________________
४६२ तत्त्वार्थवार्तिके
[१७ स्तिकायः। 'तेषामेव स्वत एव स्थितिमास्कन्दतां बाह्यांपग्रहकारणत्वेनानुमीयमानोऽधर्मास्तिकायः । सर्वत्र च तत्प्रयोजनदर्शनात् सर्वगतौ चैताविति ।
उपग्रहावचनमुपकारेण कृतत्वात् ।१५॥ उपग्रहवचनमनर्थकम् । कुतः ? उपकारेण कृतत्वात् । उपग्रह उपकार इत्यनान्तरम् । तेन गतिस्थिती धर्माधर्मयोरुपकार इत्यस्तु लघुत्वात् ।
'तयोः कर्तृत्वप्रसङ्ग इति चेत्, न; उपकारवचनात् यष्ट्यादिवत् ।१६। स्यादेतत्गतिस्थित्योः धर्माधर्मों कर्तारौ इत्ययमर्थः प्रसक्त इति; तन्नः किं कारणम् ? उपकारवचनात् । उपकारो बलाधानम् अवलम्बनम् इत्यनान्तरम् । तेन धर्माधर्मयोः गतिस्थितिनिर्वर्तने प्रधानकर्तृत्वमपोदितं भवति । यथा अन्धस्येतरस्य वा स्वजङ्घाबलाद्गच्छतः यष्टयायुपकारकं भवति
न तु प्रेरकं तथा जीवपुद्गलानां स्वशक्त्यैव गच्छतां तिष्ठतां च धर्माधर्मों उपकारको न प्रेरको १० इत्युक्तं भवति ।
___ गतिस्थिती धर्माधर्मकृते इत्यनुपदेशाच्च ।१७। यदि धर्माधर्मों गतिस्थित्योः 'प्रधानकतोरों स्याताम् 'गतिस्थिती धमोधर्मकृते' इत्युच्येत, न त्वेवमुक्तम् । ततश्च मन्यामहे न प्रधानकर्तारौ इति ।
'न वा, यथासंख्यनिवृत्त्यर्थत्वात् ।१८। न वैष दोषः । किं कारणम् ? यथासंख्यनिवृत्त्यर्थ१५ त्वात् । 'गतिस्थिती धर्माधर्मयोरुपकारः' इत्युच्यमाने आत्मनां गतिपरिणामोपकारो धर्मस्य न
पुद्गलानाम् , स्थितिपरिणामोपकार इतरस्य नात्मनामिति याथासंख्यं प्रतीयेत, तन्निवृत्त्यर्थमुपग्रहवचनं क्रियते।
व्याख्यानादिष्टसंप्रत्यय इति चेत्, न प्रतिपत्तेगौरवात् ।१६। स्यादेतत् , सर्वसन्देहेष्विदमपतिष्ठते-"व्याख्यानतो विशेषप्रतिपत्तिनं हि सन्देहादलक्षणम्" [पात. महा० पस्पशा० सू० ६] इति । २० तत इष्टस्य संप्रत्ययो भवतीति; तन्न; किं कारणम् ? प्रतिपत्तगौरवात् । व्याख्यानादिष्टसंप्रत्यये क्रियमाणे बुद्धिखेदो माभूत् इत्युपग्रहवचनं कृतम् ।
'सौषिर्यादाकाशस्योपग्रह इति चेत् ; न; धर्माधर्मकालात्मपुद्गलाधिकरणत्वात् नगरान्तगंतवेश्मवत् ।२०। स्यादेतत्-आकाशं सर्वगतमस्ति, तच्च सौषिर्यगुणोपेतम् , अतः तस्यैव गतिस्थित्युपग्रहौ युक्तः, किमन्याभ्यां वृथा कल्पिताभ्यां धर्माधर्माभ्यामिति? तन्नः किं कारणम् ? धर्माधर्मकालात्मपुद्गलाधिकरणत्वात् नभसः। कथम् ? नगरान्तर्गतवेश्मवत् । यथा नगरान्तर्गतानां वेश्मनां नगरमधिकरणं तथा धर्मादीनां पश्चानाम् आकाशमधिकरणम् । न चान्यस्य धर्मोऽन्यस्य भवितुमर्हति । यदि स्यात् , अप्तेजोगुणा द्रवदनादयः पृथिव्या एव कल्प्यन्ताम् । किश्च,
आकाशास्तित्वेऽपि अनुगृहीतद्रव्यसंबन्धेन सामर्थ्याविर्भावदर्शनात् अनिमिषव्रज्यावत् ।२१। यथा अनिमिषस्य व्रज्या जलोपग्रहाद्भवति, जलाभावे च भुवि न भवति सत्यप्याकाशे । यद्याकाशोपग्रहात् मीनस्य गतिर्भवेत् भुवि अपि भवेत् । तथा गतिस्थितिपरिणामिनाम् आत्मपुदलानां धर्माधर्मोपग्रहात् गतिस्थिती भवतो नाकाशोपग्रहात् । यद्याकाशोपग्रहात्"गतिस्थिती स्याताम् ; अलोकाकाशेऽपि भवेताम् । ततश्च लोकालोकविभागाभावः स्यात् । लोकव्यतिरिक्तन चाऽलोकेन भवितव्यं नब्पदोपहितस्यार्थवत्त्वदर्शनात् अब्राह्मणाभिधानवत् ।
तथा जीवपुद्गलानां स्वयमेव स्थितिपरिणामिनां तदुपन-मु०, ब०। २-यः इति स-मु०, द०, ब० । ३ तटस्थाभिप्रायं निराकरोति परः। ४ निराकृतम् । ५ प्रेरक । ६ अथाचार्यों वदति। - अनर्थकानि वचनानि किनिदिष्टं सचयन्त्याचार्यस्य । ८ सौखर्या-मु०। सुषिरत्व । । मत्स्यस्य । १० गमनम । १५-त् स्याता-मू०।