________________
५१६ ]
पञ्चमोऽध्यायः
४६६
नेऽपि तन्निमित्तत्वान् । यत्रं यत्र प्रणिधानं तत्र तत्र आत्मप्रदेशा अङ्गुला संख्येय भागप्रमिता मनोव्यपदेशभाजः ।
वागग्रहणप्रसङ्गाच्च | ७ | यदि आत्मपरिणामाच्चक्षुराद्यग्रहणं कल्प्यते वाचोऽप्यग्रहणम्, वागपि ज्ञानावरणवीर्यान्तरायक्षयोपशमोपष्टम्भजनितवृत्तिः ।
वहिर्विनिःसृतानामात्मपरिणाम भावात्तद्ग्रहणमिति चेत्; न; उक्तत्वात् |८| स्यादेतत्- ५ बहिर्विनिःसृता वाक् पुद्गला आत्मपरिणामा न भवन्ति, तदर्थं पृथग्ग्रहणमिति; तन्न; किं कारणम् ? उक्तत्वात्' । उक्तमेतत् तदुत्पतद्भि (तदुत्तरद्भि) रेवाऽस्माभिः - चक्षुरादीनि द्रव्येन्द्रियाणि पौगलिकानीति । तस्मात् सूक्तं चशब्दस्ये समुच्चयार्थत्वादिति ।
ततो मनोग्रहणं तद्वतस्तत्सिद्धेः । । ततः पश्चात् मनोग्रहणं क्रियते । कुतः ? तद्वतस्तत्सिद्धेः । यस्यात्मनः शरीरमस्ति वा निर्वर्तनसामर्थ्यं च तस्य हि तद्भवतीति ।
१०
अन्ते प्राणापानोपादानं सर्वसंसारिकार्यत्वात् |१०| अन्ते प्राणापानोपादानं क्रियते । कुतः ? सर्व संसारिकार्यत्वात् । सर्वेषां हि संसारिणां जीवानां प्राणापानलक्षणं कार्यमस्ति ।
पुद्गलद्रव्यलक्षणार्थमिति चेत्; न; वक्ष्यमाणत्वात् । ११ । स्यान्मतम् - शरीरवाङ्मनः प्राणापानग्रहणमिदं पुद्गलद्रव्यस्य लक्षगार्थ नोपकारप्रतिपादनार्थमिति; तन्न; किं कारणम् ? वक्ष्यमा - णत्वात् । वक्ष्यते हि उत्तरत्र पुगललक्षणं व्यापि इदं तु आत्मोपकारकत्वादुपग्रहप्रकरणे उच्यते ।
१५
प्रत्यक्षत्वादनुपदेशः इति चेत्; न; केपाञ्चिदप्रत्यक्षत्वात् | १२ | स्यादेतत्-धर्मादीनां गत्युपग्रहादिप्रयोजनमुक्तं युक्तं तेपामप्रत्यक्षाणामधिगमहेतुत्वात् । शरीराद्युपग्रहाभिधानं तु पुद्गलानामयुक्तं प्रत्यक्षत्वात् । यो हि ब्रूयात् - पुरस्तात् आदित्य उदेति पश्चादस्तं गच्छति, मधुरो गुडः, कटुकं शृङ्गिवेरमिति; किं तेन कृतं स्यादिति ? तन्नः किं कारणम् ? केपाञ्चित् अप्रत्यक्षत्वात्, औदारिकवैक्रियिकाहारकतैजसकार्मणशरीराणि सौक्ष्म्याद प्रत्यक्षाणि, तदुदयापादितवृत्तीन्युपचय- २० शरीराणि कानिचित् प्रत्यक्षाणि कानिचिदप्रत्यक्षाणि । मनोऽप्रत्यक्षमेव । वाक्प्राणापानाः "केचित् प्रत्यक्षाः, ,""केचिदप्रत्यता इन्द्रियगोचरातीतत्वात् । अतः पुद्गलोपकारस्फुटीकरणार्थः शरीराद्युपदेशः क्रियते ।
शरीराण्युक्तानि | १३ | शरीराग्यौदारिकादीनि व्याख्यातानि पौगलिकानि ।
११
कार्मणमपौगलिकमिति चेत्; न; तद्विपाकस्य मूर्तिमत्संबन्धनिमित्तत्वात् ॥१४॥ स्यादेतत्- २५ कार्मणं पौगलिकं न भवति । कुतः ? 'अनाकारत्वात् । आकारवतां हि औदारिकादीनां पौगलिकत्वं युक्तं कार्मणं तु अनाकारमिति; तन्न; किं कारणम् ? तद्विपाकस्य मूर्तिमत्संबन्ध निमित्तत्वात् । यथा त्रीह्यादीनामुदकादिद्रव्यसंबन्धप्रापितपाकानां पौगलिकत्वं दृष्टुं तथा कार्मणमपि गुडकण्टकादिमूर्तिमद्रव्योपनिपाते सति विपच्यमानत्वात् पौगलिकमित्यवसेयम् । न हि अमूर्त किञ्चिमूर्तिमत्संबन्धे सति विपच्यमानं दृष्टमिति ।
३०
वाग द्विधा अपि पौगलिकी तन्निमित्तत्वात् ॥१५॥ द्विधा वाक्-भाववाक् द्रव्यवागिति । सोभयी पौङ्गलिकी । कुतः ? तन्निमित्तत्वात् पुद्गलकार्यत्वादित्यर्थः । भाववाक् तावद्वीर्यान्तरायमतिश्रुतज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामलाभनिमित्तत्वात् पौगलिकी, तद्भावे तद्वृत्त्यभावात् ।
१ हस्तपादादिप्रदेशे परिणामः । २ अन्तर्जल्परूपा । ३ वादस्याभिमुखैः सद्भिरेव । ४ अन्ते तु प्रा-सु०, द०, ब० । ५ किमिति । ६ शरीर नामकर्माणि इत्यर्थः । 19 कानिचित् प्रत्यक्षाणि च म तैजसादीनि । ६ मनुष्याणाम् । १० सूक्ष्मजीवानाम् । ११ अङ्गोपाङ्गरहितत्वादिस्यर्थः ।
मु०, ६०, ब० ।