________________
५३५ ]
सदृशग्रहणमनर्थकं गुणसाम्यवचनादिति चेत्; न; समानगुणकारयोः स्निग्धरुक्षयोः प्रतिषेधप्रसङ्गात् ।३। स्यादेतत्-सदृशग्रहणमनर्थकम् । कुतः ? गुणसाम्यवचनात्सिद्धेरिति; तन्नं; किं कारणम् ? समानगुणकारयोः स्निग्धरूक्षयोः प्रतिषेधप्रसङ्गात् । सदृशग्रहणे सति द्विगुणस्निग्धानां द्विगुणरूक्षैः त्रिगुणस्निग्धानां त्रिगुणरूक्षैर्गुणकारसाम्याद्बन्धः प्रतिषिध्येत । सदृशग्रहणे पुनः सति द्विगुण स्निग्धानां द्विगुण स्निग्धैर्द्विर्गुणरूक्षाणां द्विगुणरूक्षैरित्येवमादिषु बन्धप्रतिषेधः कृतो भवति ।
पञ्चमोऽध्यायः
४६६
नवेष्टत्वात् |४| न वा एतत्प्रयोजनमस्ति । किं कारणम् ? इष्टत्वात् । इष्यते द्विगुणस्निग्धानामपि द्विगुणरूक्षैर्बन्धप्रतिषेधः । किमर्थ तर्हि सदृशग्रहणम् ?
गुणवैषम्ये बन्धप्रतिपत्त्यर्थम् | ५ | गुणवैषम्ये सदृशानां बन्धो भवतीत्येतस्यार्थस्य प्रतिपत्त्यर्थं सदृशग्रहणं क्रियते ।
अतो विषमगुणानां तुल्यजातीयानां चाविशेषेण प्रसक्ताविष्टार्थसंप्रत्ययार्थमिदमुच्यते
" णिस्स णिज्रेण दुराहिएण लुक्खस्स लुक्खेण दुराहिए ।
णिद्धस्य लुक्खेण हवेदि बंधो जहण्णवज्जे विसमे समे वा ॥ १॥" [छक्खं० वग्ग० ५।६।३६ ] एवमुक्तेन विधिना बन्धे सत्यणूनां द्वयणुकाद्यनन्तानन्तप्रदेशावसानस्कन्धोत्पत्तिर्वेदितव्या । तुशब्दो व्यावृत्तिविशेषप्रतिपत्त्यर्थः ॥ ३ ॥ तुशब्दः क्रियमाणः प्रतिषेधं व्यावर्त्तयति वन्धं च विशेषयति ।
धिकादिगुणानां तु ॥ ३६ ॥
द्वत्यधिकश्चतुर्गुणः |१| द्वाभ्यां गुणाभ्यामधिको द्वयधिकः । कः पुनरसौ ? चतुर्गुणः ? आदिशब्दस्य प्रकारार्थत्वात् पञ्चगुणादिसंप्रत्ययः |२| द्वधिकादीत्ययमादिशब्दः प्रकारार्थः। कः पुनरसौ प्रकारः ? द्वाभ्यामधिकता । तेन पञ्चगुणादीनां संप्रत्ययो भवति । 'अवययेन विग्रहः समुदायो वृत्त्यर्थः' इति चतुर्गुणस्यापि ग्रहणं भवति । तेन द्वयधिकादिगुणानां तुल्य- १५ जातीयानामतुल्यजातीयानां च बन्ध उक्तो भवति, नेतरेषाम् । तद्यथा - द्विगुणस्निग्धस्य परमाणोः एक गुण स्निग्धेन द्विगुणस्निग्धेन त्रिगुणस्निग्धेन वा नास्ति बन्धः, चतुर्गुणस्निग्धेन पुनरस्ति बन्धः । तस्यैव पुनर्द्विगुणस्निग्धस्य पञ्चगुणस्निग्धेन षट्सप्ताष्टनवदशसंख्येयाऽसंख्येयानन्त
स्निग्धेन बन्धो न विद्यते । एवं त्रिगुणनिधस्य पञ्चगुणस्निग्धेन बन्धोऽस्ति, शेषैः पूर्वोत्तरैर्न भवति । चतुर्गुणस्निग्धस्य षड्गुणस्निग्धेनास्ति बन्धः, शेषैः पूर्वोत्तरैर्नास्ति । एवं शेषेष्वपि २० योज्यः । तथा द्विगुणरूक्षस्य एकद्वित्रिगुणरूक्षैर्नास्ति बन्धः, चतुर्गुणरूक्षेण त्वस्ति बन्धः । तस्यैव द्विगुणरूक्षस्य पचगुणरूक्षादिभिरुत्तरैर्नास्ति बन्धः । एवं त्रिगुणरूक्षादीनामपि द्विगुणाधिकैर्बन्धो योज्यः । एवं भिन्नजातीयेष्वपि द्विगुणस्निग्धस्य एकद्वित्रिगुणरूक्षैर्नास्ति बन्धः, चतुर्गुरूक्षेण त्वस्ति बन्धः, उत्तरैः पञ्चगुणरूतादिभिर्नास्ति । एवं त्रिगुणस्निग्धादीनां पञ्चगुणरूक्षादिभिरस्ति, शेषैः पूर्वोत्तरैर्नास्ति बन्ध इति योज्यः । उक्तं च
अत्राह-किमर्थं संयोगजातीयः पुद्गलानां बन्धो नाम धर्मः कल्प्यते ? ननु प्राप्याद्यात्मकत्वादनेनैव सर्वसामूहिकव्यवहारसिद्धिरिति ? उच्यते - संयोगेऽपि सति प्राप्तिमात्रेण कृतार्थत्वात् परस्परानुप्रवेशनिरुत्सुकौ स्निग्धरूक्षगुणौ स्कन्धौ परमाणूनां संयोगमात्रत्वात् पारिणामिको न • स्याताम् शुक्लकृष्णतन्तुसंयोगावस्थानवत्, ततोऽयमारम्भः -
(
१ चेन्न मु० | २ - दिसम्बन्धः कृतो मु०, द० । ३ द्वयधिकादिकेन चतुर्गुणेनेत्यर्थः । ४ गो० जी० गा० ६१४ । ५ न जघन्येत्यत्र नञम् । ६ न प्रा-मु०, द० । ७ स्कन्धपर - ता०, श्र० ।
१.
१०
२५
३०