________________
५.
१०
२५
तत्त्वार्थवार्तिके
[ ५।१७
न धर्मादीनां नानात्वम्, कुतः ? देशसंस्थानका लदर्शनस्पर्शनावनाहनाद्यभेदात् ॥ १० ॥ देशस्तावदेषामभिन्नः - यस्मिन् देशे धर्मोऽवस्थितः तस्मिन्नवेतरेषामवस्थानात् । संस्थानमप्यभिन्नम्यदेव धर्मस्य संस्थानमाकारः तदेवेतरेषाम् । कालश्चाभिन्नः - त्रिषु कालेषु धर्मादीनां तुल्यवृत्तित्वात् । दर्शनमप्यविशिष्टम् - येपुं ( तेषु ) यत्रैको धर्मः प्रत्यक्षज्ञानिभिर्दृष्टः तत्रवेतरेपामपि दर्शनम् । स्पर्शनमप्यविशिष्टम् - धर्मादीनि द्रव्याणि सर्वात्मनाऽन्योन्यं स्पृशन्तीति । अवगाहनं चाऽभिन्नम् - एप सर्वगतत्वात् । तथा अरूपत्वद्रव्यत्वज्ञेयत्वादिभिरण्यविशेषोऽवसेयः । अत्रोच्यते
३०
४६०
न; " अतस्तत्सिद्धेः | ११ | यत एव धर्मादीनां देशादिभिः अविशेषस्त्वया चोद्यते अत एव नानात्वसिद्धिः, यतो नासति नानात्वेऽविशेर्पासिद्धिः । न ह्येकरयाविशेषोऽस्ति । किञ्च यथा रूपरसादीनां तुल्यदेशादित्वे नैकत्वं तथा धर्मादीनामपि नानात्वमिति ।
गतिस्थित्युपग्रह धर्माधर्म योरुपकारः ॥ १७ ॥
अथवा, अन्धभेदात् पुगलानाम् असंख्येयप्रदेशत्वाच्च आत्मनाम् अवगाहिनाम् एक १५ प्रदेशादिषु पुद्गलानाम् असंख्येयभागादिषु च जीवानामवस्थानं युक्तमुक्तम् । तुल्ये पुनरसंख्येयप्रदेशत्वे कृत्स्नलोकव्यापित्वमेव धर्माधर्मयोः न पुनरसंख्येयभागादिवृत्तिरित्येतत्कथमनपदिष्टहेतुकमवसानुं शक्यमिति । अत्र ब्रूमः - अवसेयमसंशयम् । यथा मत्स्यगमनस्य जलमुपग्रहकारणमिति नासति जले मत्स्यगमनं भवति, तथा जीवपुद्गलानां प्रयोगवित्रसा परिणाम निमित्ता हितप्रकारां गतिस्थितिलक्षणां क्रियां स्वत एवाऽऽरभमाणानां सर्वत्र भावात् तदुपग्रहकारणाभ्यामपि २० धर्माधर्माभ्यां सर्वगताभ्यां भवितव्यम्, नासतोस्तयोर्गतिस्थितिवृत्तिरिति व्यापित्वदर्शनार्थमिद्
मुच्यते ।
आह-रूपादीनां तुल्यदेशत्वेऽपि चाक्षुपत्वादि विशिष्टलक्षणोपेतत्वात् नानात्वं युक्तं न तथा धर्मादीनां विशेषकरं किञ्चिल्लक्षणमुक्तम् । स्यादेतत्, यदि न लक्षणभेदः । अस्ति तु भिन्नं लक्षणम् । किं पुनस्तदिति ? अत उत्तरं पठति
द्रव्यस्य देशान्तरप्राप्तिहेतुः परिणामो गतिः । १ । द्रव्यस्य बाह्यान्तरहेतुसन्निधाने सति परिणममानस्य देशान्तरप्राप्तिहेतुः परिणामो गतिरित्युच्यते ।
तद्विपरीता स्थितिः ।२। द्रव्यस्य स्वदेशादप्रच्यवनहेतुर्गतिनिवृत्तिरूपा स्थितिरवगन्तव्या । उपग्रहोऽनुग्रहः ।३। द्रव्याणां शक्तयन्तराविर्भावे कारणभावोऽनुग्रह, उपग्रह इत्याख्यायते ।
गतिस्थित्युपग्रहावित्य ने कविग्रहसंभवादर्थानिश्चयः |3| विग्रहपूर्वको हि लोके वृत्तिपदस्यार्थनिश्चयो भवति । गतिस्थित्युपग्रहों इत्यत्र तु अनेकविग्रहसंभवात् नास्त्यर्थानिश्चयः । तद्यथा - गतिश्च स्थितिश्च गतिस्थिती, गतिस्थिती उपग्रहौ ययोस्तौ गतिस्थित्युपग्रहौ । गतिस्थित्योरुपग्रहौ गतिस्थित्युपग्रहौ । गतिस्थिती एव वा उपग्रहौ गतिस्थित्युपग्रहौ इति ? नैप दोषः ।
अन्यपदार्थवृत्त्यभावो गतिस्थित्युपग्रहो धर्माधर्मावित्यवचनात् || नात्राऽन्यपदार्था वृत्तिः संभवति । कुतः ? गतिस्थित्युपग्रहौ धर्माधर्मावित्यवचनात् ।
१ धर्मादिषु मध्ये एकः । २ यत एवाभेद आपादितः । ३ अभेदः । ४ यथा संयुक्तयोः क्षीरनीरयोरभेदः । ५ तुल्यदेशाधिष्टानत्वे मु०, ६०, ब० । ६ २ सनग्राह्यत्वादि । ७ उपग्रहणमुपग्रहः ।