________________
४८० तत्त्वार्थवार्तिके
[५२२ तावत एवोपगमाद् वृद्धयभावः । किश्च सर्वेषां क्षणिकत्वात् अङ्करस्य तत्कारणाभिमतानां च भौमौदकरसादीनां युगपद्वा विनाशः स्यात् , पौर्वापर्येण वा ? यदि युगपत् ; नास्ति तत्कृता वृद्धिः । न हि वृद्धिहेतवो विनश्यन्तोऽन्यस्य विनश्यतोऽर्थस्य वृद्धिं कुर्वन्तो दृष्टाः । अथ पौर्वापर्येण; विनष्टस्याङ्करस्य भौमादयः किं कुर्वन्ति, विनष्टा वा किं कुर्युः ? अनेकान्तवादिनां तु अङ्कुरो भौमादयश्च ५ द्रव्यार्थादेशात् स्यामित्याः पर्यायार्थादेशाच्च स्यात्क्षणिका इति वृद्ध्युपपत्तिः ।
'क्षणिकत्वे प्रबन्धभेदाभ्युपगमात् वृद्धिरिति चेत् न तदभावात् ।१६। स्यान्मतम्-भावानां क्षणिकत्वेऽपि वृद्धियुज्यते । कुतः ? प्रबन्धभेदाभ्युपगमात् । त्रिविधो हि प्रबन्धः-सभागरूपः, क्रमापेक्षः, अनियतश्चेति । तत्र प्रदीपात् 'प्रदीप एकः प्रबध्यते स्रोतसः स्रोत एवेति (इवेति), सादृश्यात्
सभागरूपः प्रबन्धः । स (स्व) सन्ततिपरिणामक्रमोपलम्भात् बालकुमारवीजाङ्कराधविच्छेदः क्रमा१० पेक्षः। 'कृकलासानेकवर्णप्रबन्धानियमो मेघेन्द्रधनुरादिष्वनियतः। ततोऽस्ति वृद्धिरिति; तन्न; किं
कारणम् ? तदभावात् । इदमिह संप्रधार्यम्-सतोर्वा प्रबन्धः स्यात् , सदसतोः, असतो; ? न तावदसतोः प्रबन्धः वन्ध्यासुताकाशकुसुमयोः । नापि सदसतोः खरखरविषाणयोः । परिशेषात् सतोरेव । क्षणिकवादे तु पूर्वोत्तरस्कन्धयो कस्मिन् क्षणेऽस्तित्वमिति प्रबन्धाभावः । अस्तित्वे च क्षणिक
प्रतिज्ञाहानिः । आह-क्षणिकत्वेऽपि तुलान्तनामोन्नामवत् युगपदुत्पादविनाशभावात् अर्थप्रबन्ध १५ इत्यस्ति वृद्धिरितिः उच्यते-यदि युगपदुत्पादविनाशयोः वृत्तिः, कार्यकारणभावाभावः सव्येतरगोविषाणवत् ।
'ध्रौव्यकान्ते परिणामाभावोऽनेकदोषप्रसङ्गात् ।१७। ध्रौव्यैकान्ते य उक्तः परिणामः "व्यवस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्ती धर्मान्तरोपजनने च परिणामः ।" [ योगभा० ३।१३] अवस्थितस्य
हि. ध्रौव्यादिलक्षणस्य द्रव्यस्य क्षीरधर्ममात्रनिवृत्ती दधिधर्ममात्रोत्पत्ती परिणाम इति; स २० नोपपद्यते; कुतः ? अनेकदोषप्रसङ्गात् । न हि तस्य' 'द्रव्यमवस्थितमस्ति यस्य परिणामो भवेत् । अथास्ति समुदायव्यतिरिक्तं द्रव्यम् ; ननु गुणसमुदायमात्रद्रव्यप्रतिज्ञाहानिः । किञ्च ,
___ उभयदोषप्रसङ्गात् ।१८। इदमिह मीमांस्यम्-यन्निवर्तते यच्चोत्पद्यते यञ्च व्यवतिष्ठते तदेतत्त्रितयं गुणसमुदायमात्रं वा स्यात् , ततोऽन्यद्वेति ? यदि गुणसमुदायमात्रम् ; ननु स एवासौ प्राक
पश्चाच्च गुणसमुदायः कोऽत्र कस्य वा परिणामः? अन्येन नाम निवृत्तेन अन्येनावस्थितेनाऽन्येन२५ चोत्पन्नेन भवितव्यमिति न्याय्यम् । अथान्यदिति गृह्यते; एवमपि गुणसमुदायमात्रद्रव्यप्रतिज्ञा
हानिः । किञ्च, ध्रौव्यकान्तविरोधः, एकश्चेद्धर्मो निवर्तते एकश्चेदुत्पद्यते अनित्यताप्राप्तेरिति । किञ्च, समुदायःगुणेभ्योऽन्यो वा स्यात् , अनन्यो वा? यद्यनन्यः; गुणा एवेति समुदायकल्पनाव्याघातः, तदभावाच्च तदविनाभाविनां गुणानामप्यभावः । अथान्यः समुदायः; पुनरत्र
प्रतिज्ञाविरोधः परस्पराविनाभाविनोः स्वरूपशून्यत्वं च स्यात् , कुतः परिणामकल्पना ? ३० यञ्चोक्तम्-पूर्वभावस्यान्यभावाप्तिः परिणाम इति; तदयुक्तम् ; कस्मात् ? उभयदोषप्रसङ्गात् ।
"शब्दादीनां सुखादिसमन्वयभावानुपपत्तिःशब्दादिभावनिवृत्तिवेति । यदि पूर्वभावस्य अन्यभावापत्तिः परिणामः; सुखदुःखमोहानां शब्दादिभावापत्तेः शब्दादिषु" सुखादिसमन्वयभावानुपपत्तिः । किं कारणम् ? पूर्वभावस्यान्यभावापत्तिः परिणामः इति प्रतिज्ञानात् । अथ पूर्वभावस्य
१ अथ नित्यत्वैकान्तवादिमतनिरासपुरस्सरमालम्बनस्य बौद्धस्य पुनरपि दोषं प्रतिपादयसाह । २ प्रदीपकश्च प्रबुध्य-मु०, ब० । प्रदीपकः प्रबुध्य-ता०, द० । ३ सरटः कृकलासः स्यात् । नित्यैकान्ते । ५ बौद्धादेः। ६ तत् । ७ क्षणिकत्वात् । ८ क्रमभावितव्यनिराकरणं कृतम् ।। अनेन सहभाविन्यनिराकरणं कृतम् । १० तदेवाह।" उत्तरभावेषु ।