________________
५१३० पञ्चमोऽध्यायः
४६५ तथा पूर्वभावविगमा व्ययनं व्ययः ।। तेन प्रकारेण तथा स्वजात्यपरित्यागेन इत्यर्थः, पूर्वभावविगमा व्ययनं व्यय इति कथ्यते यथा घटोत्पत्तौ पिण्डाकृतेः ।
'ध्रुवः स्थैर्यकर्मणी ध्रुवतीति ध्रुवः ।। अनादिपौरिणामिकस्वभावत्वेन व्ययोदयाभावात् ध्रुति स्थिरीभवति इति ध्रुवः, ध्रुवम्य भावः कर्म वा ध्रौव्यम , यथा पिण्डघटाद्यवस्थासु मृदादान्वयात् ।
अन्य नान्यस्य योग दण्डियदिति चत् : न: अन्तणीतसत्ताक्रियस्य युजेराश्रितत्वात् ।। स्यान्मतम-उत्पादश्च व्ययश्च ध्रौव्यं च उत्पादव्ययध्रौव्याणि । उत्पादव्ययध्रौव्यैर्युक्तम् उत्पादव्ययथ्रीव्ययुक्तमिति निर्देशा नापपाते । कुतः ? अन्येनान्यस्य योगात् दण्डिवदिति; तन्न; किं कारणम ? अन्तर्णीतसत्ताक्रियम्य युजराश्रितत्वात् । कथं पुनः युजेः सत्ताक्रियत्वमिति चेत् ? उच्यते-सर्व धातवा भाववचनाः । भावश्च सत्ता क्रिया इत्यनान्तरम् । तामेव सर्वे शब्दाः १० स्वार्थापानधाननावच्छिद्यावच्छिद्य विपयीकुर्वन्ति । उत्पादव्ययध्रौव्यं सदिति यावत् तावदुत्पादव्ययध्रौव्ययुक्तमिति । सर्वधातृनां सत्तार्थत्वे एधादीनां वृद्धयादिप्रतिनियतार्थत्वाभाव इति चेत् ; नः सत्तार्थत्वे सत्येधादीनां वृद्धयाद्यर्थप्रवृत्तेः, नाऽसतां खरविपाणादीनां वृद्धयादिरर्थोऽस्ति । - उत्पादव्ययधीव्यवदिति न्याथ्यमिति चत् : नः उपालम्भपरिहारतुल्यत्वात् ।। स्यादेतन-यन्तांतसत्ताक्रियो यजिः परिगृह्यते उत्पादव्ययध्रौव्यवदित्येतदेव न्याय्यमिति; तन्न; किं १५ कारणम ? उपालम्भपरिहारतुल्यत्वात । यथा गोभ्योऽन्यत्वे देवदत्तस्य गोमानिति व्यपदेशो भवति न तथा उत्पादव्ययध्रीव्येभ्योऽन्यत् व्यमिति 'मत्वर्थीयो नोपपद्यते' इति उपालम्भी न निवर्तते ।' 'अनन्यत्वेऽपि लोके मत्वर्थीयो दृश्यते-आत्मवान् आत्मा, सारवान स्तम्भः' इति परिहारश्च तुल्यः ।
समाधिवचनत्वाद्वा ।६। अथवा समाधिवचनोऽयं युजिः परिगृह्यते । युक्तः समाहित २० इत्यर्थः । समाधानं च तात्पर्य तादात्म्यमिति यावत । उत्पादव्ययध्रौव्ययुक्तमुत्पादव्ययध्रौव्यात्मकमित्यर्थः।
कथञ्चिदन्यत्वोपपत्तेर्वा ।७। यथा वा पर्यायेभ्यः पर्यायिणः कथञ्चिदन्यत्वोपपत्तेः ‘योगवचन एव वा युक्तशब्दो न्याय्यः । यदि हि सर्वथा अनन्यत्वं स्यात् उभयाभावप्रसङ्गः ग्यात् ।
सच्छब्दस्य प्रशंसाद्यनेकार्थसंभव विवक्षातोऽस्तित्वसंप्रत्ययः ।। सच्छब्दः प्रशंसा- २५ दिषु वह्वर्थेषु दृष्टप्रयोगः । प्रशंसायां तावत्-सत्पुरुपः प्रशस्तः पुरुपः इत्यर्थः । कचिदादर-सत्करोति आदरं करोतीत्यर्थः । कचिदस्तित्वे-सद्भूतमयमा विद्यमानमाहेत्यर्थः। कचित् प्रज्ञायमानेप्रव्रजितः सन कथमनृतं ब्रूयात ? प्रवजित इति प्रज्ञायमान इत्यर्थः । तत्रेह विवक्षातः अस्तित्ववचनो वेदितव्यः ।
___ व्ययोत्पादाव्यतिरेकाद् द्रव्यस्य ध्रौव्यानुत्पत्तिरिति चेत्: न: अभिहितानवयोधात् ।।। ३० स्यादेतत-व्ययोत्पादाभ्यामव्यतिरेका द् द्रव्यस्य व्ययोत्पादात्मकत्वात् ध्रुवत्वं नोपपद्यते इति; तन्न;
-मु०, ता०, श्र०, द० । २-परिणामस्व-श्र० । ३-नान्यसंयोगे मु०, द० । ननु सर्वथा भेदे सति युक्तशब्दो लोके प्रयुज्यमानो दृष्टः मत्व यवत् , यथा दण्डयुक्तो देवदत्त इति । तथा च सति भवत्पने उत्पादादिधर्माणां त्रयाणां निराश्रयत्वात् द्रव्यस्य च निःस्वरूपत्वादभावः प्राप्नोतीति परमतमाशङ्कच परिहरति । ४ अन्तर्नीत-मु०, द०, श्र०, ता०। ५ यजनादिक्रिया विशेष्य विशेष्य । ६-न्तीत-मु०, द०, श्र०, ता० । ७ युजिः समाधौ। ८ युजञ् योगे। पुरुषः ।