________________
२२४] पञ्चमोऽध्यायः
४८६ परिमण्डलमित्येवमादि संस्थानमित्थंलक्षणम । असोऽन्यन्मेघादीनां संस्थानम् अनेकविधम् इत्थमिदमिति निरूपणाभावात् अनित्थंलक्षणम् ।
भेदः षोढोत्करचूर्णखण्डचूर्णिकाप्रतराणुचटनविकल्पात् ।१४। भेदः पोढा भिद्यते । कुतः ? उत्करादिविकल्पात् । तत्रोत्करः काष्ठादोनां करपत्रादिभिरुत्करणम् । बूर्गो यवगोधूमादीनां सक्तुकणिकादिः । खण्डो घटादीनां कपालशर्करादिः । चूर्णिका माषमुद्गादीनाम् । प्रतरोऽ- ५ भ्रपटलादीनाम् । अणुचटनं तप्तायःपिण्डादिष्वयोधनादिभिरभिहन्यमानेषु स्फलिङ्गनिर्गमः ।
तमो दृष्टिप्रतिबन्धकारणम् ।१४॥ दृष्टेः प्रतिबन्धकं वस्तु तम इति व्यपदिश्यते । यदपहरन् प्रदीपः प्रकाशको भवति ।
छाया प्रकाशावरणनिमित्ता ।१६। प्रकाशावरणं शरीरादि यस्या निमित्तं भवति सा छाया।
द्वधा तद्वर्णादिविकार-प्रतिबिम्बमात्रग्रहणविकल्पात १७ सा छाया द्वधा व्यवति- १० ष्ठते । कुतः ? तद्वर्णादिविकारात् प्रतिबिम्बमात्रग्रहणाञ्च । आदर्शतलादिषु प्रसन्नद्रव्येषु मुखादिच्छाया तद्वर्णादिपरिणता' उपलभ्यते । इतरत्र प्रतिबिम्बमात्रमेव ।
अत्राह-विपरीत'ग्रहणं कुतः, प्राङ्मुखस्य प्रत्यङमुखा छाया दृश्यते इति ? प्रसन्नद्रव्यपरिणामविशेषाद्भवति। अत्र चोर्यते-नादर्शतलादिच्छायासद्भावः । किं तर्हि ? 'नयननिर्गतेन रश्मिना घनद्रव्यात् प्रतिहतनिवृत्तेन स्वमुखस्यैव ग्रहणम्' इति; तदयुक्तम् । विपर्यासग्रहणाभाव- १५ प्रसङ्गात्, कुड्यादिषु अतिप्रसङ्गात् , ग्रहणशक्त्यभावाच । विपर्यासग्रहणाभावप्रसङ्गस्तावत् यदि प्रतिनिवृत्तेन नयनरश्मिना स्वशरीरस्यैव ग्रहणं प्राङ्मुखस्य प्राङ्मुखमित्येव ग्रहणं स्यात् , विपर्यासहेत्वभावात् । कुड्यादिषु चातिप्रसन्गः स्यात् , नयनरश्मेः प्रतिघातस्य तत्रापि सद्भावात् । नाप्यसौ नयनरश्मिः शरीरानिष्कान्तः मनसाऽनधिष्ठितो ग्रहीतुं शक्नोति ।
आतप उष्णप्रकाशलक्षणः ।१८। आतप आदित्यनिमित्त उष्णप्रकाशलक्षणः पुद्गलपरिणामः । २० उद्योतश्चन्द्रमणिखद्योतादिविषयः ।१९। चन्द्रमणिखद्योतादीनां प्रकाश उद्योत उद्यते"।
क्रियोपसंख्यानं पुद्गलपरिणामादिति चेत्, न धर्माधर्माकाशानां क्रियाप्रतिषेधासंबन्धेनोक्तत्वात् ।२०। स्यादेतत्-क्रिया उपसंख्यातव्या । कुतः ? पुदलपरिणामादिति; तन्न; किं कारणम् ? धर्माधर्माकाशानां क्रियाप्रतिषेधसंबन्धेनोक्तत्वात् ।
कालस्यापि क्रियावत्त्वप्रसङ्ग इति चेत् ; न; पूर्वत्रानभिधानात् ।२१। स्यान्मतम्-यदि २५ धर्माधर्माकाशानां क्रियापरिणामप्रतिषेधात् सामर्थ्यात् पुगलानां क्रियावत्त्वमवसीयते, ननु कालस्यापि क्रियावत्त्वं प्रसज्यत इति; तन्नः किं कारणम् ? पूर्वत्र अनभिधानात् “अजीवकाया धर्माधर्माकाशपुद्गलाः" [त० सू० ५।१] इत्यत्र । तत्र हि पाठे “आ आकाशादेकद्रव्याणि, निष्क्रियाणि" [त. सू० ५/६-७] इत्यतः कालस्य बहिर्भावात् पुदलवत् क्रियावत्त्वं भवेत् । अथवा, पूर्वत्रानभिधानात् । कद्रव्याणि जीवाः कालश्चेति । यदि कालस्य क्रियावत्त्वमिष्टं भवेत् तत्र पठ्यत, ३० तथा सति "जीवाश्च" [त. सू० ५।३] इति चशब्दाकरणात् लघुसूत्रं स्यात् , पुनः 'कालश्च' इत्यव
.१ प्रतिबन्धमा-१०, म, द०। २ प्रतिबन्धमा-द०, १०। ३ देवदत्तमुखस्य श्यामत्वादि । प्रतिबन्धमा-०। ५-रीतं प्र-श्र०। ६ अत्र प्रतिवाक्यमुच्यते। - "अत्र अमो यदा तावज्जले सौर्येण तेजसा । स्फुरता चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितम् ॥ स्वदेशमेव गृह्णाति सवितारमनेकधा । भिन्नमूर्ति यथापात्रं तदास्यानेकता कुतः ॥"-मी० श्लो. शब्दनि० श्लो. १८०-10१। ८ आदर्शादि ।
प्रारमुखमेव प्र-मु०,१०।१०-ताना-श्र०।११ उच्यते-मु०, मू०, ता०, द०। वद् व्यक्तायां बाचि। १२-वरवमनुमीयते मु० । १३ केल्याशङ्कायामाह।