________________
२१९ ] पञ्चमोऽध्यायः
४७३ "पण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः" [अभिध० १.१०] इति; तन्नः किं कारणम् ? तत्सामर्थ्याभावात् । वर्तमानमेव विज्ञानं बाह्यमर्थ नावबोधुमलं किमङ्ग पुनरतीतम् ? वर्तमानं तावद्विज्ञानं क्षणिकं पूर्वात्तरविज्ञानसंबन्धनिरुत्सुकं कथं गुणदोषविचारस्मरणादिव्यापारे साचिव्यं कुर्यात् ? अनुस्मरणं हीदं स्वयमनुभूतस्यार्थस्य दृष्टं नानुभूतस्य (नाननुभूतस्य) नान्यानुभूतस्य । न च क्षणिकैकान्ते तत्संभवति । एकसन्तानपतितत्वात् तदुपपत्तिरिति चेत्, न; तदवस्तुत्वात् ५ तदतीतमत्यन्तमसत् कथमिव गुणदोषविचारस्मरणादौ सहायि भवेत् ? औलयविज्ञानं 'बीजशक्तिरूपं सदवस्थितमालम्बनं भवतीति चेत् तस्य एकस्य कालान्तरावस्थायित्वाभ्युपगमे क्षणिकत्वप्रतिज्ञाहानिः । न चेत् । तदालम्बनाभावः।
प्रधानविकार इति चेत् ; न; अचेतनत्वात् ।३३। स्यादेतत्-न पौद्गलिकं मनः । किं तर्हि ? प्रधानविकारः। प्रधानस्य महदहकारादिभावेन परिणामिनः कश्चिद्विकारविशेषो मनः इत्याख्या- १० यते इति; तन्नः किं कारणम् ? अचेतनत्वात् । प्रधानमचेतनं तद्विकाराश्च तदात्मका इति घटवदचेतनस्य तस्य गुणदोषविचारस्मरणादिव्यापारे साचिव्याभावः। किश्त्र, मनः करणं विचारादेः, कर्ता पुरुषः, प्रधानं वा स्यात् ? न तावत् पुरुषः, निर्गुणत्वात् , सात्त्विका हि गुणदोषविचारादयः । न च प्रधानम् ; तस्याऽचेतनत्वात् । न हि लोके किञ्चिदचेतनं गुणदोषविचारादेः कर्तृ दृष्टम् । किञ्च,
। तदव्यतिरेकात्तदभावः ।३४। प्रधानात् सत्त्वरजस्तमसां साम्यावस्थारूपात् महदहकारादयः परिणामा वैषम्यरूपाः "व्यतिरिक्ता वा स्युः, अव्यतिरिक्ता वा ? यदि व्यतिरिक्ताः"कार्यकारणैकत्वैकान्तप्रतिज्ञाहानिः। अथाव्यतिरिक्ताः; प्रधानमेव न परिणामा नाम केचन सन्तीति मनसो निवृत्तिः।
कोष्ठ्यो वायुरुच्छासलक्षणः प्राणः ।३५॥ वीर्यान्तरायज्ञानावरणक्षयोपशमाङ्गोपाङ्ग- २० नामोदयापेक्षिणा आत्मना उदश्यमानः कोष्ठ्यो वायुरुच्छासलक्षणः प्राण इत्युच्यते ।
बाह्यो वायुरभ्यन्तरीक्रियमाणोऽपानः ३६। तेनैव आत्मना बाह्यो वायुरभ्यन्तरी क्रियमाणो निःश्वासलक्षणोऽपान इत्याख्यायते । एतावप्यात्मानुग्राहिणौ जीवितहेतुत्वात् ।
तन्मूर्तिमत्त्वं प्रतिघातादिदर्शनात् ।३७। तयोः प्राणापानयोः तेषां वाङ्मनःप्राणापानानां ४ वामूर्तिमत्त्वमवगन्तव्यम् । कुतः ? प्रतिघातादिदर्शनात् । प्रतिभयहेतुभिरशनिशब्दादिभिर्मनसः २५ प्रतिघातो दृश्यते, सुरादिभिश्चाऽभिभवः । हस्तपुटादिभिरास्यसंवरणात् प्राणापानयोः प्रतिघात उपलभ्यते, श्लेष्मणा चाभिभवः । नचाऽमूर्तस्य मूर्तिमद्भिरभिघातादयः स्युः ।
___ अत आत्मास्तित्वसिद्धिः प्राणापानादिकर्मणः तत्कार्यत्वात् ।३८। अत आत्मनोऽस्तित्वं प्रासिधत् । कुतः ? प्राणापानादिकर्मणः तत्कार्यत्वात् । यथा यन्त्रप्रतिमाचेष्टितं प्रयोक्तुरस्तित्वं गमयति तथा प्राणापानादिकर्मापि क्रियावन्तमात्मानं साधयति, असति तस्मिन्नप्रवृत्तः । नाक- ३० स्मात् ; ''नियमदर्शनात् । न विज्ञानादिकृतम् । तेषाममूर्तत्वे प्रेरणशक्तिविरहात् । न रूपस्कन्ध
१ पञ्चेन्द्रियाणां मनोज्ञानस्य च । २ नष्टम् । ३ एकसन्तानपतितोऽपि अतीतो देवदत्तः वर्तमानस्य प्रपौत्रादेरुपकरोति किम् ? न चैवम् , तद्वत् । ४ अतीतविज्ञानम् । ५ यथा उप्तो ब्रीहिः स्वयमतीतोऽपि भविष्यफला. देरालम्बनं भवति तथा । ६ आलम्बनविज्ञानस्य । ७ सांख्यः । ८ साधकतमम् । १ निर्गुणत्वात् कर्ता न "मवति किमित्याशङ्कायामाह । सत्त्वगुणमया इत्यर्थः-स०। १० न्यूनाधिका इत्यर्थः । ११ प्रधानात् । १२ असदकरणादुपादानग्रहणात् सर्वसंभवाभावात । शक्तस्य शक्यकरणात् कारणभावाच सत्कार्यमिति मृत्पिण्डे घटोऽस्ति घटे मृत्पिण्डं चेति सांख्यमतम् । १३ शरीराभ्यन्तरं कोष्ठम् । १४-नां मू-ता०, ०।१५ कुतः ।।