________________
श१७ ] पञ्चमोऽध्यायः
४६५ सामर्थ्याभावात् इति; तन्नः किं कारणम् ? कारणनियमाभावप्रसङ्गात्-यस्मात्कस्माच्चित्कारणसंसर्गात् पटनिष्पत्तिरस्तु । नो चेदेवं प्रतिविशिष्टतन्त्वादिकारणविषयसंसर्गापेक्षत्वादनेककारणत्वसिद्धिः। किञ्च,
___ एकस्य कारणस्य संसर्गाभावात् ।३३। अनेककारणसाध्यत्वात् संसर्गस्य । संसर्गकारणत्वे प्रतिज्ञाहानिः । अपि च, संसर्गकारणानां संयोगविशेषः संयोगिनां बहुत्वादनेकः तत्साध्यत्वात् ५ कार्यस्य अनेककारणत्वसिद्धिः। किञ्च, _ स्वसमयविरोधात् ॥३४॥ न च वयमेवंपक्षाः-यन्नोपलभ्यते प्रत्यक्षेण तन्नास्तीति । यस्य तु वादिन एषोऽभिप्रायस्तस्य स्वसमयविरोधः। तद्यथा-सर्वे हि वादिनः प्रत्यक्षाऽप्रत्यक्षार्थवादिनः । केचित्तावदाहुः-प्रत्येकं रूपपरमाणवोऽतीन्द्रियास्तत्समुदायोऽनेकपरमाणुक 'इन्द्रियग्राह्यो नाम 'चित्तचैतसिकविकल्पमतीन्द्रियमिति । अपर आहुः व्यक्तस्य पृथिव्यादेः प्रधानपरिणामस्य १० प्रत्यक्षत्वं सत्त्वादीनां गुणानां परमात्मनां चाऽप्रत्यक्षमिति । अन्ये तु मन्यन्ते-"महत्यनेकद्रव्यस्वात् रूपाच्चोपलब्धिः" [वैशे० ४] इत्येवमादिना अनेकपरमाणुसमुदयभावेन निष्पन्नाः पृथिव्यादयस्तद्विषयाश्च रूपादयस्तत्समवायिनः संख्यापरिमाणपृथक्त्वसंयोगविभागादयश्च प्रत्यक्षाः, अण्वाकाशादयोऽप्रत्यक्षा इति । यदि यष्ट्यादिवदनुपलब्धेः धर्माधर्मयोरभावः प्रतिज्ञायेत; ननु विज्ञानादीनां सत्त्वादीनाम् अण्वादीनां चाऽप्रत्यक्षत्वादभावः स्यादिति स्वसमयविरोधः। अथैषां १५ कार्यदर्शनात् अस्तित्वमनुमीयते; धर्माधर्मयोः को मत्सरः ? किञ्च,
त्वदीयजीवितमरणादिवत्तत्सिद्धिः ।३५॥ यथा त्वदीयजीवितमरणसुखदुःखलाभालाभादीनां मनुष्यमात्राप्रत्यक्षाणाम् अतिशयज्ञानिभिरुपलभ्यमानस्वरूपाणाम अस्तित्वम् , तथा तावकीनप्रमाणगोचरातीतयोरपि परमर्षिसर्वज्ञदृष्टयोः धर्माधर्मयोरस्तित्वमिति को विरोधः ? किन्च,
ज्ञानादिवदिति चेत्न; उक्तत्वात् ।३६। स्यादेतत्-यथा ज्ञानादीनामात्मपरिणामानां पुदल- २० परिणामानां च देध्यादिद्रव्यादीनां निवृत्तिः परस्पराश्रया न धर्माधर्मास्तिकायस्थानीयद्रव्यान्तराश्रया, तथा जीवपुद्गलेषु गतिस्थितिपरिणामा अपि अन्योन्याश्रया इति धर्माधर्माभाव इति । तन्नः किं कारणम् ? उक्तत्वात् । उक्तमेतत्-पतत्रिप्रभृतीनां गतिस्थितिकारणेन साधारणेन बाछन भवितव्यमिति । किञ्च, ज्ञानादिदध्यादिविकाराणामपि निवृत्तः कालो हेतुः बाह्योऽस्तीत्यभ्युपगमादसमस्समाधिः" । ____ अदृष्टहेतुके गतिस्थिती इति चेत्, न; पुद्गलेष्वभावात् ।३७। स्यान्मतम्-अदृष्टो नामात्मगुणोऽस्ति यद्धेतुकः सुखदुःखविपाकः "तत्साधनसन्निधानं च । एवं च कृत्वोक्तम्-"अन्न रूख़ज्वलन वायोश्चतिर्यपवनम् अणुमनसोचाचं "कर्मेत्येतान्यदृष्टकारितानि,उपसर्पणमपसर्पणमसितपीतसंयोगाः कायान्तरसंयोगश्चेति अष्टकारितानि" [वैशे० ५।२।१३, १०] इत्यादि, तद्धतुके गतिस्थिती इति; तन्नः किं कारणम् ? पुद्गलेष्वभावात् । अचेतनत्वात् पुद्गलानां पुण्यापुण्यकरणा भावात् तत्कृतगतिस्थित्यभावदोषः। ३० __यस्योपकारस्तादर्थ्या क्रियाप्रवृत्तिरिति चेत् न, अन्यधर्मस्याऽन्यत्र क्रियारम्भे सामर्थ्याभावात् ।३८। स्यादेतत्-यस्य घटादय उपकरिष्यन्ति तस्य पुंसोऽदृष्टाद् घटादिषु गतिस्थिती भवत इति; तन्नः किं कारणम् ? अन्यधर्मस्याऽन्यत्र क्रियारम्भे सामर्थ्याभावात् । न हि स्वाश्रये क्रियामनारभमाणः अन्यत्र क्रियाहेतुरस्तीत्युक्तं पुरस्तात् । किश्च,
., यथा कुलालस्य दण्डेन संसर्गः दण्डस्य च चक्रण, मृत्पिण्डस्य कुल्लालहस्तेन चीवरेण चेत्यादि। २ कुवाखादीनाम् । ३ अनेकसंयोग। ४ बौद्धा:-स०। ४ स्कन्धः। ५ ज्ञान-ज्ञानजसुखदुःखादि । ६ सांख्याः -स। वैशेषिका:-स०।८ श्यत्वम् ।। सूत्रेण । १०दभ्यादीनां मू, मु०। द्रव्यादीनां द०।११ परिहारः। १२ खगवनिताऽहिलतादि । तिर्यप्ववनं भा०२।१४ कर्मेत्याच-मू०।१५ कारण-मु०, द.।