________________
४८२
तत्त्वार्थवार्तिके
[२२२
कालद्वैविध्यप्रदर्शनार्थत्वात् प्रपञ्चस्य । द्विविधः कालः-परमार्थकालः व्यवहाररूपश्चेति । तत्र परमार्थकालः वर्तनालिङ्गः गत्यादीनां धर्मादिवत् वर्तनाया उपकारकः । स किंस्वरूप इति चेत् ? उच्यते-यावन्तो लोकाकाशे प्रदेशास्तावन्तः कालाणवः परस्परं प्रत्यबन्धाः एकैकस्मिन्नाकाशप्रदेशे एकैकवृत्त्या लोकव्यापिनः मुख्योपचारप्रदेशकल्पनाऽभावान्निरवयवाः । मुख्यप्रदेशकल्पना हि धर्माधर्मजीवाकाशेषु पुदलेषु च द्वयणुकादिषु स्कन्धेषु । परमाणुपपचारप्रदेशकल्पना, 'प्रचयशक्तियोगान् । उभयथा च कालाणूनां प्रदेशकल्पनाऽभावात् , धर्मास्तिकायादिवत कायत्वाभावः । अत एव विनाशहेतुत्वाभावात नित्याः । परप्रत्ययोत्पादविनाशसद्भावादनित्याः । सूचीसूत्रमार्गाकाशच्छिद्रवत् परिच्छिन्नमूर्तित्वेऽपि रूपादियोगाभावात् अमूर्ताः । निष्क्रियाश्च प्रदेशान्तर
संक्रमाभावात् । व्यवहारकालः परिणामादिलक्षणः । कालवर्तनया लब्धकालव्यपदेशः, कुतश्चिन १० परिच्छिन्नः अपरिच्छिन्नस्य परिच्छेदहेतुः ।।
कालवैविध्यसिद्धिः परस्परापनत्वात् ।२५॥ भूता वर्तमानो भविष्यन्निति त्रिविधः कालः सिद्धः । कुतः ? परस्परापेक्षत्वात् । यथा वृक्षपङ्क्तिमनुसरतो देवदत्तस्य एकैकतम् प्रति प्राप्तः प्राप्नुवन प्राप्यन व्यपदेशस्तथा तान कालाणूननुसरता द्रव्याणां क्रमेण वर्तनापर्यायमनुभवतां भूतवर्त
मानभविष्यव्यवहारसद्भावः । तत्र परमार्थकाले भूतादिव्यवहागे गौणः, व्यवहारकाले मुख्यः । १५ परस्परापेक्षश्वासौ-यव्यं क्रियापरिणतं कालपरमाणु प्राप्नोति तद्र्व्यं तेनं कालेन वर्तमान
समयस्थितिसंबन्धवर्तनया वर्तमानः कालः, 'कालाणुरपि वर्तयंस्तद्रव्यमनतिक्रान्तसंबन्धवर्तनात्तदाख्यो भवति । तदेव कालवशात् अनुभूतवर्तनासंबन्धं भूतम, कालाणुरपि भूतः । तदेव वस्य॑स्थितिसंवन्धवर्तनापेक्षं भविष्यदिति व्यपदिश्यते, कालाणुश्च भविष्यन्निति । एवं"
सवितुरनुसमयगतिप्रचयापेक्षया आवलिकोच्छासप्राणतोकलवनालिकामुहूर्ताऽहोगत्रपक्षमासर्व२० यनादिसवितृगतिपरिवर्तनकालवतनया व्यवहारकालो मनुप्यनेत्रे संभवति इत्युच्यते, तत्र ज्यो
तिपां गतिपरिणामान , न बहिः निवृत्तगतिव्यापारत्वान ज्योतिधाम । मनुष्यक्षेत्रसमुत्थन ज्योतिगतिसमयावलिकादिना परिच्छिन्नेन" क्रियाकलापेन' काल वर्तनया कालाख्येन ऊर्ध्वमधस्तिर्यक च प्राणिनां संख्येयाऽसंख्येयाऽनन्तानन्तकालगणनामभेदन कर्मभवकायस्थितिपरिच्छेदः सर्वत्र
जघन्यम यमोत्कृष्टावस्थः क्रियते । २५
१३क्रियामात्रमेव कालस्तव्यतिरेकेणानुपलब्धिरिति चेत् ; न तद्भावे कालाभिधानलोपप्रसङ्गात् ।२६। स्यान्मतम-क्रियामात्रमेव कालः । कुतः ? तद्व्यतिरेकेणानुपलब्धेः। सर्वोऽयं कालव्यवहारः क्रियाकृतः । क्रिया हि "क्रियान्तरपरिच्छिन्ना "अन्यक्रियापरिच्छेदे वर्तमाना कालाच्या भवति । योऽपि समयो नाम भवद्भिरुच्यते स परमाणुपरिवर्तनक्रियासमय एव'काल
सामानाधिकरण्यात । न समयपरिमाणपरिच्छेदकोऽन्यः ततः सूक्ष्मतरः कश्चिदम्ति कालः । तत्स३० मयक्रियाकलाप आवलिका, तत्प्रचय उच्छ्रास इत्यादि समयक्रियाकलापपरिच्छिन्ना आवलिका रचनासपरिच्छेदे वर्तमाना कालाख्या" । एवमुत्तरत्रापि योज्यम । लोकेऽपि तथैव गोदोहेन्धनपाआदिरन्योन्यपरिच्छेदे वर्तमानः कालोख्यः इति क्रियव काल इति; तन्न; किं कारणम् ? तदभावे कालाभिधानलोपप्रसङ्गात् । सत्यम् , क्रियाकृत एवायं व्यवहारः सर्वः-उच्छासमात्रेण कृतं , मुहर्तेन कृतमिति, किन्तु समय उच्छ्रासो निश्वासो मुहूर्तः इति स्वसंज्ञाभिर्निरूढानां काल इत्यभि
१ युतः । २-लच्यः मु०, १० । ३ निश्चय । ४ आवलिकोच्छ्रासादि । ५ घटिकादितः । ६ इति । ७ समयरूपेण । ८ निश्चयकालः । क्रियावद्द्व्य मेव । १० अनेन प्रकारेण, सर्वद्रव्यमेव काल इति प्रतिपादितद्वारेणेत्यर्थः । ११ निश्चितेन । १२ सूर्यस्य । १३ अथ लब्धावकाशः तथागतः प्रत्यवतिष्ठते । १४ आवलिकादिः । १५ समयादि । १६ सासादनकालादि । १७ कालसामान्यसामाना-मु०, द०, ब०। १८ कालाख्यापि ए-श्र०।