________________
श२२]
पञ्चमोऽध्यायः
४८३
धानमकस्मान्न भवति । यथा देवदत्तसंज्ञया निरूढे पिण्डे दण्ड्यभिधानमकस्मान्न भवतीति दण्डसंबन्धसिद्धिः, तथा कालसिद्धिरपि । इतरथा कालव्यवहाराभावप्रसगः स्यात् । . वर्तमानाभावप्रसङ्गाच्च ।२७। यस्य क्रियामात्रमेव कालो नान्यः कश्चिदस्ति वर्तनालक्षणः, तस्य वर्तमानकालाभावः प्रसक्तः। कथम् ? ऊयते पट इति यः प्रक्षिप्तस्तन्तुः सोऽतिक्रान्तः, यः प्रक्षेप्स्यते सोऽनागतः, न च तयोरन्तरे काचिदन्या अनतिक्रान्ताऽनागामिनी क्रिया अस्ति या वर्त- ५ मानत्वेन परिगृह्यत । वर्तमानापेक्षौ च पुनरतीतानागताविष्येते 'तदभावे तयोरप्यभावः स्यात् । यदप्युक्तम्-आरम्भादिरपवर्गान्तः क्रियाकलापो वर्तमान इति ।
"आरम्भाय प्रसृताः यस्मिन् काले भवन्ति कारः ।
कार्यस्यानिष्ठातः तन्मध्यम कालमिच्छन्ति ॥" [ ] इति; तदप्ययुक्तम्। कुतः ? अभ्युपगमविरोधात् । पूर्व क्रियाकाल इत्युक्तं पश्चात् क्रियासमूह १० इति । क्षणिकानां क्रियावयवानां समूहाभावाच्च । यस्य पुनरन्यो वर्तनालक्षणः कालः, तस्य प्रथमसमयक्रियावर्तनया आरम्भमुपादाय द्वितीयादिसमयक्रियाविशेषाणां द्रव्यार्थतयाऽवस्थानमनुभवतां समुदायमुपचये तत्समूहसाध्यस्य घटादेरापरिसमाप्तर्वर्तते घटादिक्रियेति वर्तमानकालसिद्धिः कल्प्यते । यदि व्यतिरेकेणानुपलब्धेः कालो नास्तीत्युच्यते; ननु क्रियायाः क्रियासमूहस्य चाभावः । कारकाणां हि प्रवृत्तिविशेषः क्रिया, न तेभ्यः प्रवृत्तिर्व्यतिरिक्ता उपलभ्यते । यथा सर्पात्म- १५ लाभ एव कौटिल्यं न तत्तस्माद् व्यतिरिक्तमुपलभ्यते एवं क्रियापीति । तथा क्रियावयवेभ्यो व्यतिरिक्तो न तत्समूह उपलभ्यते तदात्मकत्वात् , अतस्तयोरभावप्रसङ्गः स्यात् । किञ्च, क्रिया क्रियान्तरस्य परिच्छेदिका कालव्यपदेशभागित्यनुपपन्नम अनवस्थानात् । स्थितो हि लोके प्रस्थादिः परिमाणविशेषः ब्रीह्यादेवस्थितस्य परिच्छेदको दृष्टः । न च तथा क्रियाऽवस्थिता अस्तिक्षणमात्रावलम्बनाभ्युपगमात् । न हि स्वयमनवस्थितः कश्चिदनवस्थितस्य परिच्छेदको दृष्टः । २० प्रदीपपरिस्पन्दवत् इति चेत् ; यथा प्रदीपोऽनवस्थितः परिस्पन्दस्यानवस्थितस्यैव परिच्छेदे वर्तते तथा क्रियापीति; एतच्चायुक्तम् । असिद्धत्वात् । प्रदीपः परिस्पन्दश्च क्षणिक इति नास्माभिरभ्युपगम्यते स्वकार्यस्य प्रकाशनादेरनेकक्षणसाध्यत्वात् । समूहस्य परिच्छेद्यपरिच्छेदकभावादिति चेत्, न; क्षणिकानां समूहाभावात् । शब्दवदिति चेत् ; न; यथा क्षणिकानां वर्णध्वनीनां समुदायः पदवाक्यरूपः तथा क्रियावयवानामिति; "एतदप्यसाम्प्रतम् असिद्धत्वादेव । न हि वर्णध्वनयः २५ क्षणिकाः; देशान्तरस्थश्रोतृविषयभावापत्तिदर्शनात्। "शब्दान्तरारम्भात् तत्प्रतिसिद्धिरिति चेत् । न; क्षणिकस्यारम्भशक्तिविरहात् । यस्मिन् क्षणे स्वयमात्मलाभमापद्यते न तदाऽन्यमुत्पादयति असत्त्वात् , उत्तरक्षणे च नारभते उत्पत्त्यनन्तरापवर्गित्वात् । आसन्नसदवस्थाको हि क्षण उत्पत्तिकाल इति व्यपदिश्यते, उत्तरकालमस्य सत्त्वं नास्ति इत्युत्पत्तिव्यवहार एव न स्यात् ।
"पूर्वविज्ञानाहितसंरकारबीजाधारभूतायां बुद्धौ समुदायकल्पनेति चेत् ; न; तस्या अपि तादा- ३० त्म्यात् । यस्य तु द्रव्यार्थादेशात् स्यान्नित्या क्रिया पर्यायार्थादेशाच स्यादनित्या बुद्धिरपि; तस्य वस्तुनि बुद्धौ च क्रियावयवसमूहस्य शक्तिव्यक्तिस्वरूपेण व्यवस्थितस्य कालवर्तनया प्रतिलब्धकालव्यपदेशस्य परिच्छिन्नस्यान्यपरिच्छेदे वृत्तिरुपपद्यते इति व्यवहारकालसिद्धिः। तत्प्रसिद्धौ च
वर्तमानाभावे । २ अस्माकमपि वर्तमानकालोऽस्तीति वदन्तं सांख्यं प्रत्याह। ३ उचताः ५ वर्तमानमित्यर्थः । ५ स्याद्वादिनः । ६ परिणामादेः । ७ न तु तत्त-मु०, द० ब०। ८ वंशादेः। शिखारूपेण राणप्रतिषणं गलनसद्भावात् । १० चेत् पणि-श्र०।" तदसा-श्र०। १२ न्यायवादिमतमाश्रित्याह बौदः। १३ पर्याप्तिकः । १४ "नादेनाहितबीजायामन्त्येन ध्वनिना सह । आवृत्तिपरिपाकायां बुद्धौ शब्दोप्रभासते ॥"-वाक्यप० १८५।