________________
४६४
तत्त्वार्थवार्तिके
[ ५१२७-३०
इति हेत्वर्थगतेः । तद्यथा - द्वयोः परमाण्वोः संघाताद् द्विप्रदेशस्कन्ध उत्पद्यते । द्विप्रदेशस्य अणोश्च त्रयाणां वा अणूनां संघातात्त्रिप्रदेशः । द्वयोः द्विप्रदेशयोः त्रिप्रदेशस्याणोश्चतुर्णां वा अणूनां संघाताच्चतुष्प्रदेशः। एवं संख्येयानाम् असंख्येयानामनन्तानां च संघातात्तावत्प्रदेशः । एपामेव भेदान् द्विप्रदेशपर्यन्तात् स्कन्धा उत्पद्यन्ते । एवं भेदसंघाताभ्याम् एकसामयिकाभ्यां द्विप्रदेशादयः ५ स्कन्धा उत्पद्यन्ते अन्यतो भेदेन अन्यस्य संघातेनेति ।
एवमुक्तानामणुस्कन्धानामविशेषेण भेदादिहेतुकोत्पत्तिप्रसङ्गे विशेषप्रतिपत्त्यर्थमिदमुच्यतेभेदादणुः ॥ २७ ॥
सामर्थ्यादवधारणप्रतीतेरेवकारावचनं अब्भक्षवत् |१| यथा न कश्चित् अपो न भक्षयति इत्यभक्षणसिद्धेः अब्भक्षवचनात् अप एव भक्षयतीत्यवधारणं गम्यते, एवं भेदसंघातेभ्य १० उत्पद्यन्ते इत्यनेनैवाणोर्भेदादुत्पत्तौ सिद्धायां पुनर्वचनमवधारणार्थं भवति भेदादेवाणुः न संघातात् नापि भेदसंघाताभ्यामिति ।
अत्राह-संघातादेव स्कन्धानामात्मलाभ सिद्धेर्भेदसंघातग्रहणमनर्थकमिति तद्ग्रहणप्रयोजनप्रतिपादनार्थमिदमुच्यते
भेदसंघाताभ्यां चाक्षुषः ॥ २८ ॥
१५
अनन्तानन्तपरमाणुसमुदयनिष्पाद्योऽपि कश्चिचाक्षुपः कश्चिचाऽचाक्षुपः । तत्र योऽचाक्षुपः स कथं चाक्षुषो भवतीति चेत् ? उच्यते-भेदसंघाताभ्यां चाक्षुपः न भेदादिति । काऽत्रोपपत्तिरिति चेत् ? ब्रूमः - सूक्ष्मपरिणामस्य स्कन्धस्य भेड़े सौक्ष्म्या परित्यागात् अचाक्षुपत्वमेव । सूक्ष्मपरिणतः पुनरपरः सत्यपि तद्भेदेऽन्यमंघातान्तरसंयोगात् सौक्ष्म्यपरिणामोपरमे स्थौल्योत्पत्तौ चातुपो भवति ।
२०
अत्राह - गतिस्थित्यवगाहनवर्त नाशरीरादिपरस्परोपकाराद्यनुमितास्तित्वं धर्मादि पुरस्ताद्रव्यमित्याख्यातम्, तत्कथं द्रव्यमित्यवधियतें ?
सद्द्रव्यलक्षणम् ॥ २६ ॥
सत्त्वात्, यत्सत्तद् द्रव्यम् ।
यद्येवं प्राप्तमिदं सतः किं लक्षणमिति ? उच्यते-यदिन्द्रियग्राह्यमतीन्द्रियमपि बाह्याध्यात्मिक२५ निमित्तापेक्षम् उत्पादव्ययधौव्ययुक्तं सत्तत् 'वेदितव्यम्' इति वाक्यशेषः ।
अथवा, धर्मादि सत्त्वात् द्रव्यमित्यवधृतम् । तस्मात् अभिधीयतां किं तत्सत् इति ? तत इदमुपादिक्षत—
उत्पादव्ययधौव्ययुक्तं सत् ॥ ३० ॥ इति
अथवा, यद्युपकारसद्भावात् धर्मादिद्रव्यं सद्विवक्षितं यदा तर्हि नोपकरोति तदा तदसत्त्वप्रसङ्ग इति; उच्यते-असत्यपि उपकारविशेषे यस्मात् सामान्ये द्रव्यलक्षणत्रये सन्निहिते उत्पाद - व्ययधौव्ययुक्तं ' सद्द्रव्यं भविष्यतीत्यर्थः ।
३०
स्वजात्यपरित्यागेन भावान्तरावाप्तिरुत्पादः ॥ १ । चेतनस्य अचेतनस्य वा द्रव्यस्य स्वजातिमजहतः निमित्तवशात् भावान्तरावाप्तिरुत्पादनमुत्पाद इत्युच्यते मृत्ण्डिस्य घटपर्यायवत् ।
१ औदारिकादिः । २ कार्मणादिः । ३ तत्कथं सद्द्रव्यलक्षणं धर्मादि द्रव्य मित्य - मु०, ब० । ४-ते सरखात् ता०, श्र०, मु०, मू०, ब० । ५ सत् सद्द्रव्यलक्षणम् ॥ ३० ॥ भा० १ । ६ सत्तद्रव्यं मु० ।