________________
४६६ तत्त्वार्थवार्तिके
[५१३१ किं कारणम ? अभिहितानवबोधात् । द्रव्यार्थावस्थानात धोव्यमभिहितम, न व्ययोत्पादाभ्यां व्यतिरेकात् । यदि च व्ययोत्पादाभ्यां व्यतिरेकात् ध्रौव्यमभिहितं स्यात तदव्यतिरेकात अध्रौव्यं भवेत् । यदि वा व्यंयोदयाभ्यां व्यतिरेकात् द्रव्यं ध्रुवम् ; द्रव्यादपि व्यतिरेकात् व्ययोदययोध्रौव्यं प्रसज्येत ।
__अथवा, अभिहितानवबोधात् । नैकान्तेन व्ययोदयाभ्यामव्यतिरेको द्रव्यस्याभिहितः । यदि ५ स्यात्, तदत्यन्ताव्यतिरेकात् तद्भावापत्तध्रौव्याभावः स्यात । यतस्तु केनचित् प्रकारेण
व्ययोत्पादाभ्यां व्यतिरेकः केनचिदव्यतिरेकः । व्ययोत्पादकाल द्रव्यार्थावस्थानात् स्याद् व्यतिरेकः । द्रव्यजात्यपरित्यागात् स्यादव्यतिरेकः । तत एकान्तपक्षोपालम्भाभावः । एकान्तव्यतिरेके हि द्रव्यं प्रत्याख्याय अन्यत्र व्ययादयावुपलभ्येयाताम । एकान्तिकाऽव्यतिरके चकलक्षणत्वान अन्यतराभावे अवशिष्टस्याप्यभावः स्यात् ।
स्ववचनविरोधाश्च ।१०। यदि व्ययोत्पादाव्यतिरेकान्न द्रव्यस्य ध्रौव्यम यस्तेन स्वपनसिद्धये हेतुळ पदिश्यते स साधकत्वाव्यतिरिक्त इति परपक्षस्यापि साधकः स्यात् । परपक्षस्य वा यो दृपक इति ततोऽव्यतिरेकात स्वपक्षस्यापि दृपक इति वचनविरोधः । ततश्च न युक्तमुक्तं व्ययोत्पादाऽव्यतिरेकात ध्रौव्यानुपपत्तिरिति ।
उत्पादादीनां द्रव्यस्य चोभयथा लन्यलक्षणभावानुपपत्तिरिति चेत् : नः अन्यत्वानन्या१५ त्वं प्रत्यनेकान्तोपपत्तेः।११। स्यान्मतम-उत्पादव्ययध्रौव्याणि द्रव्यादर्थान्तरभूतानि वा स्युः,अनर्था
न्तरभूतानि वा ? यद्यर्थान्तरभावः कल्प्येत; तानि वैः सत्ता, ततोऽन्यत्वात् द्रव्यस्याभावः स्यात् । तदभावे च निराधारत्वात उत्पादादीनामभाव इति लक्ष्यलक्षणभावो नोपपद्यते । नहि असतां वन्ध्यापुत्राकाशकुसुमादीनां लक्ष्यलक्षणभावोऽस्ति । अथानान्तरत्वमिव्येत लक्ष्यमेव लक्षणमिति
दृष्टविरोधः म्यादिति; तन्न; किं कारणम ? अन्यत्वानन्यत्वं प्रत्यनेकान्तोपपत्तेः। पर्यायिणः पर्या२० याणां च म्यादन्यत्वं स्यादनन्यत्वम् । यथैकस्य मनुष्यग्य जातिकुलरूपादिभिः अविशिष्ठस्य अनेक
संबन्ध्यन्तराविभूतपितापुत्रभ्रातृभागिनेयादयो धर्माः परस्परतो विशिष्टा उपलभ्यन्ते न तेपां भेदात्तस्य भेदः, नापि तस्याऽभेदात्तेपामभदः, ततः पितृत्वादिशक्त्यपेक्षया नाना मनुष्यत्वापेक्षया न पृथक , तथा द्रव्यस्यापि बाह्याभ्यन्तरहेतुविशेपापादिताः पर्यायाः कथञ्चिद्भिन्नाः द्रव्यापणात
कथञ्चिदभिन्नाः इति नासत्त्वं न लक्ष्यलक्षणभावाभावः । तस्मादुत्पादादित्रयक्यवृत्तिः सत्ता, तद्युक्तं २५ द्रव्यमित्यवसेयम ।।
अत्राह-यथा द्रव्यस्यात्मभूतोऽन्वयो धर्मः तथा पर्यायोऽध्यात्मभूतो द्रव्यस्येति तन्निवृत्तिवद् द्रव्यनिवृत्तिकल्पनायामुच्छेदप्रसङ्ग इति; अत्र महे- स्यादेतदेवं यदि क्रमेण पिण्डघटकपालादिवद्रपद्रव्याजीवानुपयोगत्वादिलक्षणः परिणामः कादाचित्कः स्यात् । यतः सत्यपि व्ययोत्पादवत्त्वे पर्यायाणाम्
तद्भावाव्ययं नित्यम् ॥३१॥ किम् अध्यवस्यामः ? द्रव्यमिति वाक्यशेपः । तद्भाव इत्युच्यते । कस्तद्भावः ?
प्रत्यभिज्ञानहेतुता तद्भावः।। "तदेवेदमिति स्मरणं प्रत्यभिज्ञानम , तदकस्मान्न भवति इति योऽस्य हेतुः स तद्भावः । भवनं भावः, तस्य भावस्तद्भावः, येनात्मना प्राग्दृष्टं वस्तु तेनैवात्मना
१ व्ययोत्पादाभ्यां मु०, द०।२ व्ययोत्पादयो-मु०।३ उत्पादध्ययस्वरूपसद्भावात् । । कथमित्युक्त तदेव विवृणोति । पर्यायार्थनयादेशादुत्पादव्यययुक्तं द्रव्यम् , द्रव्यार्थनयादेशात् ध्रौव्ययुक्तमिति विभागकथनस्याविरोधात् एकस्मिन्नपि समये द्रव्यस्य त्रयात्मकत्वं न विरुध्यते । ५ परित्यज्य । ६ अन्यतरभावे-श्र० । • कल्पेत मू०, द०, १०। ८ युष्माकम् । ६ पिपृपुत्र-मु०। १०-विद्र प-मु.। " वस्तु । १२ वस्तुनः।