________________
श२० ]
पञ्चमोऽध्यायः तदनन्तरं दुःखवचनं तत्प्रतिपक्षत्वात् ।६। सुखस्य हि प्रतिपक्षभूतं दुःखम , अनीतिहेतुत्वात् । ततोऽम्य वचनं तदनन्तरं क्रियते ।
जीवतस्तदुभयदर्शनात् तदनन्तरं जीवितग्रहणम् ।७। यतः तदुभयं सुखदुःखं जीवतो भवति, ततः तदनन्तरं जीवितग्रहणं क्रियते ।
अन्ते प्राप्यत्वान्मरणस्यान्ते वचनम् । आयःक्षयनिमित्तं मरणमन्ते प्राणिभिरवाप्यत इति ५ तदुपादानमन्ते क्रियते ।
सुखं च दुःखं च जीवितं च मरणं च सुखदुःखजीवितमरणानि तान्येवोपग्रहः सुग्वदुःखजीवितमरणोपग्रहः । केपाम् ? पुद्गलानामिति प्रकृतमभिसंबध्यते ।
प्रकृतत्वादुपग्रहावचनमिति चेत् ; न; स्वोपग्रहप्रदर्शनार्थत्वात् ।। स्यान्मतम-प्रकृतमुपग्रहवचनमस्ति तेन शरीरवाङ्मनःप्राणापानैः सुखदुःखजीवितमरणैश्च पुद्गला जीवान् उपगृह्णन्ति १० इत्यस्मिन्नर्थे प्रतिपादिते पुनरूपग्रहवचनमनर्थकमिति; तन्न; किं कारणम ? स्वोपग्रहप्रदर्शनार्थत्वात् । यथा धर्माधर्माकाशानि परेपामेवोपग्रहं कुर्वन्ति न तथा पुद्गलाः, स्वोपग्रहश्चैयामम्तीति प्रदर्शनार्थ पुनपग्रहवचनं क्रियते । तद्यथा-कंसादीनां भम्मादीनि जलादीनां कतकादीनि अयःप्रभृतीनामुदकादीनि उपकारं कुर्वन्ति ।
मरणमात्मोपग्रहो नेति चेत् नः निर्विण्णस्य तत्प्रियत्वात् ।१०। स्यादेतत्-मरणमात्मोप- १५ ग्रहो नोपपद्यते । कुतः ? अनिष्टत्वात् । न हि कस्यचित् मरणमीप्सितमिति; तन्न; किं: निर्विणस्य तयित्वात् । व्याधिपीडाशोकादिभिर्जीचितान्निवृत्तादरम्य निर्विण्णस्य हि जनस्य मरणं प्रियं लोके दृश्यते ।
____ प्रयोजनप्रतिपादनार्थत्वानच दुःखवत् ।११। यथा दुःखमनिष्टमपि जीवानां पुद्गलैः प्रतिपाद्यं प्रयोजनमिति गृह्यते तथा मरणमपीति नास्ति दोपः ।
लध्वर्थमेकसूत्रीकरणमिति चेत्, न; आशकानिवृत्त्यर्थत्वात् ।१२। स्यान्मतम्-'शरीरवाङ्मनःप्राणापानाः सुखदुःखजीवितमरणोपग्रहाश्च पुद्गलानाम्' इत्येकमेव सूत्रं कर्तव्यं लघ्वर्थमिति; तन्न; किं कारणम् ? आशङ्कानिवृत्त्यर्थत्वात् । शरीरवाङ्मनःप्राणापाना हेतवश्चत्वारः सुखदुःखजीवितमरणानि च फलानि चत्वारि, तेषां याथासंख्यमनिष्टमाशङ्क्येत, तन्निवृत्त्यर्थं नानायोगकरणम् । उत्तरसूत्रे सुखादिसंबन्धनार्थ च।
२५ तदनुपपत्तिर्नित्यानित्यपक्षयोर्विकारावस्थानाभावात् ।१३। तेषां सुखादीनाम् अनुपपत्तिः । क? नित्यपक्षेऽनित्यपक्षे च । कुतः? विकारावस्थानाभावात् । तद्यथा-नित्यपक्षे तावत् आत्मनां पूर्वापरकालतुल्यत्वात् परिणामान्तरसंक्रान्तिलक्षणस्य विकारस्याभावात् सुखादिककल्पनमयुक्तम् । अनित्यपक्षे चावस्थानाभावात् सुखादिसंबन्धोऽनुपपन्नः । अवस्थितस्य हि इष्टानिष्टशब्दस्पर्शादिसन्निपाते सति सुखादिप्रभवः स्यात् । स चाकस्मान्न भवति । किं तर्हि ? कुशलाकुशलभावना- ३० पूर्वकः । कुशलाकुशलभावना" च स्मृत्यभिसंबन्धिचेष्टाभिनिवृत्तिलक्षणा । "स्मृत्यादयश्चानघस्थितस्य न संभवन्तीत्यतो नित्यानित्यात्मकस्यात्मनः सुखादिनिरूपणं निरवद्यम् ।
. असिधारादेः निशितकरणादिरूपम् । २ कार्यमित्यर्थः। ३ अनिष्टमपि पुद्गलस्य कार्यमित्यर्थः । ५ कारणानि । ५ कार्याणि । ६ समवचने याथासंख्यं शैलीयमाचार्यस्येति न्यायात् । ७ परस्परोपग्रहो जीवानामित्यत्र । ८ एकयोगकरणे शरीरादिरपि प्रसज्येत । उत्पत्तिः। १० शुभाशुभरूपसंभावनापूर्वकः । ११ संभावना सक्कल्पः। १२ अनुभूतस्य स्मरणं नाननुभूतस्य नान्यानुभूतस्य च ।
७