________________
४६८
तत्त्वार्थवार्तिके .
[१३४-३५ तत्कृतो वन्धो द्वयणुकादिपरिणामः । द्वयोः स्निग्धरूक्षयोरण्वोः परस्पराश्लेषलक्षणे बन्धे सति द्वयणकः स्कन्धो भवति । एवं संख्येयाऽसंख्येयाऽनन्तप्रदेशस्कन्धो योज्यः ।
एकगुणादिसंख्येयाऽसंख्येयानन्तविकल्पः स्नेहः ।३। अविभागपरिच्छेदैकगुणः स्नेहः प्रथमः । एवं द्वित्रिचतुःसंख्येयाऽसंख्येयानन्तगुणः स्नेहविकल्पः । एवंगुणा परमाणवः सन्ति ।
तथा रूनः ।४। यथा स्नेह उक्तस्तथा रूक्षोऽपि संख्येयाऽसंख्येयानन्तविकल्पो वेदितव्यः । एवंगुणाश्च परमाणवः सन्ति ।
तोयाजागोमहिप्युष्ट्रीक्षीरघृतेषु पांशुकणिकाशर्करादिषु च प्रकर्षाप्रकर्षदर्शनात्तदनुमानम् ।। यथा तोयादजाक्षीरघृते प्रकृष्टस्नेहे ततः प्रकृष्टस्नेह गोजीरघृते ततश्चाधिकस्महे महिषी
क्षीरघृते ततोऽप्युत्कृष्एनहे उष्ट्रीक्षीरघृते। पांशुभ्यः प्रकृष्टरुक्षगुणाः तुषकणिकादयः ततोऽपि प्रकृष्ट१० रूक्षाः शर्कराः । तथा परमाणुष्वपि प्रकर्षाप्रकर्षवृत्त्या स्निग्धरूक्षगुणाः सन्तीत्यनुमानं क्रियते । स्निग्धरूक्षगुणनिमित्ते बन्धे अविशेषेण प्रसक्ते अनिष्टगुणनिवृत्त्यर्थमाह
न जघन्यगुणानाम् ॥ ३४॥ . शाखादित्वाइहाङ्गत्वाद्वा जघन्यशब्दसिद्धिः।१। जघनमिव जघन्यमिति शाखादित्वात सिद्ध्यति । क उपमार्थः ? यथा शरीरावयवेषु जघनं निकृष्टं तथाऽन्योपि निकृष्टो जघन्य इत्युच्यते । अथवा देहाङ्गत्वात्सिद्धिः । जघने भवः जघन्यः । जघन्य इव जघन्यः । यथा जघने भवो निकृष्टस्तथाऽन्योऽपि निकृष्टो जघन्य इति व्यपदिश्यते। .
गुणशब्दस्यानेकार्थत्वे विवक्षावशाद्भागग्रहणम् ।। गुणशब्दोऽनेकस्मिन्नर्थ दृष्टप्रयोगः । कश्चिद्रूपादिपु वर्तते-रूपादयो गुणा इति । कचिद्भागे वर्तते-द्विगुणा यवास्त्रिगुणा यवा इति । कचिदुपकारे वर्तते-गुणज्ञः साधुः उपकारज्ञ इति यावत् । क्वचिद्रव्ये वर्तते- गुणवानयं देश इत्युच्यते यस्मिन् गावः शस्यानि च निष्पद्यन्ते । कचित्समेष्ववयवेपु-द्विगुणा रज्जुः त्रिगुणा रज्जरिति । कचिदुपसर्जने-गुणभूता वयमस्मिन् ग्रामे उपसर्जनभूता इत्यर्थः । तत्रेह भागे वर्तमानः परिगृह्यते । जघन्यो गुणो येषां ते जघन्यगुणास्तेषां जघन्यगुणानां नास्ति बन्धः । एतदुक्तं भवति-एकगुणस्निग्धस्य एकगुणस्निग्धेन द्वितीयादिसंख्येयाऽसंख्येयानन्तगुणस्निग्धेन वा नास्ति बन्धः । तस्यैवैकगुणस्निग्धस्य एकगुणरूक्षेण द्वयादिसंख्येयाऽसंख्येयानन्तगुणरूक्षेण वा नास्ति बन्धः । तथा एकगुणरूक्षस्यापि योज्यमिति । • एतौ जघन्यगुणस्निग्धरूक्षौ वर्जयित्वा अन्येषां स्निग्धरूक्षाणां परस्परेण संबन्धो भवतीति अविशेषप्रसङ्ग तत्रापि प्रतिषेध विपयख्यापनार्थमाह
गुणसाम्ये सदृशानाम् ॥ ३५॥ सदृशग्रहणं तुल्यजातीयसंप्रत्ययार्थम् ।। स्निग्धजात्या रूक्षजात्या च तुल्यानां संप्रत्ययः कथं स्यादिति सदृशग्रहणं क्रियते। ..
___ गुणसाम्यग्रहणं तुल्यभागसंग्रहार्थम् ।। तुल्यभागा ये तेषां ग्रहणार्थं गुणसाम्यग्रहणं क्रियते ।
१५
२०
PV
१ अविशेषेण प्र-मु०। २-धज्ञाप-मु० ।