________________
तत्वार्थषार्तिके
[१७ गतिस्थित्योर्न कर्तारौ। यदि कर्तारौ स्यातां स्याद् गतिस्थितिविरोधः । अतोऽनुप्राहकत्वान्नास्ति दोषः । किञ्च,
क्वचिदुपग्राहकाभावेऽपि गतिस्थितिदर्शनात् पतत्त्रिवत् ।२५॥ यथा पतत्रिणः प्रकृष्टगतिस्थितिक्रियापरिणामसामर्थ्यात् जलतुल्यबाह्योपग्राहकाभावेऽपि धर्माधर्मद्रव्यसद्भावात् गतिस्थिती ५ दृष्टे, तथेतरेषामपि द्रव्याणां धर्माधर्मोपष्टम्भात् गतिस्थितिसिद्धिरिति तदुपपत्तिः।
तत्राप्याकाशं निमित्तमिति चेदुक्तम् ।२६। यदि तत्रापि पतत्त्र्यादिषु आकाशमुपग्राहकमम्नीनि कल्प्यते उक्तमेतत्-नाकाशं गतिस्थित्युपग्रहकारणम् अवगाहनलक्षणत्वात्तस्येति ।
अनेकान्ताच समग्रविकलेन्द्रियवत् ।२७। यथा नायमेकान्तः-सर्वश्चक्षुष्मान् बामप्रकाशोप
त् रूपं गृहातीति । यस्मात् 'द्वीपिमार्जारादयः स्वजातिविशेषोपात्तनयनबलादेव विनापि १० बाह्यप्रदीपाद्युपग्रहात् रूपग्रहणसमर्थाः, मनुष्यादयस्तु तथादर्शनशक्त्यभावात् प्रदीपाद्युपग्रहमपे
क्ष्यन्त इत्यनेकान्तः । यथा वा, नायमेकान्तः-सर्व एव गतिमन्तो यष्ट्याधुपग्रहात् गतिमारभन्ते नवेति, यस्मात् समग्रपञ्चेन्द्रियो बाह्ययष्ट्याद्युपग्रहात् बिनापि धर्मोपग्रहाद्गतिमारभते नैवं चक्षुविकलः, स तु समविषमादिभूप्रदेशादर्शनात् तद्विशेषाषिष्करणसमर्था यष्टिमवष्टभ्य गतिमारभते
इत्यनेकान्तः। तथा नायमेकान्तः-सर्वेषाम् आत्मपुदलानां सर्वे बाह्योपग्रहहेतवः सन्तीति, किन्तु १५ केषाश्चित् पतन्त्रिप्रभृतीनां धर्माधर्मावेव, अपरेषां जलादयोऽपीत्यनेकान्तः।
अनुपलब्धेरभाव इति चेत्नस्वतीर्थकरायभावप्रसङ्गात् ।२८। स्यान्मतम् , नच धर्माधर्मों स्तः अनुपलब्धेः खरविषाणवत् । सतां हि यष्ट्यादीनाम् उपलब्धिरस्ति, तदुपकारश्च निम्नोन्नतादिभूप्रदेशे भेददर्शनं दृष्टम् । न च तथा धर्माधर्मावुपलभ्येते नापि तदुपकार इत्यसत्त्वमिति
तन्नः किं कारणम् ? स्वतीर्थकराद्यभावप्रसङ्गात् । न वयमेवंप्रतिज्ञाः-यो यो नोपलभ्यः स सोऽस२. निति । यस्तु एवंवादी' तस्य स्वतीर्थकराद्यभावप्रसङ्गः खरविषाणवत् । यथा खरविषाणम् अनु
पलब्धेरसत् तथा स्वतीर्थकरपुण्यापुण्यपरलोकादीनामप्यसत्त्वमासक्तम् , न चाऽसत्त्वमिष्टं ततो हेतोर्व्यभिचारः। किञ्च,
अनुपलब्ध्यसिद्धेः २६॥ भगवदर्हत्सर्वज्ञप्रत्यक्षज्ञानगोचरत्वात् तत्प्रणीतपरमागमप्रमाणगम्यत्वात् तदनुसारिस्वकार्यदर्शनाद्यनुमानविषयत्वाच्च धर्माधर्मयोरुपलब्धेरनुपलब्धिलक्षणो हेतुर२५ स्मान् प्रत्यसिद्धः । न च हेतुः स्वयमसिद्धः साध्यमर्थ साधयितुमलम् ।
अत एव विवादात् ॥३०॥ यत एव यष्टयादिवत् न प्रत्यक्षौ धर्माधर्मावत एव विवादःकिमनुपलब्धेः खरविषाणवदभावोऽनयोः, उत अण्वाकाशमूलोदकादिवत् अभाव इति ? न हि यत एव विवादः तत एव निर्णयो भवितुमर्हति । किञ्च,
कार्यस्यानेकोपकरणसाध्यत्वात् तत्सिद्धेः ॥३१॥ इह लोके कार्यमनेकोपकरणसाध्यं दृष्टम् , ३० यथा मृत्पिण्डो घटकार्यपरिणामप्राप्तिं प्रति गृहीताभ्यन्तरसामर्थ्यः बाह्यकुलालदण्डचक्रसूत्रोदक
कालाकाशाधनेकोपकरणापेक्षः घटपर्यायेणाऽऽविर्भवति, नैक एव मृत्पिण्डः कुलालादिबाह्यसाधनसन्निधानेन विना घटात्मनाविर्भवितुं समर्थः, तथा पतत्रिप्रभृतिद्रव्यं गतिस्थितिपरिणामप्राप्ति प्रत्यभिमुखं नान्तरेण बाह्यानेककारणसन्निधिं गतिं स्थितिं चावाप्तुमलमिति तदुपग्रहकारणधर्माड
धर्मास्तिकायसिद्धिः। ततः किम् ? अनुमानविरोधो वेदितव्यः। ३५
संसर्ग पवतरिति चेतनः कारणनियमाभावप्रसङगात शस्यान्मतम-मानेककारणसाध्यं कार्यम् । किं तर्हि ? संसर्ग एव हेतुः कार्यात्मलाभस्य, विवक्तानां तन्त्वादीनां कार्यारम्भ
म्याघ्र । २ बरू (बहुव्रीहिसमास इत्यर्थः)। ३ एवं वदतीति ।