________________
४६० तत्त्वार्थवार्तिके
[श२४ चनाच्च । अनन्तसमयार्थ पुनः 'कालश्च' इति कर्तव्यमिति चेतन, आकाशस्यानन्ताःकालस्य चेति सिद्धत्वात् । एवं लघीयसा न्यायेन सिद्धे यदुत्तरत्र विदेशे "कालच" [त० सू० ५।३६ ] इति वचनं तेन ज्ञायते नास्ति कालस्य क्रियावत्त्वमिति । तञ्च निष्क्रियत्वं परिस्पन्दात्मिकां क्रियां प्रत्यव
सेयम्, न चास्त्यादिक्रियां प्रति । तस्मादनादिपारिणामिकास्त्यादिक्रियाद्रव्यार्थादेशात् स्यात् ५ क्रियावान् कालः । देशान्तरप्रापणसमर्थपरिस्पन्दक्रियाविशेषपरिणामाभावादेशाच्च स्यानिष्क्रियः ।
सा दशप्रकारा प्रयोगबन्धाभावच्छेदाभिघातावगाहन गुरुलघुसंचारसंयोगस्वभावनिमित्तभेदात् ।२१। सैषा क्रिया दशप्रकारा वेदितव्या । कुतः प्रयोगादिनिमित्तभेदात् , तद्यथा इष्वेरण्डबीजमृदङ्गशब्दजतुगोलकनौद्रव्यपाषाणालाबू सुराजलदमारुतादीनाम । इषुचक्रकणयादीना
प्रयोगगतिः । एरण्डतिन्दुकबीजानां बन्धाभावगतिः। मृदङगभेरीशङ्खादिशब्दपुद्गलानां छिन्नानां १० गतिः छेदगतिः । जतुगोलककन्दुदारुपिण्डादीनाम् अभिघातगतिः । नौद्रव्यपोतकादीनाम् अवगाह
नगतिः। पाषाणायःस्फालानां गुरुगतिः । अलाबूद्रुताकतूलादीनां लघुगतिः । सुरासौवीरकादीनां संचारगतिः। 'जलदरथमुशलादीनां वायुवाजिहस्त्यादीनां संयोगनिमित्ता संयोगगतिः । मारुतपावकपरमाणुसिद्धज्योतिष्कादीनां स्वभावगतिः । वायोः केवलस्य तिर्यग्गतिः । भस्वादियोगाद
नियता गतिः। अग्नेरूर्ध्वगतिः कारणवशाहिगन्तरगतिः। परमाणोरनियता। सिद्ध्यतामूवं१५ गतिरेव । ज्योतिषां नित्यभ्रमणं नृलोके ।
मत्वर्थीयप्रयोगादन्यत्वं शब्दादीनां दण्डवदिति चेत:नः अनेकान्तात ।२२। स्यान्मतमयथा अन्यत्वे सति संबन्धे मत्वर्थीयो दृश्यते दण्डी देवदत्त इति, तथा अत्रापि मत्वर्थीयदर्शनात् शब्दादीनामन्यत्वं तद्वद्भयोऽनुमीयत इति; तन्नः किं कारणम् ? अनेकान्तात् । अनन्यत्वेऽपि लोके मत्वर्थीयो दृश्यते-सारवान स्तम्भः आत्मवान् पुरुषः इति । __कथञ्चित् अन्यत्वोपपत्तश्च ।२३॥ शब्दादीनां पुद्गलेभ्यः भेदार्थादेशात् स्यादन्यत्वम् । शब्दादिपरिणामे च तप्तायःपिण्डवत् तादात्म्यादेशात् स्यादनन्यत्वम् ।
अत्राह-यदि स्पर्शादयश्च शब्दादयश्च पुद्गलपरिणामाः किमर्थमेषां पृथग्ग्रहणं ननु एक एव योगः कर्तव्यः इति ? अत्रोच्यते
पृथग्ग्रहणं केषाश्चिदुभयपर्यायज्ञापनार्थम् ।२४। स्पर्शादयः परमाणूनां स्कन्धानां च २५ भवन्ति शब्दादयस्तु स्कन्धानामेव व्यक्तिरूपेण भवन्ति सौदम्यवा इत्येतस्य विशेषस्य प्रति
पत्त्यर्थं पृयग्योगकरणम् । सौक्ष्म्यं तु अन्त्यमणुष्वेव, आपेक्षिकं स्कन्धेषु । यद्येवं सौदम्यग्रहणं पूर्वसूत्र एवं कर्तव्यम् ? इह करणं स्थौल्यप्रतिपक्षप्रतिपत्त्यर्थम् । ___स्पर्शादीनामेकजातीयपरिणामख्यापनार्थ च ।२५॥ स्पर्शादीनां गुणानां परिणाम एकजातीय
इत्येतस्यार्थस्य ख्यापनार्थ च क्रियते पृथग्रहणम् । तद्यथा-पर्श एको गुणः काठिन्यलक्षणः ३० स्वजात्यपरित्यागेन पूर्वोत्तरस्वगतभेदनिरोधोपजननसन्तत्या वर्तनात्, द्वित्रिचतुःसंख्येयाऽसंख्येया
नन्तगुणकठिनस्पर्शपर्यायै रेव परिणमते न मृदुगुरुलध्वादिस्पर्शः । एवं मृद्वादयोऽपि योज्याः । रसश्च तिक्त एक एव गुणः रसजातिमजहन् पूर्ववन्नाशोत्पादावनुभवन द्वित्रिचतुःसंख्येयाऽसंख्येयानन्तगुणतिक्तरसैरेव परिणमते न कटुकादिरसैः । एवं कटुकादयो वेदितव्याः । गन्धश्च सुरभिरेको गुणः
स्वजातिमजहन्पूर्वववथादिगुणसुरभिगन्धपर्यायै रेव परिणमते नासुरभिगन्धैः । एवमसुरभिगन्धो ३५ वाच्यः । वर्णश्च शुक्ल एको गुणः स्वजात्यपरित्यागेन पूर्ववढ्यादिशुक्लवर्णं रेव परिणमते न नीला
१ प्रदेशाः । २ कालस्य चेति तत्रैवोक्त अनन्ताः समया इति गम्यते । ३ निर्देशे मु । अप्रकृते गुणपर्ययवदाव्यमित्यत्र । ४-हगु-ता०, श्र०, मू०। ५ तुम्बुरस्तिन्दुकः स्फूर्जकः कालस्कन्दश्च शितिसारके। ६ जलधरमु-मु०, द०, ब०। ७ ज्ञानार्थम्-मू०, श्र०, द०, ब० ।