________________
४६८ तत्त्वार्थवातिके
[५११६ किञ्चिद्वस्त्वस्ति, आवरणाभावमात्रं हि तदिति; तन्न; किं कारणम् ? नामवत्तत्सिद्धेः । यथा नामवेदनादि अमूर्तत्वात् अनावृत्यपि सदस्तीत्यभ्युपगम्यते, तथा आकाशमपि वस्तुभूतमित्यवसेयम् ।
'शब्दलिङ्गत्वादिति चेत् ;न; पौगलिकत्वात् ।१२। स्यान्मतम्-नावगाहेन आकाशमनुमीयते । कुतस्तर्हि ? शब्दलिगत्वात् । शब्दो ह्याकाशगुणः वाताभिघातबाह्यनिमित्तवशात् सर्वत्रोत्पद्यमान इन्द्रियप्रत्यक्षः अन्यद्रव्यासंभवी गुणिनमाकाशं सर्वगतं गमयति, गुणानामाधारपरतन्त्रत्वादिति; तन्न; किं कारणम ? पौगलिकत्वात् । पुद्गलद्रव्यविकारो हि शब्दः, नाकाशगुणः । तस्योपरिष्ठात् युक्तिर्वक्ष्यते ।
प्रधानविकार आकाशमिति चेत् : नः तत्परिणामाभावात् आत्मवत् ।१३। स्यान्मतमप्रधानं नाम सत्त्वरजस्तमसां साम्यरूपमस्ति प्रसवस्वभावकम , तद्विकारा महदादयस्तद्विकारविशेषः कश्चित् आकाशमिति; तन्न; किं कारणम् ? तत्परिणामाभावात् आत्मवत् । यथा परमात्मनां नित्यत्वात् निष्क्रियत्वात् अनन्तत्वाद्यविशेषात् आविर्भावतिरोभावाऽभावात् परिणामाभावः, तथा प्रधानस्यापि नित्यत्वनिष्क्रियत्वानन्तत्वाद्यविशेषान्न स्यात्परिणामः, तदभावात् प्रधानविकाराकाशकल्पनाव्याघातः । किञ्च, यथा घटस्य प्रधानविकार स्याऽनित्यत्वं मूर्तत्वमसर्वग
तत्वं च तथा आकाशस्यापि स्यात् विपर्ययो वा । १५ उपकारप्रकरणाभिसंबन्धेनेदमुच्यते
शरीरवाङमनःप्राणापानाः पुद्गलानाम् ॥ १९ ॥ शरीरे सत्युत्तरेषां प्रवृत्तिदर्शनात् आदौ तद्वचनम् ।। सति शरीरेऽधिष्ठानभूते उत्तरेपां वागादीनामाधेयानां प्रवृत्तिरिति कृत्वा शरीरं प्रधानमतस्तस्यादौ ग्रहणं क्रियते ।
तदनन्तरं वागुपादानं पुरुषहितावाप्तिमूलत्वात् ।। तदनन्तरं वागुपादानं क्रियते । कुतः ? २० पुरुषहितावाप्तिमूलत्वात् । पुरुषस्य हि वाक हिते प्रवतिका श्रोत्रेन्द्रियद्वारेण ।
अन्यन्द्रियोपसंख्यानमिति चेत् : न; चशब्दस्यएसमुच्चयार्थत्वात् ।। स्यान्मतम-चक्षुरादीन्यपीन्द्रियाणि पुरुषस्योपकारकाणि सन्ति, तेषामुपसंख्यानं कर्तव्यमिति; तन्न; किं कारणम् ? चशब्दस्येष्टसमुच्चयार्थत्वात् । उत्तरसूत्रे वक्ष्यते चशब्दः, स इष्टसमुच्चयार्थो भवति ।
आत्मप्रदेशाच्चक्षुराद्यग्रहणमिति चेत् ; नः द्रव्येन्द्रियस्य पौद्गलिकत्वात् ।। स्यादतत्२५ उत्सेधाङ्गुलासंख्येयभागप्रमिता आत्मप्रदेशा ज्ञानावरणवीर्यान्तरायक्षयोपशमनिमित्ताश्चक्षुरा
दिव्यपदेशभाजो न पौद्गलिका इत्यनुपसंख्यानमितिः तन्न; किं कारणम ? द्रव्येन्द्रियस्य पौगलिकत्वात् । अङ्गोपाङ्गनामलाभनिमित्ता हि द्रव्येन्द्रियपरिणामाः पौगलिकाः आत्मनामुपकारे वर्तन्ते ।
मनोऽग्रहणप्रसङ्गाच्च ।। यदि ज्ञानावरणवीर्यान्तरायक्षयोपशमनिमित्तत्वाच्चक्षुराद्यग्रहणं न्याय्यं मन्यते मनसोऽप्यग्रहणं प्राप्नोति । मनोऽपि हि नोइन्द्रियावरणक्षयोपशमापेक्षम । ३० अनवस्थितत्वात् मनोग्रहणमिति चेत् ; न; अनवस्थामेऽपि तन्निमित्तत्वात् ।। स्यान्म
तम्-यथा चक्षुरादिव्यपदशेभाज आत्मप्रदेशा अवस्थिता नियतदेशत्वात् न तथा मनोऽवस्थितमस्ति, अत एव तदनिन्द्रियमित्युच्यते, ततोऽस्य न पृथग्ग्रहणमिति; तन्न; किं कारणम् ? अनवस्था
१ आह नैयायिकः शब्दलिगमाकाशमिति । २ सांख्यस्य-स० । ३ अथ आकाशस्य प्रधानविकारस्य नित्यत्वममूर्तत्वं सर्वगतत्वं च तथा घटस्यापि स्यात् कारणसमानत्वात् । ४ आत्मप्रदेशत्वाच्चक्षुरादिभावेन्द्रियाणां पुद्गलप्रकरणे तदग्रहणं युक्तं सूत्रकारस्येति चोदकमाह। ५ नियतोद्देश-मु०, मू०, ता०, द०, ब.।