________________
५।२४]
पञ्चमोऽध्यायः
४८५
तिक्तकटुकाम्लमधुरकषाया रसप्रकाराः।। तिक्तादयः पञ्च रसप्रकाराः वेदितव्याः । गन्धः सुरभिरसुरभिश्च ।।। गन्धो द्विविधः-सुरभिरसुरभिश्चेति ।
वर्णाः पञ्चधा नीलपीतशुक्लकृष्णलोहितभेदात् ।१०। नीलादिभिः पञ्चभिः प्रकारैः वर्णा भिद्यन्ते । एपांच स्पर्शनादीनामेकैकस्य एकद्वित्रिचतुःसंख्येयाऽसंख्येयानन्तगणपरिणामोऽवसेयः ।
सकलरूपादिद्रव्यधर्मनिर्देशात् अवशिष्टविशेषप्रतिपत्त्यर्थमाह
शब्दबन्धसौम्यस्थौल्यसंस्थानभेदनमश्छायातपो
द्योतवन्तश्च ॥ २४ ॥
-
०
शब्दादीनामभिहितनिर्वचनानां परिप्राप्तद्वन्द्वानां मतुना अभिसंबन्धः ।। शब्दादीनां निर्वचनेन प्रतिलब्धार्थानां परस्परापेक्षायां सत्यां द्वन्द्वं कृत्वा मतुना संबन्धो योजयितव्यः । तद्यथा-शपत्यर्थमाह्वयति प्रत्याययति, शप्यते येन, शपनमात्रं वा शब्दः । वध्नाति, बध्यतेऽसौ, १० बध्यतेऽनेन, बन्धनमात्रं वा बन्धः। लिङ्गेन आत्मानं सूचयति, सृच्यतेऽसौ, सृच्यतेऽनेन, सूचनमात्र वा सूक्ष्मः, सूक्ष्मस्य भावः कर्म वा सौक्ष्म्यम् । स्थूलयते परिवृंह यति, स्थूल्यतेऽसौ, स्थूल्यतेऽनेन, स्थूलनमात्रं वा स्थूलः । स्थूलस्य भावः कर्म वा स्थौल्यम् । संतिष्ठते, संस्थीयतेऽनेनेति, संस्थितिर्वा संस्थानम् । भिनत्ति, भिद्यते, भेदनमात्रं वा भेदः । पूर्वोपात्ताशुभकर्मादयात् ताम्यति आत्मा, तम्यतेऽनेन, तमनमात्रं वा तमः । पृथिव्यादि घनपरिणाम्युपश्लेषात् दहादिप्रकाशावरण- १५ तुल्याकारेण छिद्यते, छिनत्त्यात्मानमिति वा छाया। असवद्योदयात् आतपत्यात्मानम् , आतप्यतेऽनेन, आतपनमात्रं वा आतपः। निरावरणमुद्योतयति, उद्योत्यतेऽनेन, उद्योतनमानं वा उद्योतः । शब्दश्च बन्धश्च सौक्ष्म्यं च स्थौल्यं च संस्थानं च भेदश्च तमश्च छाया च आतपश्च उद्योतश्च शब्दबन्धसौम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योताः, ते येप सन्ति ते शब्दबन्धसोक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तः ।
शब्दो द्वेधा भाषालक्षणविपरीतत्वात् ।२। शब्दो द्वधा व्यवतिष्ठते । कुतः ? भापालक्षणविपरीतत्वात्-भाषालक्षणो विपरीतश्चेति ।
भाषात्मक उभयथा अक्षरीकृतेतरविकल्पात् ।। तत्र भाषात्मकः शब्दः उभयथा कल्प्यते । कुतः ? अक्षरीकृततरविकल्पात् । अक्षरीकृतः शास्त्राभिव्यञ्जकः संस्कृतविपरीतभेदात् आर्यम्लेच्छव्यवहारहेतुः । अवर्णात्मको द्वीन्द्रियादीनाम , अतिशयज्ञानस्वरूपप्रतिपादनहेतुश्च । स २५ एव सर्वः प्रायोगिकः ।
___ अभाषात्मको द्वेधा प्रयोगविनसानिमित्तत्वात् ।४ । अभाषात्मकः शब्दो द्वेधा विभज्यते । कुतः ? प्रयोगविस्रसानिमित्तत्वात् । तत्र वैनसिको वलाहकादिप्रभवः । ... - प्रयोगश्चतुर्धा ततविततघनसौषिरभेदात् ।। प्रयोगजः शब्दः चतुर्धा भिद्यते। कुतः ? ततविततघनसौषिरभेदात् । तत्र चर्मतननात्ततः पुष्करभेरीदर्दुरादिप्रभवः। विततः तन्त्रीकृतो वीणा- ३० सुघोषादिसमुद्भवः । घनस्तालघण्टालालनाद्यभिघातजः । सौषिरो वंशशखादिनिमित्तः। स शब्दः आकाशगुणः इति केषाश्चित् दर्शनम् । तदयुक्तमित्युक्तं पुरस्तात् । .
शापयति । २ -दिपस्-िश्र० । ३ वैशेषिकाणाम्-स० ।