________________
५
परिणामाभावः सत्त्वासत्त्वयोर्दोषोपपत्तेरिति चेत्; न; पक्षान्तरत्वात् |११| स्यान्मतम्नास्ति परिणामः । कुतः ? सत्त्वासत्त्वयोः दोषोपपत्तेः । बीजमङ्कुरे स्याद्वा, न वा ? यदि सदङ्कुरे बीजम् ; अङ्कुराभावो बीजवत् । अथासत् ; न बीजमङ्कुरत्वेन परिणतम्, अङ्कुरे तत्स्वभावाभावात् । अतः परिणामाभावः इति; तन्न; किं कारणम् ? पक्षान्तरत्वात् । यथा सत्पक्षदोषो नाऽसत्पक्षं स्पृशति पक्षान्तरत्वात्, असत्पक्षदोषोऽपि सत्पक्षं तत एव । तथा सदसदेकान्तपक्षदोषावप्यने१० कान्तपक्षं न स्पृशतः पक्षान्तरत्वादेव, इतरथा हि पक्षसङ्करप्रसङ्गः । उभयदोपप्रसङ्ग इति चेत् ; जात्यन्तरत्वान्नरसिंहरूपवत् । शालिबीजादिद्रव्यार्थादेशात् अङ्कुरे स्याद्वोजमस्ति । यद्यन्वयो - च्छेदः स्यात् ; फलविशेषाभावः प्रसज्येत । शालिबीजादिपर्यायार्थादेशात् स्यादङ्कुरे नास्ति बीजम् । यद्यविपरिणामः स्यात्; अन्यथावृत्तिदर्शनमयुक्तं स्यात् ।
न;
४७८
तत्वार्थवार्तिके
गजो वैस्रसिकश्च । तत्र चेतनस्य द्रव्यस्योपशमिकादिर्भावः कर्मोपशमाद्यपेक्षोऽपौरुषेयत्वात् वैसिक इत्युच्यते । ज्ञानशीलभावनादिलक्षणः आचार्यादिपुरुषप्रयोगनिमित्तत्वात् प्रयोगजः । अचेतनस्य च मृदादेः घटसंस्थानादिपरिणामः कुलालादिपुरुषप्रयोगनिमित्तत्वात् प्रयोगजः । इन्द्रधनुरादिनानापरिणामो वैस्रसिकः । तथा धर्मादेरपि परिणामो योज्यः ।
२५
[ ५२२
प्रतिषेधाभावाच्च ॥ १२॥ इदमसि त्वं प्रष्टव्यः ? परिणामः सन्वा प्रतिषिध्येत, असन्वेति ? १५ उभयथा च प्रतिषेधाभावः ? यदि सन् ; सत्त्वादेव न प्रतिषिध्येत । अथ सन्नपि प्रतिषिध्येत; ननु परिणामप्रतिषेधोऽपि सत्त्वात् प्रतिषिध्यत इति प्रतिषेधाभावः । तदभावादप्रतिषिद्धः परिणामः । अथ प्रतिषेधः सत्त्वादप्रतिषिद्धः; ननु परिणामोऽपि सत्त्वात् अप्रतिषिद्धः । अथाऽसन् परिणामः; असत्त्वादेव खरविषाणवत् न प्रतिषिध्यते इति प्रतिषेधाभावः । अथवा, यस्य परिणामो नास्ति स वक्तृत्वेनापरिणतः वाच्यस्याप्यर्थस्याभिधेयत्वेनापरिणामः अभिधानस्य च वाचकत्वेनापरिणाम २० इति वक्तृवाच्यवचनानामभावात् प्रतिषेधाभावः, तदभावादप्रतिषिद्धः परिणामः स्थितः ।
३०
अन्यानन्यत्वदोषादिति चेत्; नः उक्तत्वात् | १३| स्यान्मतम् - नास्ति परिणामः । कुतः ? अन्यानन्यत्वयोर्दोषात् । बीजादङ्कुरोऽन्यो वा स्यात्, अनन्यो वा ? यदि अन्यो बीजादङ्कुरः; न तर्हि बी परिणामोऽङ्कुरः । अथानन्यो बीजादङ्कुरः; न तर्हि अङ्कुरोऽस्ति बीजादनन्यत्वात् । उक्तं च
" स्याच्चेद्वीजं परिणतं नान्यो बीजाच सोऽरू कुरः ।
१०
सच नैवं यदि हान्यो न " तत्तच्चेन्न सोऽङ कुरः ॥" [ ]
तन्न; किं कारणम् ? उक्तत्वात् । उक्तमेतत् - पक्षान्तरत्वात् दोषाभाव इति । स्याद्वीजादङ्कुरोऽन्यः स्यादनन्यः । यस्मात् प्रागङ्कुरोत्पादात् बीजेऽङ्कुरपर्यायो नासीत् पञ्चाच्च जातः तस्मात बीजादङ्कुरः पर्यायार्थादेशात् स्यादन्यः । यस्माच्च शॉलिबीजजातिविशिष्टोऽन्योऽङ्कुरोऽसन्, " तस्माच्छालिबीजजात्यात्मकद्रव्यार्थादेशात् बीजादङ्कुरः स्यादनन्यः ।
व्यवस्थिताव्यवस्थितदोषादिति चेत्; न; अनेकान्तात् | १४| स्यान्मतम् - बीजेऽङ्कुरत्वेन परिणते अङ्कुरे बीजं व्यवस्थितं वा स्यात्, अव्यवस्थितं वा ? यदि व्यवस्थितम् ; बीजस्य व्यवस्थानात् विरोधात् अङ्कुराभावः । अथाव्यवस्थितम् ; न तर्हि बीजमङ्कुरत्वेन परिणतम् । तस्मादुभयत्र दोषान्नास्ति
१ यद्यनन्वयोच्छे - ता०, श्र०, मू० । २ बीजस्य विविधपरिणामाभावः । ३ अङ्कुररूप । ४ इदमस्ति त्वं मु०, ५०, ब० । ५ प्रतिषिध्यते । ६ प्रतिषिध्यते ता०, श्र०, मू० । ७ वागादिः । ८ द्वौ नौ प्रकृतमथं गमयत इति न्यायात् । - नस्य वा च- ता० । - नस्य च वाचकत्वापरिणा- ता० । १० अङकुराद् भिन्नं न । ११ तस्माच्चेन्न मु० । १२ अपितु स एव सन् ।