________________
२२ ] पञ्चमोऽध्यायः
४७६ परिणाम इति ? तन्न; किं कारगम ? अनेकान्तात् । यथा मनुष्यायुर्नामकर्मोदयादङ्गोपाङ्गपर्यायानास्कन्दन निष्टप्रायःपिण्डवत् अगुल्युपाङ्गपरिणामात् अङ्गुलिरात्मा, अतो वीर्यान्तरायक्षयोपशमापेक्षोऽङगुल्यात्मा संकोचनप्रसारणपर्यायावास्कदन् अनादिपारिणामिकचैतन्यद्रव्यार्थादेशात् स्यात् सन , पौद्गलिकपरिवृत्तावस्थितागुडल्युपाङ्गपर्यायार्थादेशाचे स्यात् सन् , अत एव स्यादनन्यः स्यादवस्थितः । संकोचनप्रसारणपर्यायार्थादेशात् स्यादसन् अत एव स्यादन्यः स्यादनवस्थितः । तथै- ५ केन्द्रियवनस्पतिनामायुरुदयाविप्कृतः आत्मैव बीजपर्यायमास्कन्दन् निष्टप्तायःपिण्डवत् बीजपरिणामात् बीजव्यपदेशभाक । अतः किम ? अनादिपारिणामिकचैतन्यद्रव्यार्थादेशात् स्यात् सन् , पौगलिकशालिजात्येकेन्द्रियरूपरसशब्दस्पर्शपर्यायार्थादेशाच्च स्यात् सन , अत एव स्यादनन्यः स्यादवस्थितः । पौगलिकशालिबीजपर्यायार्थादेशात् स्यादसन् , अत एव स्यादन्यः स्यादनवस्थितः । इत्येवमनेकान्ताश्रयणादेकान्तपक्षदोषानुषङ्गाभावः।
___ वृद्धयभावप्रसङ्ग इति चेत् ;न; अन्यहेतुत्वात् । १५॥ स्यादेतत्-नास्ति परिणामः । कुतः ? वृद्धयभावप्रसङ्गात् । यदि बीजमङ्करत्वेन परिणमेतः बीजमात्र एवाङ्करः स्यात् पयःपरिणामदधिवत् , ततो वृद्धयभावः । उक्तं च
" *किजाम्ययदि तीज गच्छेदङ कुरतामिह ।
विवृद्धिरङ कुरस्य स्यात् कथं बीजादपुष्कलात् ॥ १॥"[ ] १५ भौमौदकरससं
ते चेत् : नः बीजपरिणामाभावप्रसङ्गात् । उक्तं च__ "अथेष्टं ते रसैनी मैरौदकैश्च विवर्धते ।
नम्वेवं सति बीजस्य परिणामो न युज्यते ॥ १॥" [ भौमौदकरसद्रव्यान्तरसंचयात वृद्धिरिति चेत् ;न; द्रव्यान्तरसंयोगेऽपि वृद्ध्यभावात् । यदि भौमौदकरसद्रव्यान्तराणि संयोगवृद्धथा वर्तन्ते; ननु वृद्धयभावः जतसंयोगे काष्ठ भाववत् । उक्तं च
"आलिप्तं जतुना काष्टं यथा स्थूलत्वमृच्छति । ननु काष्टं तथैवास्ते जतु चात्र विवर्धते ॥ १ ॥ तथैव यदि तबीजमास्ते येनात्मना स्थितम् ।।
रसाश्च वृद्धिं कुर्वन्ति बीजं तत्र करोति किम् ॥ २ ॥" [ ] इति; २५ तन्न; किं कारणम् ? अन्यहेतुत्वात् । 'बीजमात्रः अङ्कुरो भवेत्' इति त्रुवता त्वयैवाभ्युपगतः परिणामः । यस्तु भवता दोष उपन्यस्तः वृद्धयभावप्रसङ्ग इति; नासौ युक्तः; कुतः ? अन्यहेतुत्वात् । यथा मनुष्यायुर्नामोदयाभ्यां जातो वालः बाह्यसावित्रकिरणादिसंबन्धापेक्षस्तन्यनवनीताद्याहारमनुभवन अभ्यन्तरवीर्यान्तरायक्षयोपशमाविर्भाविताहारजरणसामर्थ्यकायाग्नि बलोपेतः उपयुक्ताहाररसादिपरिणामान्निर्माणनामकर्मोदयापेक्षो वर्धते,तथा वनस्पतिविशेपायुर्नामोदयापेक्षो वीजाधिष्ठानो जीवोऽकुरो जातः भौमोदकरसाहारं तप्तायः पिण्डवत् आत्मसात्कुर्वन बाह्यसावित्रकिरणसंतापाभ्यन्तरवीयर्यान्तरायक्षयोपशमाविर्भाविताङ्करकायाग्निबलात् भौमौदकरसान जरयन् स्वानुरूपनिर्माणकर्मोदयापेक्षो वर्धते । अयं तु वृद्धथभावदोष एकान्तवादिनामेव भवति । नित्यत्वेकान्त परिणामाभावात् वृद्धयभावः । क्षणिकैकान्तवादेऽपि प्रतीत्यसमुत्पादाभ्युपगमात. तावतोऽधिगमे
-देशास स्यात् सन् मु०, द० । -देशाच्च न स्यात्-मू०, ता० । २ दृषणान्तरमप्यस्ति । ३ विशिष्ट वृद्धिः । ५ बीजमात्रमा कुरो भवतु वृद्धिस्तु । ५ तनु-मु० । ६ तावद् बीजमात्रः । ७ बलापेक्षः मु०, ९०, ब०। तावत्परिणा-श्र० ।। रसादिकमालच्य ।