________________
५।१७]
पञ्चमोऽध्यायः न षष्ठीवृत्तिर्द्विवचननिर्देशात् ।६। नेयं षष्ठी वृत्तिः-गतिस्थित्योरुपग्रहौ गतिस्थित्युपग्रहाविति । कुतः ? द्विवचन निर्देशात् । यदि हि अत्र षष्ठीवृत्तिः स्यात् , उत्तरपदार्थस्य भावस्यैकस्य प्राधान्यात् लघ्वर्थ एकवचननिर्देशः क्रियेत, भेदेन च प्रयोजनाभावात् ।
परिशेषात् समानाधिकरणा वृत्तिः ।७। परिशेषात् समानाधिकरणलक्षणा वृत्तिर्वेदितव्यागतिस्थिती एव उपग्रहौ गतिस्थित्युपग्रहाविति ।
तथा च द्वित्वोपपत्तिः ।। एवं च कृत्वा द्वित्वमुपपन्नं भवति, गतिस्थित्योर्भेदात् तत्सामानाधिकरण्यात् भेदसिद्धेः । कथं सामानाधिकरण्यम् ? कर्मसाधनत्वात्-'उपगृह्यते इत्युपग्रहो गतिस्थिती इति ।
धर्माधर्मयोरिति कर्तृनिर्देशः ।। धर्माधर्मयोरित्ययं कर्तृनिर्देशो द्रष्टव्यः । कथम् ? कर्तरि षष्ठीविधानात् । कां क्रियामपेक्ष्य कर्तृत्वं विवक्षितम् ? उपकार इत्युच्यते-उपकरोति' क्रियायाः १० कर्तृत्वम् उपकार इति । किंसाधनोऽयं शब्दः ? भावसाधनः।।
उपकार इति भावसाधनश्चेत् ; पूर्वेण सामानाधिकरण्यानुपपत्तिरर्थान्तरवृत्तेः ॥१०॥ यधुपकरणमुपकार इति भावसाधनशब्दः, गतिस्थित्युपग्रहावित्यनेन सामानाधिकरण्यं नोपपद्यते धर्माधर्मयोरुपकारो गतिस्थित्युपग्रहाविति । कुतः ? अर्थान्तरवृत्तेः। उपकारो हि धर्माधर्मयोवर्तते कर्तृस्थक्रियात्वात् करोतेः, उपगृह्यमाणे तु गतिस्थिती जीवपुद्रलेष्विति । एवं तर्हि कर्म- १५ साधनः? _ 'कर्मसाधनश्चेद्वचनभेदानुपपत्तिः ।११। यदि कर्मसाधनः; वचनभेदो नोपपद्यते, सामानाधिकरण्यात् द्विवचनं प्राप्नोति ।
न वा सामान्योपादानात् ।१२। न वैष दोषः, किं कारणम् ? सामान्योपादानात् । यथा 'साधोः कार्य तपःश्रुते' इति प्राक्सामान्यमपेक्ष्य लब्धैकवचनः कार्यशब्दः पश्चाद्विशेषसन्निधा- २० नेऽपि नोपात्तं वचनं जहाति, तदिहापि (तद्वदिहापि) उपकारशब्दः उपात्तान्तरङ्गकवचनो भिन्नवचनपदान्तरापेक्षायामपि न वचनान्तरसंक्रमं करोति ।।
षष्ठीवृत्तिर्वा भावसाधनत्वोपपत्तेः ।१३। अथवा, गतिस्थित्योरुपग्रहौ गतिस्थित्युपग्रहाविति षष्ठीवृत्तिरियम् । कुतः ? भावसाधनत्वोपपत्तेः, उपग्रहणमुपग्रह इति भावसाधनोऽयं शब्दः । तथा उपकारशब्दश्च भावसाधनः-उपकरणमुपकारः इति ।
२५ ननु चोक्तं भावस्यैकत्वात् द्विवचननिर्देशो नोपपद्यते इति; नैष दोषः;
यथासंख्यप्रतिपत्त्यर्थो द्विवचनप्रयोगः ।१४। धर्माधर्मों द्वौ गतिस्थित्युपग्रहौ द्वौ, तयोः सामान्यात् यथासंख्यं स्यादिति द्विवचनप्रयोगः क्रियते । एकवचने हि सति यथा भूमिरेकैवाप्रवादीनां गतिस्थित्योरुपग्रहे वर्तते, तथा धर्म एक एव जीवपदलानां गतिस्थित्योरुपग्रहं कुर्यात, तथाऽधर्मोऽपि इत्ययमर्थो गम्येत । अन्यतरस्य वैयर्थ्यमिति चेत् ;न; "अनेकसहायकारणदर्शनात्"। ३० तेनैतदुक्तं भवति-जीवपुद्गलानां स्वयमेव गतिपरिणामिनां तदुपग्रहकारणत्वेनानुमीयमानो धर्मा
१ धर्माधर्माभ्यामुपक्रियते । २ इति । ३ तदपेक्षोऽयं कर्तरि षष्ठीनिर्देशः। ४-ते कुतः अर्थान्तरवृत्तः धर्मा-मु०, मू०, ९०, ब०। ५ तटस्थ आह । ६ आह चोदकः । ७ किं तत् । ८ तथा हि धर्माधर्मयोः क उपकार इन्युक्त गतिस्थित्युपग्रहाविति पश्चाविशेषसम्बन्धात् । १ तथा सति सूत्रकारस्य धर्माधर्मयोर्मध्ये । १० यथैकस्य घटस्य चक्रचीवरकुलालाधनेकसहायकारणं दृष्टं तथा जीवपुद्गलानां गतिस्थित्योः। ११ ता० प्रती वार्तिकचिह्वाक्तिमिदम् ।