________________
४७० तत्त्वार्थवार्तिके
[ ५११६ तत्सामोपेतेन क्रियावतात्मना प्रेर्यमाणाः पुद्गला वाक्त्वेन विपरिणमन्त इति द्रव्यवागपि पौद्गलिकी श्रोत्रेन्द्रियविषयत्वात् । 'पुनः कुतो न गृह्यते इति चेत् ? उच्यते
. पुनरग्रहणं तडिद्व्यवदसंहतत्वात् ।१६। यथा तडिद्व्यं चक्षुषोपलब्धं विष्वग्विशीर्णत्वात् पुनर्न दृश्यते तथा श्रोत्रेण उपलब्धा वाक् विष्वग्विशीर्णा पुनर्न श्रूयते । अथ कथं ५ चक्षुरादिभिरसौ न गृह्यते ?
चक्षुरादिग्रहणाभावो घ्राणग्राह्ये रसायनुपलब्धियत् ।१७। यथा घाणग्राह्ये गन्धद्रव्ये तदविनाभाविनः सन्तोऽपि रसादयो नोपलभ्यन्ते, तथा श्रोत्रेन्द्रियविषयोऽपि शेषेन्द्रियैर्न गृह्यते सूक्ष्मत्वात् ।
अमूर्तिरिति चेत् ; न; मूर्तिमद्ग्रहणप्रेरणावरोधदर्शनात् ।१८। स्यादेतत्-अमूर्तः शब्दः १० अमूर्तगुणत्वादिति; तन्नः किं कारणम् ? मूर्तिमद्ग्रहणप्रेरणावरोधदर्शनात् । मूर्तिमता इन्द्रियेण
शब्दो गृह्यते । न चामूर्तः कश्चिदिन्द्रियग्राह्योऽस्ति । प्रेर्यते च मूर्तिमता पवनेन अर्कतूलराशिवत्' दिगन्तरस्थेन ग्राह्यत्वात् । न चाऽमूर्तस्य मूर्तिमता प्रेरणं प्रयुज्यते । अवरुध्यते च शब्दः नलविला दिभिः 'कुल्याजलवत् । नचाऽमूर्त किञ्चिन्मूर्तिमता अवरुध्यमानं दृष्टमिति ।।
अत्राह-नैते हेतवः। यस्तावदुच्यते-इन्द्रियग्राह्यत्वादिति; श्रोत्रमाकाशमयममूर्तममूर्तस्य १५ ग्राहकमिति को विरोधः ? यश्चोच्यते-प्रेरणादिति; नासौ प्रेर्यते गुणस्य गमनाभावात् । देशान्तरस्थेन
कथं गृह्यते इति चेत् ? “संयोगाद्विभागात् शब्दाच शब्दनिष्पत्तिः" [वैशे० २।२।३१] इति शब्दान्तरारम्भाद् ग्रहणम् । वेगवद्रव्याभिघातात् तदनारम्भेऽग्रहणं न प्रेरणमिति । योऽप्युच्यते-अवरोधादिति; स्पर्शवद्रव्याभिघातादेव दिगन्तरे शब्दान्तरानारम्भात् , एकदिक्कारम्भे सति अवरोध
इव लक्ष्यते न तु मुख्योऽस्तीति । अत्रोच्यते-नैते दोषाः । श्रोत्रं तावदाकाशमयम्' इति नोपपद्यते; २० आकाशस्यामूर्तस्य कार्यान्तरारम्भशक्तिविरहात् । अदृष्टवशादिति चेत् ; "चिन्त्यमेतत्-किमसावदृष्ट
आकाशं संस्करोति, उतात्मानम् , आहोस्वित् शरीरैकदेशमिति ? न तावदाकाशे संस्कारो युज्यते; अमूर्तित्वात् अन्यगुणत्वादसंबन्धाच्च । आत्मन्यपि शरीरादत्यन्तमन्यत्वेन कल्पिते नित्ये निरवयवे संस्काराधानं न युज्यते, तदुपार्जनफलादानाऽसंभवात् । नापि शरीरैकदेशे युज्यते; अन्यगुणत्वात् अनभिसंबन्धाच्च । किञ्च, मूर्तिमत्संबन्धजनितवि पत्संपत्तिदर्शनात् श्रोत्रं मूर्तमेवेत्यवसेयम् । यदप्युच्यते-स्पर्शवद्रव्याभिघातात् शब्दान्तरानारम्भ इति; खात्पतिता नो रत्नवृष्टिः, स्पर्शवद्रव्याभिघातादेव मूर्त्तत्वमस्य सिद्धम् । न हि अमूर्तः कश्चित् मूर्तिमता विहन्यते । तत एव च मुख्यावरोधसिद्धिः स्पर्शवदभिघाताभ्युपगमात् ।
अभिभवादिदर्शनाश्च मूर्तः शब्दः इत्यवगन्तव्यम् ।१६। यथा तारकादयो भास्करप्रभाभिवान्मूर्तिमन्तः, तथा सिंहगजभेर्यादिशब्दैहद्भिः "शकुनिरुतादयोऽभिभूयन्ते । तथा कंसादिषु ३० पतिता ध्वन्यन्तरारम्भे हेतवो भवन्ति । गिरिगह्वरादिपु च प्रतिहताः 'प्रतिश्रुद्भावमास्कन्दन्ति ।
अत्राह-अमूर्तेरप्यभिभवा दृश्यन्ते-यथा विज्ञानस्य सुरादिभिः मूर्तिमद्भिस्ततो नायं निश्चयहेतुरिति; उच्यते-नायं व्यभिचारः, विज्ञानस्य क्षायोपशमिकस्य पौगलिकत्वाभ्युपगमात् । इतरथा हि आकाशवन्नाभिभूयते (भूयेत)।
१ एकवारमुच्चरितः शब्दः स एव । २ शब्दः । ३ अभिमुखीभूतं देवदतं प्रति प्रेर्यमाणः शब्दः अन्यदिकस्थितेन पुरुषेण । ४ कृत्रिमसरित् । ५ वैशेषिकः-स०। ६ भेरीदण्डयोः। ७ वंशस्य । ८ वायु ।। शब्दाच शब्द निष्पक्षः। १० विचार्यम् । ११ वृणादि, तत्प्रतिकारतैलादि । १२ शकुनरु-ता०, श्र०, मू० । १३ प्रतिध्वनि ।