________________
१
४८८ तत्त्वार्थवार्तिके
[१२४ आलपनबन्धः । अनेकार्थत्वात् धातूनां लपिः आकर्षणक्रियो ज्ञेयः । कुड्यप्रासादादीनां मृत्पिण्डेष्टकादिभिः प्रलेपदानेन अन्योन्या लेपनात् अर्पणात् आलेपनवन्धः । धातूनामनेकार्थत्वात् आङपूर्वस्य लिपः अर्पणक्रियस्य ग्रहणम् । जतुकाष्ठादिसंश्लेषणात् संश्लेषबन्धः। शरीरबन्धः पञ्चधा-औदारिकवैक्रियिकाहारकतैजसकार्मणशरीरनोकर्मबन्धभेदात् । स प्रत्येकं चतुश्चतुश्चतुर्दूि५ रेकभङ्गभेदात् पञ्चदशधा । तत्रौदारिकशरीरनोकर्मप्रदेशानामौदारिकशरीरनोकर्मप्रदेशैरन्यो
विशात् औदारिकौदारिकशरीरनोकर्मबन्धः प्रथमः । औदारिकतैजसशरीरनोकर्मप्रदेशानाम् अन्योन्यानुप्रवेशाद् औदारिकतैजसशरीरनोकर्मबन्धो द्वितीयः । औदारिकर्कामणशरीरनोकर्मप्रदेशानामन्योन्यानुप्रवेशः औदारिककार्मणशरीरनोकर्मबन्धस्तृतीयः । औदारिकतैजसकार्मणशरीरनोकर्मदेशानामन्योन्यानुप्रवेशः औदारिकतैजसकार्मणशरीरनोकर्मबन्धश्चतुर्थः । अनेन विधिना वैक्रियिकवैक्रियिकशरीरनोकर्मबन्धः वैक्रियिकतैजसशरीरनोकर्मबन्धः वैक्रियिककार्मणशरीरनोकर्मबन्धः वैक्रियिकतैजसकार्मणशरीरनोकर्मबन्धः। आहारकाहारकशरीरनोकर्मबन्धः आहारकतैजसशरीरनोकर्मबन्धः आहारककार्मणशरीरनोकर्मबन्धः आहारकतैजसकार्मणशरीरनोकर्मवन्धः । तैजसतैजसशरीरनोकर्मबन्धः तैजसकार्मणशरीरनोकर्मबन्धः । कार्मण
कार्मणशरीरनोकर्मबन्धश्च योज्यः । शरीरिबन्धो द्वेधा-अनादिरादिमांश्च । अष्टजीवमध्यप्रदेशाना१५ मुपर्यधश्चतुर्णा रुचकवदवस्थितानां सर्वकालमन्योन्यापरित्यागात् अनादि वन्धः । इतरेपा प्रदे
शानां कनिमित्तसंहरणविसर्पणस्वभावत्वादादिमान् । अथवा, यथा क्रोधपरिणत आत्मैव क्रोधः तथा तप्तायःपिण्डवत् शरीरेण सह बन्धं प्रत्यात्मनः एकत्वादात्मैव शरीरमिति व्यपदेशात् पूर्वोक्ताः पञ्चदश विकल्पाः शरीरिविषयत्वेन योज्याः। औदारिकादिशरीरभेदार्पणात् प्रागुक्ता विकल्पाः।
अत्राह-कर्मनोकर्मणोः कः प्रतिविशेष इति ? उच्यते-आत्मपरिणामेन योगभाषलक्षणेन क्रियत इति कर्म । तदात्मनोऽस्वतन्त्रीकरणे मूलकारणम् । तदुदयापादितः पुद्गलपरिणाम आत्मनः सुखदुःखबलाधानहेतुः औदारिकशरीरादिः ईषत्कर्म नोकर्मेत्युच्यते । किञ्च, स्थितिभेदाद्भेदः । कर्मणां स्थितिरुत्तरत्र वक्ष्यते । नोकर्मणां स्थितिरुच्यते-औदारिकवैक्रियिकशरीरयोः
स्वायुःप्रमाणस्थितिनिषेकः। तत्रौदारिकशरीरस्य त्रिपल्योपमा स्थितिः, यस्मादेकसमयादारभ्य आ२५ त्रिपल्योपमसमाप्तरवस्थानम् । वैक्रियिकशरीरस्य त्रयस्त्रिंशत्सागरोपमा स्थितिः, यस्मादेकसमय
निषेकादारभ्य त्रयस्त्रिंशत्सागरोपमान्त्यसमयावस्थानम् । आहारकशरीरस्य अन्तर्मुहर्तपरिमाणा स्थितिः। तैजसशरीरस्य षट्षष्टिसागरोपमा स्थितिः । कार्भणशरीरस्य कर्मस्थितिः ज्ञानावरणाद्यनेककर्म स्थतिसंभवेऽप्यात्मीयैव कर्मस्थिति ह्या। औदारिकवैक्रियिकतैजसकार्मणशरीरकर्मणा
मेकैकस्य विंशतिसागरोपमकोटीकोट्यः स्थितिः। आहारकशरीरकर्मणोऽन्तःकोटीकोख्यः स्थितिः । ३० सौम्यं द्विविधम् अन्त्यमापेक्षिकं च ।१०। सौक्ष्म्यं द्विविधं वेदितव्यम । कुतः ? अन्त्यम आपेक्षिकं चेति । तत्राऽन्त्यं परमाणूनाम् । आपेक्षिकं बिल्वामलकबदरादीनाम ।
तथा स्थौल्यम् ॥११॥ तेनैव प्रकारेणान्त्यम् आपेक्षिकं चेति द्विविधं स्थौल्यमवगन्तव्यम् । तत्रान्त्यं स्थौल्यं जगद्व्यापिनि महास्कन्धे । आपेक्षिकं बदरामलकबिल्वतालादिपु ।
संस्थान द्वेधा-इत्थंलक्षणम् अनित्थंलक्षणं च ।१२। संस्थानमाकृतिधा भिद्यते-इत्थं३५ लक्षणम् , अनित्थंलक्षणं चेति ।
वृत्तभ्यनचतुरस्त्रायतपरिमण्डलादि इत्थमतोऽन्यदनित्थम् ।१३। वृत्तं व्यत्रं चतरसमायतं
१-न्यालयना-ता०, श्र०, मू० । २ आलयनब-ता०, श्र०, मृ० । ३ लिङ:-ता०, श्र०, मू०, द० । लि-ता०, श्र०, मु०। ४-दिसम्बन्धः मु०, द०। ५ सह सम्बन्धं प्र-श्र० । सह बन्धे सत्या-द। ६ शरीरिगन्धः । ७ शरीरवि-मू०, ता०, १०, द० । ८ अष्टविधम् ।