________________
४७४ तत्त्वार्थवार्तिके
[२२० कृतम् ; तस्याचेतनत्वात् । सर्वेर्षा निरीहकत्वात् 'कर्माभाव इति चेत् ; न; देशान्तरप्राप्त्यभावप्रसङ्गात् । वायुधातुविशेषात् देशान्तरे प्रादुर्भावः क्रियेत्युपचर्यते न मुख्या क्रियाऽस्ति "भूतियैषां किया सैव" [ ] इति वचनात् इति चेत् ; न; वायुधातुविशेषाऽसामर्थ्यात् । वायुधातुरपि
निःक्रियः स कथमिव देशान्तरप्रादुभूतिहेतुः स्यात् । क्षणिकत्वाभ्युपगमादनवस्थितानां कर्मा५ भावः इति चेत्न ; असिद्धत्वात् , अयुक्तश्च ।।
प्राण्यङ्गत्वाद् द्वन्द्वकवद्भावप्रसङ्ग इति चेत् ; न; अङ्गाङ्गिद्वन्द्धे तदभावात् ।३।। स्यान्मतम्-शरीरं च वाक् च मनश्च प्राणश्चाऽपानश्च शरीरवाङ्मनःप्राणापाना इति द्वन्द्वे कृते एकवद्भावः प्राप्नोति । कुतः ? प्राण्यङ्गत्वात् इति; तन्न; किं कारणम् ? अङ्गाङ्गिद्वन्द्वे तदभावात् । प्राण्यङ्गानामेव यो द्वन्द्वः तस्यैकवद्भावः उक्तः । अङ्गमवयव एकदेश इत्यनर्थान्तरम् । शरीरमत्राङ्गि चास्तीत्येकवद्भावो न भवति । अथवा, वागादीनि नाङ्गानि दन्तादिवदनवस्थितत्वात् । अथवा, द्वन्द्वैकवद्भावः सर्वः समाहारविषयः । समाहारश्चैकप्राणिविषयाणां युक्तः । नानाप्राणिस्थाश्चैते विवक्षिताः, ततो नास्त्येकवद्भावः।
पुद्गलशब्दो निर्दिष्टार्थः।४०। पुद्गलशब्दस्यार्थो निर्दिष्टः-पुंगिलनात् पूरणगलनाद्वा पुगल इति ।
उपग्रहप्रकरणात्कर्तरि षष्ठी ।४१। उपग्रहशब्दः प्रकृतः, स च 'भावसाधनः तेन कर्तुरनुक्त१५ त्वात् पुद्गलानामिति कर्तरि षष्ठी द्रष्टव्या। तेन शरीरादिपरिणामैरात्मना पुद्गला उपग्रहीतार
इत्युक्तं भवति । ते चात्मानः सक्रियाः कर्ममलीमसाः सन्तः शरीरादिकृतमुपकारं तद्वन्धपूर्वकमनुभवन्तीत्येतदुक्तम् । एकान्तनिष्क्रियत्वे अत्यन्तशुद्धत्वे च शरीरादिभिः बन्धाभावात् तत्कृतोपकाराभावः, तक्रियाहेतुत्वाभावश्चेति संसाराभावः, तदभावात् कुतो मोक्षः ? ।
___यथा चैतँच्चतुष्टयं गमनव्याहरणचिन्तनप्राणनादिभावेन परिणामविशेषाहितमनुप्राहक २० पौद्गलिकत्वात् तथाऽयमपि तत्कृत एवोपकार इति प्रदर्शयन्नाह
सुखदुःखजीवितमरणोपग्रहाश्च ॥ २०॥ बाह्यप्रत्ययवशात् सद्वेद्योदयादात्मनः प्रसादः सुखम् ॥१॥ यदात्मस्थं सद्वद्यं कर्म द्रव्यादिबाह्यप्रत्ययवशात् परिपाकमुपयाति तदात्मनः प्रसादः प्रीतिरूपः सुखमित्याख्यायते ।
तथा असद्वेद्योदयात् आत्मपरिणामः संक्लेशप्रायो दुःखम् ।२। तथा तेन प्रकारेण बाह्यप्रत्य२५ यवशेनेत्यर्थः, असद्वद्योदयादात्मपरिणामो यः संक्लेशप्रायः स दुःखमिति कथ्यते ।
भवस्थितिनिमित्तायुद्र व्यसंवन्धिनो जीवस्य प्राणापानलक्षणक्रियाविशेषाव्युपरमो जीवितम् ।३। भवधारणकारणमायुराख्यं कम, तदुदयापादितां भवस्थितिमादधानस्य जीवस्य पूर्वोक्तस्य प्राणापानलक्षणस्य क्रियाविशेषास्याविच्छेदो जीवितमिति प्रत्येतव्यम् ।
तदुच्छेदो मरणम् ।४। तस्य जीवितस्योच्छेदो जीवस्य मरणमित्यवसेयम् ।
सुखग्रहणमादौ तदर्थत्वात्परिस्पन्दस्य ।। सर्वेषां प्राणिनां परिस्पन्दः सुखप्राप्त्यर्थः, ततोऽस्य ग्रहणमादौ क्रियते ।
'यो यत्रैव' इत्यादिना निर्व्यापारत्वात् । २ व्यापार । ३ उत्पत्तिः। भूतिर्येषां मु०, श्र०, द०, ता० । ४ क्षीणत्वाभ्यु-ता०, श्र०, द० । ५ कर्मसाधनः मु०, द०, ब०। ६ प्रकृतिर्वध्यते प्रकृतिर्मुच्यत इति सांख्यमते । ७ चतुष्टयं कथमित्युक्ते शरीरवाङ मनःप्राणापानाः पुद्गलानामिति सूत्रं मनसि कृत्याह । शरीरस्य गमनमित्यादि वाच्यम् ।