________________
४६६ तत्वार्थवार्तिके
[५१८ पुण्यापुण्यात्ययेऽपि गतिस्थितिदर्शनात् ।३६॥ विनिर्मुक्तपुण्यापुण्यबन्धानां सिद्धानां गतिस्थिती इष्यते । ततो नादृष्टहेतुके गतिस्थिती। . अमूर्तत्वाद्गतिस्थितिनिमित्तत्वानुपपत्तिरिति चेत् ; न; दृष्टान्नाभावात् ।४०। म्यान्मतम्रूपादिगुणविरहितत्वात् अमूर्ती धर्माधर्मावभ्युपगम्येते, ततस्तयोर्गतिस्थितिहेतुत्वं नोपपद्यते इति; तन्न; किं कारणम् ? दृष्टान्ताभावात्। न हि दृष्टान्तोऽस्ति येनामूर्तत्वात् गतिस्थितिहेतुत्वं व्यावर्तेत । किञ्च,
आकाशप्रधानविज्ञानादिवत्तत्सिद्धेः ॥४१॥ यथा आकाशममूर्तमपि सत् सर्वपदार्थानामवगाहनप्रयोजनमुपपादयति । यथा वा, प्रधानममूर्तमपि पुरुषार्थप्रवृत्त्या महदादिविकारमापद्य
मानं पुरुषस्योपकरोति । यथा वा, विज्ञानममूर्तमपि सन्नामरूपोत्पत्तौ निमित्तं "विज्ञानप्रत्ययं १० नामरूपम्" [ ] इति वचनात् । यथा वा, अपूर्वाख्यो धर्मः क्रियया अभिव्यक्तः सन्नमूर्तोऽपि पुरुषस्योपकारी वर्तते, तथा धर्माधर्मयोरपि गतिस्थित्युपग्रहोऽवसेयः।
अत्राह- यद्यतीन्द्रिययोर्धर्माधर्मयोरुपकारसंबन्धेनास्तित्वमवध्रियते तदनन्तरमुद्दिष्टस्य नभसोऽतीन्द्रियस्याधिगमे क उपकार इति ? अत्रोच्यते
आकाशस्यांवगाहः ॥१८॥ १५ आकाशशब्दो व्याख्यातार्थः।
अवगाहशब्दो भावसाधनः ।। अवगाहनमवगाह इति भावसाधनोऽवगाहशब्दो वेदितव्यः । अवगाहोऽनुप्रवेश इत्यर्थः ।
धर्माधर्मयोरवगाहं प्रति कर्तृत्वादनादिसंबन्धनिवृत्तिरिति चेत् ; न; औपचारिकत्वात् व्याप्तिसद्भावात् ।। स्यान्मतम्-यथा जलमवगाहते हंस इति न जलहंसयोरनादिसंबन्धः, तथा २० आकाशं धर्माधर्माववगाहेते इत्यभ्युपगमात् अनादिसंबन्धो निवर्तत इति; तन्नः किं कारणम् ?
औपचारिकत्वात् । औपचारिकोऽयमवगाहः। कुतः ? क्रियाऽभावात् । कुतस्तर्हि उपचारः ? व्याप्तिसद्भावात् । यथा गमनाभावेऽपि सर्वगतमाकाशमित्युच्यते व्याप्तिसद्भावात्, तथा मुख्यावगाहक्रियाऽभावेपि लोकाकाशेऽपि सर्वत्र व्याप्तिदर्शनात् व्यवह्रियते-धर्माधर्मयोर्लोकाकाशेऽवगाह इति ।
अयुतसिद्धानामाधाराधेयत्वानुपपत्तिरिति चेत् । न तत्रापि दर्शनात् पाणिरेखावत् ॥३॥ स्यादेतत्-युतसिद्धानां लोके दृष्ट आधाराधेयभावः यथा कुण्डबदरादीनाम् । अयुतसिद्धाश्चैते आकाशधर्माधर्माः अप्राप्तिपूर्वकप्राप्त्यभावात् , तत आधाराधेयभावो नोपपद्यत इति; तन्न; किं कारणम् ? तत्रापि दर्शनात् । यथा युतसिद्धयभावे पाणौ रेखेति आधाराधेयभावो दृष्टः तथा
लोकाकाशे धर्माधर्मावित्याधेयाधारभावः सिद्धः ।। ३० दृष्टत्वादीश्वरैश्वर्यवत् ।। यथेश्वरस्यैश्वर्यस्य वाऽयुतसिद्धेऽपि ईश्वरे ऐश्वर्यमिति व्यववहारो दृष्टस्तथा लोकाकाशे धर्माधर्माविति व्यपदेशो युक्तः ।
अनेकान्ताच्च तत्सिद्धिः। नायमेकान्तः-अनादिसंबन्धौ धर्माधौं अयुतसिद्धौ चेति । किं तर्हि ? स्यादनादिसंबन्धौ स्यान्नाऽनादिसंबन्धौ, स्यादयुतसिद्धौ स्यान्नाऽयुतसिद्धावित्यादि।
सांल्यामिमतम्-स०।२ बौद्धसम्मतम्-स०।३.मीमांसकामिमतम्-सा।