________________
४६२
तत्त्वार्थवार्तिके
[श२५
अनादिपरमाण्वषस्थमिति चेत् ; न; तत्कार्याभावात् ।। स्यान्मतम्-अनाद्यणुत्वावस्थः परमाणुरस्ति स द्वथणुकादिकार्यहेतुत्वात् कारणमेव न कार्यम् । न हि असौ भेदादुत्पद्यत इति; तन्नः किं कारणम् ? तत्कार्याभावात् । न हि तस्यानादिपारिणामिकाण्ववस्थस्य कार्यमस्ति, तत्वभावाविनिवृत्तः । सति च कार्ये तद्भदादणुरिति कार्यत्वसिद्धिः । ततः कार्यस्याभावात् कारणमिति ५ व्यपदेशश्च नोपपद्यते । नहि असति पुत्र अस्ति पितृव्यपदेश इति ।
छायादि तत्कार्यमिति चेत् ; न; स्कन्धनिमित्तत्वात् ।। यदि छायादि कार्यमनादिपरमाजोरिति कलप्यते; तदपि नोपपद्यते; कुतः ? स्कन्धनिमित्तत्वात् । अनन्तानन्तप्रदेशस्कन्धारब्धं छायादि नानादिपरमाणुकार्यम् ।
प्रतिक्षामात्रमिति चेत् ; न; चानुषत्वात् ॥१०॥ अथ मतम्-प्रतिज्ञामात्रमेतत् स्कन्धकार्य १० छायादि नाणुकायमिति; तच्चायुक्तमः कुतः ? चाक्षुपत्वात् । चाक्षुपं हि छायादि अचाक्षुषमणु(षाणु)कार्य न भवितुमर्हति । न चानादिपरमाणु म कश्चिदस्ति “भेदादणुः ।" [५।२७] इति वचनात् ।
नित्यवचनं तदर्थमिति चेत् : न; तस्यापि स्नेहादिविपरिणामाभ्युपगमात् ।११। स्यान्मतम्-नित्यवचनमनादिपरमाण्वर्थमिति; तन्न; किं कारणम् ? तस्यापि स्नेहादिविपरिणामाभ्युपग
मात् । न हि निष्परिणामः कश्चिदर्थोऽस्ति । १५ नयापेक्षमिति चेत् ; युक्तम् ।१२। अथ मतम्-“कारणमेव तदन्त्यं नित्यः' [ ] इति वचनं
नयापेक्षम् । द्वयणुकादिवत् संघातकार्याभावात् कारणमेव, द्रव्यार्थतया व्ययोदयाभावात् नित्यः, इत्येवं सति युक्तम् , हेतुविशेषसामर्थ्यार्पणे अवधारणाऽविरोधात्, द्रव्यार्थतयाऽवस्थानाच्च ।
____एकरसवर्णगन्धोऽणुः निरवयवत्वात् ।१३॥ एकरसः एकगन्धश्च परमाणुर्वेदितव्यः । कुत : ? निरवयवत्वात् । सात्रयवानां हि मातुलिङ्गादीनाम अनेकरसत्वं दृश्यते, अनेकवर्णत्वं च २० मयुरादीनाम् , अनेकगन्धत्वं चानुलेपनादीनां च । निरवयवश्वाणुरत एकरसवर्णगन्धः ।
द्विस्पर्शी विरोधाभावात् ।१४। द्विस्पर्शीऽणुरवगन्तव्यः । कुतः ? विरोधाभावात् । कौ पुनः द्वौ स्पशौं ? शीतोष्णस्पर्शयोरन्यतरः स्निग्धरूक्षयोरन्यतरश्च, एकप्रदेशत्वात् विरोधिनोः युगपदनवस्थानम् । गुरुलघुमृदुकठिनस्पर्शानां परमाणुष्वभावः, स्कन्धविषयत्वात् । कथं पुनस्तेपामणूनामत्यन्तपरोक्षाणाम् अस्तित्ववसीयत इति चेत् ? उच्यते
तदस्तित्वं कार्यलिङ्गत्वात् ॥१५॥ तेषामणूनामस्तित्वं कार्यलिङ्गत्वादवगन्तव्यम् । कार्यलिङ्गं हि कारणम् । नाऽसत्सु परमाणुषु शरीरेन्द्रियमहाभूतादिलक्षणस्य कार्यस्य प्रादुर्भाव इति । ___अनेकान्तः कारणत्वादिविकल्पः ।१६। अणोः कारणत्वादिविकल्पोऽनेकान्तो योज्यः-स्याकारणं स्यात्कार्यमित्यादि । द्वथणुकादिकार्यप्रादुर्भावनिमित्तत्वात् स्यात्कारणमणुः, भेदादुपजायत इति स्यात्कार्यम्, स्निग्धरूक्षत्वादिकार्यगुणाधिकरणाद्वा । ततः पुनर्भेदाभावात् स्यादन्त्यः, प्रदेशभेदाभावेऽपि पुनरपि गुणभेदसद्भावात स्यान्नान्त्यः । सूक्ष्मपरिणामसद्भावत्वात् स्यात्सूक्ष्मः, स्थूलकार्यप्रभवयोनित्वात् स्यात्स्थूलः । द्रव्यताऽपरित्यागात् स्यान्नित्यः, बन्धभेदपर्यायादेशात् गुणान्तरसङक्रान्तिदर्शनाञ्च स्यादनित्यः । निष्पदेशत्वपर्यायार्पणात् स्यादेकरसवर्णगन्धो द्विस्पर्शश्च, अनेक
. अप्रतिबन्धत्वात् । २ परमाणी एकद्वित्रिचतुःसंख्येयासंख्येयादिस्नेहादिगुणहानिवृद्धिरूपविविधपरिणामाजीकारात् । ३ कार्य द्विविधं संघातकार्य भेदकार्यम्चेति, तयोर्मध्ये । ४ द्वयणुकादिस्कन्धकार्यापेक्षया कारणमिति । ५मातुलुङ्गा-श्र० । ६ “कार्यलिङ्ग हि कारणम्"-आप्तमी० श्लो० ६८ । ७-सदाबबलात् मु। -सद्भावात् श्र०, आ० । ८ योगित्वात् मु०, द०, ता०, ब० ।