ।
तदनुपपत्तिरार्धविरोधात् ॥४॥ स पाठो नोपपद्यते । कुतः ? आर्षविरोधात् । एवं युक्तमार्पे वर्गणायां बन्धविधाने - नोआगमद्रव्यबन्धविकल्पे सादिवैत्रसिकबन्धनिर्देशे प्रोक्तः (क्तम्- ) 'विषस्निग्धतायाम् विषम रूक्षतायां च वन्धः समस्निग्धतायां समरूक्षतायां च भेद:' इति । तदनुसारेण १५ च सूत्रमुक्तम् “गुणसाम्ये सदृशानाम् ” [ ५।३४ ] समगुणानां बन्धप्रतिषेधात् बन्धे समः परिणामक इत्याविरोधिवचो न विद्वद्ब्राह्यम् ।
३०
[ ५१३६-३७
विषमे समे वास्ति वन्धः इति वचनान्न विरोध इति चेत्; न; आपीर्थाज्ञानात् ॥५॥ स्यान्मतम् -'जघन्यवर्जे विपमे समे वास्ति' इति वचनात् समगुणस्यापि बन्ध इत्यभ्युपगमान्नास्ति विरोधः इति; तन्न; किं कारणम् ? 'आर्पार्थाज्ञानात् । नायमस्यार्थः - समगुणस्य बन्ध इति । कस्तर्हि ? २० समस्तुल्यजातीयः, विपमोऽतुल्यजातीयः । समस्य चतुगुणस्निग्धस्य पड्गुण स्निग्धेनारित बन्धः विषमस्य चतुगुणरूक्षस्य षड् गुणस्निग्धेनास्ति बन्धः इत्ययमार्पार्थः । तत्रैतत् स्यात् - किमर्थोऽयमारम्भ इति ? उच्यते- पौगलिकं कर्मात्मस्थानन्तानन्तप्रदेशं कायवाङ्मनोयोगनिमित्तं विस्रसोपचितानन्तप्रदेश स्निग्धरूक्षपरिणतं बन्धमायातमात्मनः ज्ञानावरणादिभावेन त्रिंशत्सागरोपमकोटिकोट्याद्यवस्थानभाक् तत्परिणामकापादितपरिणामात् घनादिवन्न विष्वग्भवतीति ।
अत्राह-उक्तं भवता " द्रव्याणि, जीवाश्चेति" [ ५/२, ३ ] इति; तत्र किमुद्देशत एव द्रव्याणां प्रसिद्धिराहोस्विल्लक्षणतोऽपीति ? अत्रोच्यते-लक्षणतोऽपि प्रसिद्धिः । तत्कथमिति चेत् ? उच्यते
गुणपर्ययवद् द्रव्यम् ॥ ३८ ॥
गुणाश्च ते पर्ययाश्च गुणपर्ययास्ते यस्य सन्तीति तद् गुणपर्ययवदिति । मर्नोपपद्यते अनर्थान्तरभावात्", अर्थान्तरभावे चाऽभावप्रसङ्गः; इत उत्तरं पठति
अनन्यत्वेऽपि लोके सुवर्णाङ्गुलीयकचद् व्यपदेशदर्शनात् मत्वर्थीयसिद्धिः |१| अनन्यत्वेऽपि लोके व्यपदेशो दृश्यते, यथा सुवर्णस्याङ्गुलीयकं सुवर्णाङ्गुलीयकमिति । तथा "लक्षणः कथचिद्भेदोपपत्तेः गुणपर्ययेभ्योऽनन्यत्वे कथचिद्भेदसिद्धेः मत्वर्थीयमुपपद्यते ।
१-कौ च मु० | २-डो हि मधु-मु०, ब० । ३ पर्याय इति । ४ वर्णरसगन्धस्प- मु० | ५ “वेमादा डिदा मादा ल्हुक्खा बंधो ॥३२॥ समणिद्धदा समलुक्खदा भेदो ॥३३॥” - छक्खं० वग्ग० पृ० ३० । ६ आज्ञा - मु०, मू०, ब०, आ०, ज० । ७ स्निग्धरूक्ष ८ पर्यायव-मू० पर्याया श्र० । १०- पर्याय श्र० । ११ गुणपर्यायाणाम् । १२- सिद्धेः मु० । १३ तल्लक्षण- मू०, श्र० ।