________________
५२१६] पञ्चमोऽध्यायः
४७१ मनश्च द्वितयं पोद्गलिकं तन्मयत्वात् ।२०। द्विप्रकारं मनो भावमनो द्रव्यमनश्चेति । तदुभयमपि पौद्गलिकम् । कुतः ? तन्मयत्वात् । भावमनस्तावत् लब्ध्युपयोगलक्षणं पुद्गलावलम्बनत्वात् पौदलिकम । द्रव्यमनश्च ज्ञानावरणवीर्यान्तरायक्षयोपशमलाभप्रत्ययाः गुणदोषविचारस्मरणादिप्रणिधानाभिमुखस्याऽऽत्मनोऽनुग्राहकाः पुरलाः वीर्यविशेषावर्जनसमर्थाः मनस्त्वेन परिणता इति कृत्वा पौद्गलिकं नाकाशमयम ।
___अर्थान्तरमिति चेल: न; अनेकान्तात् इन्द्रियपत् ।२३। स्यादेतत्-अर्थान्तरम् आत्मनो मन इति; तन्नः किं कारणम? अनेकान्तात इन्द्रियवत् । यथा वीर्यान्तरायज्ञानावरणक्षयोपशमापेक्षम्य आत्मन एवेन्द्रियपरिणामादेशादात्मनो नानन्यदिन्द्रियम् , इन्द्रियनिवृत्तावपि आत्मनोऽवस्थानात् स्यादन्यत् । तथाऽऽत्मन एव तत्क्षयोपशमापेक्षस्य मनःपरिणामादेशात् स्यादनन्यत् , मनोनिवृत्तावात्मनोऽवस्थानात् स्यादन्यत् ।।
अवस्थायीति चेत; न; अनन्तरसमयप्रच्युतेः।२२। स्यादेतत्-अवस्थायि मनः, न तस्य निवृत्तिरिति; तन्न; किं कारणम् ? अनन्तरसमयप्रच्युतेः । मनस्त्वेन हि परिणताः पुद्गला गुणदोषविचारस्मरणादि कार्य कृत्वा तदनन्तरसमय एव मनस्त्वात् प्रच्यवन्ते ।
आदेशवचनाच्च ।२३। नायमेकान्तः-अवस्थाय्येव मन इति । कुतः ? आदेशवचनात्द्रव्यार्थादेशान्मनः स्यादवस्थायि, पर्यायादेशात् स्यादनवस्थायि ।
एकद्रव्यमिति चेत् ; न; असामर्थ्यात् ।२४ास्यादेतत्-एकद्रव्यं मनः प्रत्यात्म वर्तते इति । *उक्तं च-"प्रयत्नायौगपद्यात् ज्ञानायौगपद्याच्चैक मनः"वैशे० ३।३इतिः तन्नः किं कारणम? असामर्थ्यात् । कथमसामर्थ्यम् ? परमाणुमात्रत्वात् । परमाणुमात्रं हि मनः तदात्मनेन्द्रियेण च युक्तं सत् स्वप्रयोजनं प्रति व्याप्रियते इत्यभिमतम् । तत्रेदं विचायते-तत् आत्मेन्द्रियाभ्यां सर्वात्मना वा संबन्ध्येत, तदेकदेशेन वा ? यदि सर्वात्मना तयोरात्मेन्द्रिययोरर्थान्तरभावात् व्यतिरिक्तयोरन्यतरेण २० सर्वात्मना संवन्धः स्यात् अणोर्मनसः नोभाभ्यां युगपत् , विरोधात् । अथान्येन देशेन आत्मना संबध्यते अन्येन देशेनेन्द्रियेण एवं सति प्रदेशवत्वं मनसः प्रसक्तम्। तच्चानिष्ठम् , अणुमात्रत्वात् मनसः । किञ्च, यद्यात्मा मनसा सर्वात्मना संबध्यते; मनसोऽणुत्वात् आत्मनोऽप्यणुत्वम् , आत्मनो विभुत्वात् मनसो वा विभुत्वं प्रसज्यते । अथैकदेशेनाऽऽत्मा मनसा संयुज्यते, ननु प्रदेशवत्वमात्मनः प्रसक्तम् । ततश्चतुष्टयत्रयद्वयसन्निकर्पजज्ञानसुखदुःखादीनां प्रदेशवृत्तित्वात् आत्मनः कश्चित् प्रदेशो २५ ज्ञानादियुक्तः कश्चित् प्रदेशो ज्ञानादिविरहित इति । यत्र ज्ञानादिविरहितः तत्रात्मलिङ्गाभावात तदभाव इति सर्वगतत्वाभावः स्यात् । तथेन्द्रियेण मनो यदि सर्वात्मना संयुज्यते; इन्द्रियरयाणुमात्रत्वं मनसो वेन्द्रियमात्रत्वान्नाणुत्वम् । अथैकदेशेन मन इन्द्रियेण संयुज्यते; न तर्हि अणु तत् । किञ्च, गुणगुणिनोरन्यत्वान्नित्यत्वाच्च मनसः संयोगविभागपरिणामाभावात् नारयात्मना न चेन्द्रियः संयोगविभागौ स्तः । अथ संयोगविभागाभ्यां मनः परिणमते; न तर्हि नित्यम् । न च गुणगुणिनो- ३० न्यत्वम् । अचेतनत्वाच मनसः अनेनैव इन्द्रियेणाऽनेनैवं चात्मना संयोक्तव्यं नेन्द्रियान्तरैर्न चात्मान्तरैरिति विशेषज्ञानाभावात् प्रतिनियतात्मेन्द्रियसंयोगाभावः। कर्मवदिति चेत् ; न; पौरुषेयपरिणामानुरञ्जित्वात् कर्मणः स्याश्चैतन्यम् , पुद्गलद्रव्यादेशाच्च स्यादचेतनत्वमिति विषमो दृष्टान्तः ।
१-मुख्यस्या-मू०, ता०,०।२-शात् स्यादनन्यदि-मु०।३ पञ्चेद्रियस्य चतुरिन्द्रियत्रीन्द्रियादिअात्मनि । ४ स्वमताभिप्रायं दर्शयति । ५ किमिति । ६ रूपालोकनप्रयत्नेन शेषविशेषप्रयत्नः। ७ तव ।
मात्मना वा इन्द्रियेण वा । आत्मना व्यापित्वादेकस्मिन् शरीरे अनन्तात्मनां सद्भावात् । १० यथा भवन्मते कर्मण अचेतनत्वेऽपि आत्मनः सुखदुःखादिकार्यहेतुस्वं तद्वन्मनस इत्याह परः कर्मवदिति ।