________________
४८७
श२४]
पञ्चमोऽध्यायः न्य विशेषत्यार्थान्तरभूतत्यानभ्युपगमात् । 'कर्मणोऽपि द्रव्यादपृथग्भूतस्य द्रव्यार्थावस्थानाभ्युपगमात् ।
किश्च, अभिव्यञ्जकाभिव्यङ्ग्यवैधात् । यथा मूर्तः क्रियावान् प्रदीपोऽभिव्यञ्जकः तथङ्ग्याश्च घटादयः क्रियावन्तो मूर्तिमन्तो दृष्टाः, न च तथा
क्रयावांश्च, तद्वयङ्ग्यः । स्फोटोऽपि न तद्धर्मः ततोऽभिव्यक्तथभावः ।
किञ्च, स्फोटः ध्वनेरन्यो वा स्यात् , अनन्यो वा ? यद्यनन्यः; तादात्म्यं प्राप्नोति, व्यग्यत्वाभावश्च भेदाभावात् । अथान्यः; तस्य श्रोत्रोपलभ्यत्वाभावः।
किश्च, व्यङ्ग्यत्वे सति अनित्यत्वं स्यात् स्फोटरय घटादिवत् विज्ञानेन व्यङग्यत्वात् । आकाशादेव्यभिचार इति चेत् ;न; मूर्तिमा व्यङ्ग्यत्वादिति विशेष्यवचनात् । किञ्च, यस्य व्यङग्यत्वं तस्य कार्यत्वपि दृष्टं यथा घटादेः । न तथा स्फोटस्य कार्यत्वमस्ति नित्यत्वाभ्युपगमा- १० दिति व्यङ्ग्यत्वाभावः। महदादिवदिति चेत् ; साध्यसमत्वात् , यथा महदादि व्यङ्ग्यमेव न कार्य तथा स्फोटोऽपीति; तन्न; साध्यसमत्वात । यथेदं स्फोटस्य व्यङग्यत्वं साध्यं तथा महदादेरपीति ।
किञ्च, दृष्टान्ताभावात् । न चामूर्तः कश्चिन्नित्यो निरवयवों मूर्तिमताऽनित्येन सावयवेन व्यङ्ग्या दृष्टः, तदभावात् साध्यसिद्धयभावः । तस्मात् ध्वनिरूप एव शब्दो द्विशक्तिरभ्युपगन्तव्यः । स च पुदलद्रव्यार्थादेशात्ततोऽनन्यत्वात् स्यान्नित्यः श्रोत्रोपलभ्यपर्यायसामान्यस्थि- १५ त्यपेक्षया कालान्तरस्थायी, प्रतिसमयस्थितिभेदापेक्षया क्षणिक इति च जैनेश्वरदर्शनमनवद्यम् ।
वन्धोऽपि द्विधा विसाप्रयोगभेदात् ।। बन्धश्च द्वैविध्यमश्नुते । कुतः ? विस्रसा-प्रयोगभेदात् । वैनसिकः प्रायोगिकश्चेति ।।
आद्यो उधा आदिमदनादिविकल्पात ७ आया वैनसिको बन्धो द्विधा भिद्यते । कुतः ? आदिमदनादिविकल्पान् । तत्रादिमान स्निग्धरूक्षगुणनिमित्तः विद्युदुल्काजलधाराग्नीन्द्रधनुरादि- २० विपयः । अनादिरपि वैनसिकवन्धी धर्माधर्माकाशानामेकशः त्रैविध्यान्नवविधः । धर्मास्तिकायवन्धः धर्मास्तिकायदेशबन्धः धर्मास्तिकायप्रदेशबन्धः । अधर्मास्तिकायबन्धः अधर्मास्तिकायदेशवन्धः अधर्मास्तिकायप्रदेशवन्धः । आकाशास्तिकायवन्धः आकाशास्तिकायदेशबन्धः आकाशास्तिकायप्रदेशबन्धश्चति । कृत्स्ना धर्मास्तिकायः, तदर्ध देशः, अर्धाध प्रदेशः । एवमधर्माकाशयोरपि । कालाणनामपि सततं परम्परविश्लपाभावात अनादिः । एकजीवप्रदेशानां च संहरणविसर्पणस्व- २५ भावत्वेऽपि परम्परवियोगाभावात अनादिर्वन्धः। धर्माधर्मकालाकाशानां परस्परवियोगाभावात् अनादिर्वन्धः । नानाजीवानामपि सामान्यापेक्षया इतरयः सह सम्बन्धोऽनादिः । पुद्गलद्रव्येप्वपि महास्कन्धादीनां सामान्यादनादिवन्धः । एवं सर्वव्यविपये बन्धे सति पुद्गलप्रकरणात् तद्विपयो वन्धः परिगृह्यते ।
विनसा विधिविपर्यये निपातः ।। पौरुषेयपरिणामापक्षो विधिः, तद्विपर्यये विस्रसाशब्दो ३० निपाता द्रष्टव्यः । विससा प्रयोजनो वैनसिको बन्धः ।।
प्रयोगः पुरुषकायवाङ्मनःसंयोगलक्षणः ।।। पुरुपस्य कायवाङ्मनःसंयोगः प्रयोग इत्युच्यते । "प्रयोगप्रयोजनो बन्धः प्रायोगिकः । स द्वधा अजीवविषयो जीवाजीवविषयश्चेति । तत्राजीवविपयो जतुकाष्टादिलक्षणः । जीवाजीवविषयः कर्मनोकर्मबन्धः। कर्मबन्धो ज्ञानावरणादिग्टतयों" वक्ष्यमाणः । नोकर्मवन्धः औदारिकादिविपयः । स पुनः पञ्चविधः-आलपनाऽऽले"- ३५ पनसंश्लेषशरीरशरीरिभेदात । रयशकटादीनां लोहरज्जुवरत्रादिभिरालपनादाकर्षणात् बन्धः
. सत्तासामान्यस्य । २ व कहिपतस्य । ३ अस्माकम् । १ व्यापारस्यापि । ५ मूर्तादिधर्मा न भवति । ६-तां व्य-ता०, श्र०। ७ दीपादिकरण स्य घटादेर श्यत्वादि कारम् । ८ सय । । बन्धोऽपि द्वि-मु० । १० प्रयोगः प्रयो-ता०, श्र० । ११-धा व-मु०, द०, ब०।१२-नालयनसं-ता०,०, मू०।