________________
पञ्चमोऽध्याय
૪૬૨
५।१७ ]
स्वबाह्यकारणभावाऽभावयोस्तद्भावाभावदर्शनात् तदभाव इति चेत्; न; साधारणकारणत्वादाकाशवत् ॥२२॥ स्यान्मतम् - इह गतिमतां स्थितिमतां च द्रव्याणां प्रतिनियतस्वबाह्यकारणसन्निधाने सति नियतगतिस्थित्योर्भावो दृष्टः, यथा मत्स्यादीनां जलादिसद्भावे' भावः तदभावे चाभावो दृष्टः । तेषामेव जलाद्यभावे धर्माधर्मयोः सतोरपि गतिस्थित्यभावः, तस्मात्तदधीने गतिस्थितो इति धर्माधर्मयोरभावः इति; तन्न; किं कारणम् ? साधारणकारणत्वात् आकाशवत् । यथा सत्यपि भूम्यादावधिकरणे सर्वेषां साधारणमधिकरणमाकाशमिष्यते तथा मत्स्यादीनां सत्स्वपि जलादिषु कारणेषु सर्वेषां गतिस्थित्योः साधारणकारणौ धर्माधर्मावभ्युपगन्तव्यौ ।
५
आकाशमेव पर्याप्तमिति चेत्; न; सर्वतन्त्रविरोधात् ॥२३॥ स्यादेतत्-आकाशमेव विभुत्वात् सर्वद्रव्याणां गतिस्थित्योः साधारणकारणत्वेन पर्याप्तमिति; तन्न; किं कारणम् ? सर्वतन्त्रविरोधात् । आकाशमेव पर्याप्तं नान्यदिति नियच्छतः सर्वतन्त्रविरोधो भवति । तद्यथा - केचि - १० त्तावदाहुः-आकाशकालदिगात्मानः सर्वगता अपि सन्तः प्रतिनियतस्वलक्षणाः इति । तत्र हि दिनिमित्तो यो व्यवहारः इत इदमिति, कालनिमित्तश्च परोऽयमपरोऽयमिति नासावाकाशाहतेऽस्ति इत्याकाशस्यैवादः सामर्थ्यं न दिक्कालयोरिति दिक्कालाभावः प्रसक्तः । तथा च सर्वात्मनां चैकत्वप्रसङ्गः । यदि व्यापित्वादाकाशस्यैव गतिस्थित्युपग्रहः कल्प्यते, ननु यत्प्रत्यर्थनियतबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारगुणोपपत्तेः “व्यवस्थातः । शास्त्रसामर्थ्याच्च नाना" [वैशे० १५ ३।२।२०,२१] आत्मान इति व्यवस्थितं तद्विरुध्यते । अपर आहुः -त्रयो गुणाः सत्त्वरजस्तमोऽभिधानाः प्रसादलाघवशोषतापावरणसादनादिभिन्नस्वभावा इति । यदि व्यापित्वादाकाशस्यैव * गतिस्थित्युपग्रहाविष्टौ; ननु सत्त्वस्य व्यापित्वात् शोषतापादयो रजोधर्माः सादनावरणादयश्च तमोधर्माः सत्त्वस्यैवेषितव्याः । तथेतरयोरपि प्रतिपक्षधर्मा इति सङ्करप्रसङ्गः । तथा सर्वक्षेत्रज्ञानां चैकत्वसङ्गः चैतन्यस्वरूपाविशेषात् 'आद्यन्तभोगाविशेषाच्च । 'अन्ये मन्यन्ते रूपणानुभवन- २० निमित्तग्रहणसंस्कृताभिसंस्करणा लम्बनप्रज्ञप्तिस्वभावलक्षणा रूपवेदनासंज्ञा संस्कारविज्ञानाभिधानाः पञ्च स्कन्धाः इति । तत्र यद्येकस्यैव सर्वधर्माः कल्प्यन्ते; नासति विज्ञानेऽनुभवादयः संभवन्तीत्यनुभवादयो विज्ञानस्यैव कल्प्येरन् । तथा सति शेषस्कन्धनिवृत्तौ स्वनिवृत्तिरपि स्यात्, न चैतत् सर्वमिष्टम् । तस्मादभ्युपगम्यतामाकाशस्य विभुत्वेऽपि न धर्माधर्मयोः प्रयोजनं नास्तीति सिद्धौ धर्माधर्मास्तिकायौ ।
I
१ वे तदभावे मू०, द०, मु०, ब० । २ वैशेषिकाः स० । ३ सांख्याः स० । ४ गतिस्थितिरित्युपमु०, द० । ५ आदानभो - मु०, द०, ब० । ६ बौद्धाः - स० । ७-मसामर्थ्यस्य मू० ।
२५
उभयानुग्रहात् परस्परप्रतिबन्ध इति चेत्; न; स्वतः परिणामसामर्थ्यस्याऽनुग्रहाकाङ् क्षित्वात् कुण्टनयनयष्टिप्रदीपवत् | २४ | स्यान्मतम्, यथा तुल्यबलाभ्यां शकुन्ताभ्यामाकृष्यमाणो मांसपिण्डः - यावत्क्षेत्रमेकेनाऽऽकृष्यते तावदितरेण अपकृष्येतेति नास्योत्कर्षापकर्षगतिविधिः संभवति, तथा जगद्व्यापित्वात् धर्माधर्मयोर्यदा धर्मोपग्रहाद् आत्मपुद्गलानां गतिस्तदेवाधर्मोपग्रहात् स्थितिरिति गतेः प्रतिबन्धः । यदा वा अधर्मानुप्रहात्स्थितिस्तदैव धर्मानुग्रहाद्गतिरिति स्थितेः ३० प्रतिबन्धः । एवं तेषां न गतिर्न स्थितिरित्युभयाभावः इति; तन्न; किं कारणम् ? स्वतः परिणामसामर्थ्यस्य अनुग्रहाकाङ्क्षित्वात् । कथम् ? कुण्टनयनयष्टिप्रदीपवत् । यथा कुण्टस्य गतिपरिणामैसमर्थस्य यष्टिरुपग्राहिका न तु सा तस्य गतेः कर्त्री । यद्यसमर्थस्यापि कर्त्री भवेत् ; मूच्छितसुषुप्तादीनामपि यष्टिसंबन्धाद्गतिः स्यात् । यथा वा नयनस्य स्वतो दर्शनसमर्थस्य प्रदीप उपग्राहकः
प्रदीप ने दर्शनशक्तेः कर्ता । यद्यसमर्थस्यापि कर्ता स्यात्, मूच्छितसुषुप्तजात्यन्धानामपि ३५ दर्शनं कुर्यात् । तथा आत्मपुद्गालानामपि स्वयमेव गतिस्थितिपरिणामिनां धर्माधर्मावुपग्राहकौ