________________
श२६ ] पञ्चमोऽध्यायः
४६३ प्रदेशस्कन्धपरिणामशक्तियोगात् स्यादनेकरसादिः । कार्यलिङ्गेनानुमीयमानसद्भावादेशात् स्याकार्यलिङ्गः, प्रत्यक्षज्ञानगोचरत्वपर्यायादेशात् स्यान्न कार्यलिङ्गः । उक्तं च
"कारणमेवं तदन्त्यं सूचमो नित्यश्च भवति परमाणः ।
एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्व ॥१॥" [ के पुनः स्कन्धाः ?
परिप्राप्तबन्धपरिणामाः स्कन्धाः ।१६। बन्धो वक्ष्यते, तं परिप्राप्ताः येऽणवः ते स्कन्धा इति व्यपदेशमर्हन्ति । ते त्रिविधाः-स्कन्धाः स्कन्धदेशाः स्कन्धप्रदेशाश्चेति । अनन्तानन्तपरमाणुबन्धविशेपः स्कन्धः। तदध देशः । अर्धाध प्रदेशः । तद्भदाः पृथिव्यप्तेजोवायवः स्पर्शादिशब्दादिपर्यायाः । पृथिवी तावत् घटादिलक्षणा स्पर्शादिशब्दाद्यात्मिका सिद्धा। अम्भोऽपि तद्विकारत्वात् तदात्मकम् , साक्षात् गन्धोपलब्धेश्च । तत्संयोगिनां पार्थिवद्रव्याणां गन्धः तद्गुण इवोपलभ्यत १० इति चेत्, न; साध्यत्वात् । तद्वियोगकालादर्शनात् तदविनाभावाच तद्गुण एवेति निश्चयः कर्तव्यः-गन्धवदम्भः रसवत्त्वात् आम्रफलवत् । तथा तेजोऽपि स्पर्शादिशब्दादिस्वभावकं तद्वत्कायत्वात् घटवत् । स्पर्शादिमतां हि काष्ठादीनां कार्य तेजः। किञ्च, तत्परिणामात् । उपयुक्तस्य हि "आहारस्य स्पर्शादिगुणस्य वातपित्तश्लेष्मविपरिणामः । "पित्तं च जठराग्निः, तस्मात् स्पर्शादिमत्तेजः । तथा स्पर्शादिशब्दादिपरिणामो वायुः स्पर्शवत्त्वात् घटादिवत् । किञ्च, तत्परिणामात् । १५ उपयुक्तस्य हि आहारस्य स्पर्शादिगुणस्य वातपित्तश्लेष्मविपरिणामः । वातश्च प्रणादिः। ततो वायुरपि स्पर्शादिमान् इत्यवसेयः ।
एतेन 'चतुनियेकगुणाः पृथिव्यादयः पार्थिवादिजातिभिन्नाः' इति दर्शनं प्रत्युक्तम् ।
आह-किमेपां अणुस्कन्धलक्षणः परिणामोऽनादिः, उत आदिमान् इति ? उच्यते-स खलुत्पत्तिमत्त्वादादिमान् प्रतिज्ञायते । यद्येवमभिधीयताम्-कस्मानिमित्तादुत्पद्यन्त इति । तत्र २० स्कन्धानां तावदुत्पत्तिहेतुप्रतिपादनार्थमिदमुच्यते
भेदसंघातेभ्य उत्पद्यन्ते ॥ २६ ॥ संहतानां द्वितयनिमित्तवशात् विदारणं भेदः ।। बाह्याभ्यन्तरविपरिणामकारणसन्निधाने सति संहतानां स्कन्धानां विदारणं नानात्वं भेद इत्युच्यते ।
विविक्तानाम् एकीभावः संघातः ।। पृथग्भूतानाम् एकत्वापत्तिः संघात इति कथ्यते। २५
द्वित्वाद द्विवचनप्रसङ्ग इति चेत् ; न; बहुवचनस्यार्थविशेषज्ञापनार्थत्वात् ।। स्यादेतद्भेदसंघातयोढित्वात् द्विवचनेन भवितव्यमिति; तन्नः किं कारणम् ? "बहुवचनस्यार्थविशेपज्ञापनार्थत्वात् । अतो भेदेन संघातः भेदसंघातः इत्यस्याप्यवरोधः कृतो भवति ।
उत्पूर्वः पदित्यर्थः ।४। उत्पूर्वः पदिर्जात्यर्थो द्रष्टव्यः-उत्पद्यन्ते जायन्त इति यावत् ।
तदपेक्षा हेतुनिर्देशः ।। भेदसंघातेभ्य इत्ययं हेतुनिर्देशः तदपेक्षो वेदितव्यः । ""निमित्त- ३० कारणहेतुपु सर्वासां प्रायदर्शनात्"[पात. महा० २।३।२३] इति भेदसंघातेभ्यः कारणेभ्यः उत्पद्यन्ते
१ तदन्त्यः-मु०। २ गन्ध । ३ पृथिवीवत्व । ४ पार्थिवद्रव्यस्य । ५ पित्तं जठ-श्र०।६ पार्थिवग्यकार्यत्वात् । ७ पार्थिवपरिणामत्वात् । ८ नैयायिकादीनाम् । “कथं तह मे गुणा विनियोक्तव्या इति ? एकैकश्येन उत्तरोत्तरगुणसद्भावादुत्तराणां तदनुपलब्धिः ।"-न्यायसू० ३।१।६४ । १-द्यते इति मु.। १. भेदात् संघातात् भेदसंघाताभ्यां च स्कन्धा उत्पद्यन्ते इत्यर्थः । ११हेती हेत्वथैः सर्वाः प्राय इति । १२ प्रदर्शनात्-मु०, द० ।