________________
पञ्चमोऽध्यायः
५२६ ]
४६७
तद्यथा - पर्यायार्थिकगुणभावे द्रव्यार्थिकप्राधान्यात् व्ययोदयाभावात् स्यादनादिसंबन्धौ अयुत सिद्धौ च । द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्यात् पर्यायाणां व्ययोत्पादसद्भावात् स्यान्नाऽनादिसंबन्ध नासिद्धौ चेत्यादि योज्यम् । ततः किम् ? कथचित् अवगाहः आधाराधेयभावश्च सिद्धो भवति ।
जीवपुद्गलानां मुख्योऽवगाहः क्रियापरिणामात् |६| जीवानां पुद्गलानां च मुख्योऽवगाहो ५ वेदितव्यः । कुतः ? क्रियापरिणामात् । यथा हंसो जलमवगाहते इति मुख्यो व्यपदेशः तथा जीवपुला आकाशमवगाहन्ते क्रियापरिणामात् इति मुख्यो व्यपदेशोऽवसेयः ।
"
आकाशस्यावकाशदान सामर्थ्यात् परस्परप्रतिघाताभाव इति चेत्; न; स्थूलानामन्योन्यप्रतिघातात् ॥७॥ स्यान्मतम् - यद्यवकाशदानसमर्थमाकाशं तस्य च सर्वत्र सन्निधानात् मूर्तानां परस्परप्रतिघातो न स्यात् । दृश्यते च बज्रादिभिर्लोष्टादीनां भित्त्यादिभिश्च गवादीनाम्, ततोऽ- १० स्याऽवकाशदानसामर्थ्यं हीयत इति; तन्न; किं कारणम् ? स्थूलानामन्योन्यप्रतिघातात् । स्थूला हि परस्परतः प्रतिहन्यन्ते न सूक्ष्मास्तेषामन्योन्यप्रवेशशक्तियोगात्, न तस्य तावता अवकाशदानसामर्थ्य हीयते ।
असाधारण लक्षण त्वानुपपत्तेरिति चेत्; न; सर्वावगाहविशेषलक्षणोपपत्तेः ।८। स्यादेतत्यदि सूक्ष्मभावात् इतरेऽपि पदार्थाः अन्योन्यावकाशदानं कुर्वन्ति नाकाशस्येदमसाधारणलक्षणम् । १५ असाधारणेन हि लक्षणेन अस्तित्वमनुमीयते, अतस्तदभावादाकाशाभाव इति; तन्न; किं कारणम् ? सर्वावगाहं विशेषलक्षणोपपत्तेः । यथा भूम्यादिषु अश्वादिगतिस्थित्युपमदर्शनेऽपि सर्वद्रव्यगतिस्थित्युपग्रहरूपेणासाधारणलक्षणेनानुमीयते (येते) धर्माधर्मों, तथा सर्वद्रव्यावगाहनविशेपलक्षणोपपत्तेराकाशस्यास्तित्वमनुमीयते ।
अलोकाकाशे तदभावादभाव इति चेत्; न; स्वभावापरित्यागात् ।। स्यान्मतम् - यद्यवकाश- २० दानलक्षणमाकाशम् अलोकाकाशेऽवगाहिनामभावात् तल्लक्षणाभावात् लक्ष्यानवधारणप्रसङ्ग इति; तन्न; किं कारणम् ? स्वभावापरित्यागात् । यथा हंसस्यावगाहकस्याभावेऽप्यवगाह्यत्वं जलस्य न हीयते, तथा अवगाहित्रभावेऽपि नाऽलोकाकाशस्य अवकाशदानसामर्थ्यहानिः ।
'अज्ञातत्वादभाव इति चेत्; न; असिद्धेः । १०। रयादेतत्-नास्त्याकाशमजातत्वात् खरविषाणवत् इति; तन्न; किं कारणम् ? असिद्धेः । द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्यात् स्वप्रत्ययाऽ- २५ गुरुलघु गुणवृद्धिहानिविकल्पापेक्षया अवगाहकजीवपुद्गलपरप्रत्ययावगाहभेदविवक्षया च आकाशस्य जातत्वोपपत्तेः हेतोरसिद्धिः । अथवा, व्ययोत्पादौ आकाशस्य दृश्येते । यथा चरमसमयस्याऽसर्वज्ञस्य सर्वज्ञत्वेनोत्पादस्तथोपलब्धेः, असर्वज्ञत्वेन व्ययस्तथाऽनुपलब्धेः एवं चरमसमयस्यासर्वज्ञस्य साक्षादनुपलभ्यमाकाशं सर्वज्ञत्वोपपत्तौ उपलभ्यत इति उपलभ्यत्वेनोत्पन्नमनुपलभ्यत्वेन च विनष्टम् । यदि तेनाऽविनष्टमनुत्पन्नं च स्यात् ; सर्वज्ञत्वमेवास्य न स्यात् । अतो ३० व्ययोत्पाददर्शनात् असिद्धो हेतुः । बुद्धिशब्दलक्षणस्य खरविषाणस्य स्वकारणसन्निधाने सति जन्मवत्त्वात् अस्तित्वाश्च साध्यसाधनधर्मासिद्धता दृष्टान्तस्य-खरो मृतः गौर्जातः स एव जीव इत्येकजीवविवक्षायां खरव्यपदेशभाजो जीवस्य गोजातिसंक्रमे विषाणोपलब्धेः, 'अर्थखरविषाणस्यापि जात्यस्तित्वसद्भावात् उभयधर्मासिद्धता । निरन्वयविनश्वरत्वे तु "स्मृत्यभावात् लोकसंव्यवहारलोपः स्यात् ।
अनावृतिराकाशमिति चेत्; न;
१ - विशेषोपपत्तेः भ० द०, मु० । २ बच्चजातम्; तहिं नास्तीति । ३ असिद्धोऽयं हेतुः ६ दत्तप्रहादि । ७ " तत्राकाशमनावृतिः " - अभिध०
।
६
नामवत् तत्सिद्धेः ॥११॥ स्यादेतत्-नाकाशं नाम अज्ञात मु० । आह बौद्धः - जातं वा आकाशमजातं वा ?
४ अथ खर-मु०, द०, ब०, ता०, श्र० । ५ उत्पत्ति । १।५।८ बौद्धः - स० ।
३५