________________
४८४
तत्त्वार्थवार्तिके
[२२३ मुख्यकालसिद्धिः इत्युक्तम् । अथ किमर्थं परत्वापरत्वयोः पृथग्रहणम् , वर्तनापरिणामक्रियापरत्वापरत्वानीत्येवं वक्तव्यम् ?
परत्वापरत्वयोः पृथग्रहणं परस्परापेतत्वात् ।२८। परत्वापरत्वे पृथग्गृह्यते । कुतः ? परस्परापेक्षत्वात् । परत्वं ह्यपेक्ष्यापरत्वं भवति, अपरत्वं चापेक्ष्य परत्वमिति ।
अथ किमर्थ वर्तनाग्रहणमादौ क्रियते ?
वर्तनाग्रहणमादौ अभ्यर्हितत्वात् ।२६। वर्तनाग्रहणमादौ क्रियते । कुतः ? अभ्यहिंतत्वात् । कथमभ्यर्हितत्वम् ? वर्तनापूर्वकत्वात् परमार्थकालप्रतिपत्तेः। तन्निमित्तत्वात् व्यवहारकाललिङ्गस्याप्राधान्यम् ।
अत्राह- उक्तं भवता शरीरादीनि पुद्गलानामुपकार इति, 'तन्त्रान्तरीया जीवं परिभाषन्ते, १० तत्कथमिति ? अत्रोच्यते
स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥ २३ ॥ स्पर्शग्रहणमादौ विषयबलदर्शनात् ।। स्पर्शग्रहणमादौ क्रियते । कुतः ? विषयबलदर्शनात् । सर्वेषु हि विपयेयु स्पर्शस्य बलं दृश्यते । स्पृष्टमाहिष्विन्द्रियेषु स्पर्शस्यादौ ग्रहणव्यक्तिः,
सर्वसंसारिजीवग्रहणयोग्यत्वाश्च । १५ रसप्रसङ्ग इति चेत् ; न स्पर्श सति तलावात् ।। स्यान्मतम्-यदि विषयबलात् आदौ स्पर्शाऽधीतः, ननु विषयबलत्वात् आदौ रस एवाध्येयः । स्पर्शसुखनिरुत्सुकेष्वपि रसव्यापारदर्शनादिति; तन्नः किं कारणम् ? स्पर्शे सति तद्भावात् , तत्रापि सति स्पर्श रसव्यापार इति स्पर्शग्रहणमेवादौ ज्यायः। तत एवानन्तरं रसवचनं स्पर्शग्रहणानन्तरभावितत्वात् (भावित्वान्) रसग्रहणस्य, तदनन्तरं तद्ग्रहणं क्रियते ।।
वायौ तदभावात् व्यभिचार इति चेत् ; न तत्राप्यभ्युपगमात् ।। स्यादेतत्-वायुः स्पर्शवान इति तदनातरं रसग्रहगाभावात् व्यभिचार इति; तन्न; किं कारणम् ? तत्राप्यभ्युपगमात् । रूपादयो हि स्पर्शाविनाभाविनः घटादिष्विव वायावप्यभ्युपगम्यन्ते । स्पर्शवत्तत्र सतां रूपादीनामपि ग्रहणं कस्मान्नेति चेत् ? स्थूलविषयग्राहित्वाच्चक्षुरादीनां घ्राणेन्द्रियविषयवत् वायौ सता
मपि रूपादीनामग्रहणम् । २५ रूपात् प्राग् गन्धवचनम् अचाक्षुषत्वात् ।४। रूपात् प्राक् गन्धवचनं क्रियते । किं कारणम् ? अचाक्षुषत्वात् ।
अन्ते वर्णग्रहणं स्थोल्ये सति तदुपलब्धेः ॥५॥ सर्वेषामन्ते वर्णग्रहणं क्रियते । कुतः ? स्थौल्ये सति तदुपलब्धेः।
नित्ययोगे मतुविधानम् ।६। स्पर्शश्च रसश्च गन्धश्च वर्णश्च स्पर्शरसगन्धवर्णास्ते येषां सन्ति ते स्पर्शरसगन्धवन्तः इति नित्ययोगे मतुविधानं द्रष्टव्यम् । यथा क्षीरिणो न्यग्रोधा इति क्षीरेण नित्ययोगात् मत्वर्थीयविधानम् , तथा अनादिपारिणामिकस्पर्शादिगुणसामान्यनित्ययोगे मतुरिति । स्पर्शादीनामनन्तपर्यायत्वेऽपि मौलभेदप्रसिद्ध्यर्थमितः क्रियते ।
मृदुकठिनगुरुलघुशीतोष्णस्निग्धरूक्षस्पर्शभेदाः । एते मृद्वादयोऽष्टौ स्पर्शस्य मूलभेदा द्रष्टव्याः ।
३०
चार्वाकादयः । २ यतिषु । ३ सद्भावात् ता०, श्र० ।