________________
४७२ तत्त्वार्थवार्तिके
[१६ 'सौक्ष्म्याच मनसश्चक्षुरादीनां रूपादिग्रहणयोग्यत्वाभावः अणुना मनसा चक्षुरादेः कृत्स्नस्याऽनधिष्ठितत्वात् । यावान् देशश्चनुरादीनामणुना मनसाऽधिष्ठितस्तावता एवं रूपादिग्रहणसामर्थ्य भवेत् न कृत्स्नस्य । दृष्टं च कृत्स्नग्रहणं तस्मात् नाणु ।
आशुसंचारीति चेत् ; न; अचेतनत्वात् ।२१ स्यान्मतम-अणुमात्रमपि सन्मनः आशुसंचा५ रित्वात् कृत्स्नग्रहणहेतुरिति; तन्नः किं कारणम् ? अचेतनत्वात् । न हि अचेतनस्य मनसः बुद्धिपूर्विका सर्वत्र व्यापृतियुक्ता ।
___ अदृष्टवशादिति चेत् ;न; क्रियापरिणामाभावात् ।२६। स्यादेतत्-यथा पुरुषेण प्रेर्यमाणमलातचक्रमाशुसंचरणात् सर्वत्रोपलभ्यते, तथाऽदृष्टवशान्मनसो भ्रमणमिति; तन्न; किं कारणम् ?
क्रियापरिणामाभावात् । क्रियावता हि पुरुषेण प्रेर्यमाणमलातचक्रं सर्वत्रोपलभ्यते इत्येतद्युक्तम् , १० अदृष्टः पुनरात्मगुणः स्वयमक्रियोऽन्यत्र क्रियाहेतुरित्येतदयुक्तमित्युक्तं पुरस्तात् ।
अनादिसंबन्धमिति चेत् ; न; संयोगित्वात् ।२७। स्यादेतत्-अनादिसंबन्धमात्मना मनः स्वभावत एवेति; तन्नः किं कारणम् ? संयोगित्वात् । ३अप्राप्तिपूर्विका हि प्राप्तिः संयोगः इत्यणुमनोवादिनाऽभ्युपगम्यते इति न मनोद्रव्यस्याऽऽत्मनाऽनादिसंबन्धः । क्षायोपशमिकत्वाच नाहतस्य
आत्मनाऽनादिसंबन्धं मन इति सिद्धमस्ति । १५ तत्परित्यागविरोधाच्च ।२८। यदि अनादिसंबन्धं मनो भवेत् , अतोऽस्य परित्यागविरोधः स्यात् । अस्ति च परित्यागः । अतो नानादिसंबन्धं मनः ।
__ कर्मवदिति चेत् न; अनेकान्तात् ।२६। स्यादेतत्-यथा जीवकर्मणोरनादिसम्बन्धेऽपि कर्मपरित्यागाविरोधः तथा मनसोऽपीति; तन्न; किं कारणम् ? अनेकान्तात् । नायमेकान्तः-जीव
कर्मणोरनादिसंबन्ध इति । किं तर्हि ? कर्मबन्धसन्तत्यपेक्षया स्यादनादिसंबन्धः, मिथ्यादर्शनादि२० प्रत्ययापादितबन्धभेदापेक्षया स्यादादिमान् । अतोऽस्य तत्प्रत्यनीकभावनाप्रकर्षसन्निधौ परित्याग इति नास्ति विरोधः।
इन्द्रियसहकारिवेदनावगमादिति चेत् । न चेतनास्वभावत्वात्।३०। स्यादेतत्-इन्द्रियाण सहकारिकारणं मनः । कुतः ? चक्षुरादिभिरिष्टानिष्टरूपरसादिविषयोपलब्धौ तत्सन्निधाने सुखदु:खवेदनावगमात् नान्योऽस्य व्यापारोऽस्ति इति; तन्नः किं कारणम् ? चेतनास्वभावत्वात् । निष्टप्तायःपिण्डवत् इन्द्रियपरिणामात् आत्मैव इन्द्रियम् , अतश्चेतनास्वाभाव्यात् इन्द्रियाण्येव वेदनावगमं कुर्वन्ति । अतश्चैतदेवं यदि मनोऽन्तरेण इन्द्रियाणां वेदनावगमो न स्यात् एकेन्द्रियविकलेन्द्रियाणामसंज्ञिपश्चेन्द्रियाणां च वेदनावगमो न स्यात् ।
पृथगुपकारानुपलम्भात् तदभाव इति चेत् ; न; गुणदोषविचारादिदर्शनात् ।३१। स्यान्मतम्-नास्ति मनः पृथगुपकारानुपलम्भात् इति; तन्नः किं कारणम् ? गुणदोषविचारादिदर्शनात् ३० मनसः । मनोलब्धिमता आत्मना मनस्त्वेन परिणामिता पुद्गलाः तिमिरान्धकारादिबाह्याभ्यंतरेन्द्रि
यप्रतिघातहेतुसन्निधानेऽपि गुणदोषविचारस्मरणादिव्यापारे साचिव्यमनुभवन्ति, अतोऽस्त्यन्तःकरणं मनः ।
विज्ञानमिति चेत्, न; तत्सामर्थ्याभावात् ।३२। स्यान्मतम्-न मनो नामाऽन्यदस्ति । किं तर्हि ? विज्ञानमेव किश्चिन्मनः इति व्यपदिश्यते । उक्तं च
तावताऽपरितुष्टः सन् दूषणान्तरमप्यापादयति । २ तरुणनैयायिकवत् सृष्टिसंहारमतमनङ्गीकृत्य आत्ममनइन्द्रियाणामनादिसम्बन्ध एव संयोग इत्याह जरनैयायिकः, तमाचार्यो निराकरोति । ३ "अप्राक्षयोः प्राप्तिः संयोगः।"-प्रश० भा० पृ० ६२। ४ तर्हि भवतां कथमिति चेदाह । ५ एकाक्षविकलासादिषु । ६ कर्मसम्बन्ध-मु०, द०। ७ इन्द्रियाणाम् । ८ परिणमिताः मु०, ता०, द० । बौदस्य ।